Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 449
________________ २५४ स्तुतिचतुर्विशतिका [२९ श्रीमोमि 'विश्वासेवितताम्रपादपरताम्' विश्वेन-जगता आसेवितौ अर्चितौ वा ताम्रौ-रक्तवर्णी पादौ-चरणौ तयाः परतां - तदेकशरणताम् । कथम् ! । असकृत्-निरन्तरम् । शार्दूलविक्रीडितं छन्दः। लक्षणं तु पूर्वमेवोक्तम् ॥ ४ ॥ ॥ इति महोपाध्यायश्रीभानु श्रीनेमिनाथजिनस्य स्तुतिवृत्तिरियम् ॥ __ सौ. वृ०-हस्तेति । सा अम्बानाम्नी देवी न:-अस्माकं भूति-लक्ष्मी वितनोतु इत्यन्वयः। 'वितनोतु' इति क्रियापदम् । का की ? । 'अम्बा' । वितनोतु' विस्तारयतु। कां कर्मतापनाम् ? । 'भूतिम्'। केषाम् ? । 'नः' अस्माकम् । किंविशिष्टा अम्बा ? । 'अर्जुनरुचिः' सुवर्णच्छविः । पुनः किंविशिष्टा अम्बा। विततः-विस्तीर्णो य आम्रपादपः-सहकारतरुः तत्र रता-आसक्ता वितताम्रपादपरता', सहकारतरूनिवासिनीत्यर्थः । पुनः किंविशिष्टा अम्बा ?। रिपूणां-वैरिणां त्रासं-अकस्माभयं करोतीति 'रिपुत्रासकृत् 'रिपुभयकारिणीत्यर्थः। कया ?। 'वाचा' हक्कारेण । पुनः किंविशिष्टा अम्बा ? ' हस्ते-करे आलम्बिता-लोलायमाना चूतस्य-सहकारस्य लुम्बिः-प्रलम्बा (?) लतिका यया सा 'हस्तालम्बितचूतलुम्बिलतिका'। पुनः किंविशिष्टा अम्बा ? 'अधिवढा' अध्यारूढा । कस्मिन् ? । 'सिंहे' कण्ठीरवे । किंविशिष्टे सिंहे ? । उलसन-जायद विश्वासः-प्रतीतिलक्षणो यस्य स उल्लसद्विश्वासः तस्मिन् 'उल्लसद्विश्वासे'। पुनः किंविशिष्टा अम्बा ? । 'सा' सा-प्रसिद्धा। तच्छब्दो यच्छब्दमपेक्षते । सा का ? । जनो-लोको यस्याः अम्बाया विश्वं-जगत् तेन आसेवितौ-आराधितौ ताम्रौरक्तौ पादौ-चरणौ तयोः परतां-तत्परतां विश्वासेवितताम्रपादपरतां' अभ्यागमत् इत्यन्वयः । 'अभ्यागमत् ' इति क्रियापदम् । कः कर्ता ? । 'जनः' । 'अभ्यागमत् ' प्रापत् । कां कर्मतापन्नाम् ? । 'विश्वासेवितताम्रपादपरता जगदाराधितताम्रचरणसंगतिम् । कथम्। ? । 'असकृत्' नित्यशः। कस्याः?। 'यस्याः । देव्याः। पुनः किंविशिष्टा अम्बा ? । चारिणौ-विहरणशीलौ पुत्रौ यस्याः सा 'चारिपुत्रा', बवयोरैक्यं यमकत्वात् । एतादृशी अम्बा नः-अस्माकं भूतिं वितनोतु । इति पदार्थः ॥ अथ समासः-चूतस्य लुम्बिः चूतलुम्बिः चूतलुम्बिः एव लतिका चूतलुम्बिलतिका, हस्ते आलम्बिता हस्तालम्बिता, हस्तालम्बिता चूतलुम्बिलतिका यया सा हस्तालम्बितचूतलुम्बिलतिका। विश्वेन आसेवितौ विश्वासेवितो, ताम्रौ च तौ पादौ च ताम्रपादौ, विश्वासेवितौ च तो ताम्रपादौ च विश्वासेवितताम्रपादौ, परस्य भावः परता, विश्वासवितताम्रपादयोः परता विश्वासेवितताम्रपादपरता. तो विश्वासेवितताम्रपादपरताम् । चारिणौ पुत्रौ यस्याः सा चारिपुत्रा । न सकृत् असकृत् । अर्जुनवद् रुचिर्यस्या असौ अर्जुनरुचिः। हिनस्तीति सिंहः; वर्णविपर्यये, तस्मिन् सिंहे । उलसंश्चासौ विश्वासश्च उल्लसद्विश्वासः, तस्मिन् उल्लसद्विश्वासे, यद्वा उल्लसन् विश्वासो यस्य स उल्लसद्विश्वासः तस्मिन् । आम्रश्चासौ पादपश्च आम्रपादपः, विततश्चासौ आम्रपादपश्च वितताम्रपादपः, वितताम्रपादपे रता वितताम्रपादपरता । रिपूणां त्रासो रिपुत्रासः, रिपुत्रासं करोतीति रिपुत्रासकृत् ॥ इति चतुर्थवृत्तार्थः ॥ ४॥ श्रीमनेमिजिनेन्द्रस्य, स्तुतेरो लिवीकृतः। सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना ॥ ॥ इति श्रीद्वाविंशति(तम)श्रीनेमिनाथस्य स्तुतेाख्यानम् ॥ ४ । २९ । ८८॥ दे. ज्या-हस्तेति।सा अम्बिका देवी न:-अस्माकं भूति-ऋद्धिं वितनोतु-विस्तारयतु इति सम्बन्धः। 'तनु विस्तारे' धातः। वितनोतु' इति क्रियापदम्। का की ? । अम्बिका । कां कर्मतापनाम् । भूतिम् ? । “ऋद्धिः विभतिः सम्पत्तिः" इत्यभिधानचिन्तामणिः (का. ३, श्लो. २१)। केषाम् । नः । किंविशिष्टा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562