Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
२२८
स्तुतिचतुर्विंशतिका
[ २० श्रीमुनिसुव्रत
तम् ± । ' अलकराजि ' अलकैः - कुन्तलैः राजते इत्येवंशीलं अलकराज । पुनः कथंभूतम् । ' तामरसभासि ' तामरसं—कमलं तद्वद् भासते इति तामरसमासि, पद्मवद् मासनशीलमित्यर्थः । पुनः कथंभूतम् ? । 'अतुलोपकृतं' अतुलं असदृशं उपकृतं उपकारो यस्य तत् । कृपाकटाक्षविलोकनमात्रेणैव सुखजनकत्वादिति भावः । कथंभूता गौरी ! ।' कमलकरा ' कमलं करे यस्याः सा, कोडायै तग्रहणादिति भावः । यदिवा कमवत् करौ यस्याः सा तथेत्यर्थः । पुनः कथंभूता ? । ' जितामरसमा ' जिता- निष्प्रभीकृता स्वरूपनेपय्यादिभिः अमराणां सभा यया सा तथा || नर्कुटकं छन्दः ॥ " यदि भवतो नजौ मजजला गुरु नर्कुट कम् " इति च तल्लक्षणम् ॥ ४ ॥
॥ इति महोपाध्यायश्रीभानुचन्द्र० श्रीमुनिसुव्रतजिनस्तुतिवृत्तिः ॥ २० ॥
सौ० ० -- अधिगतेति । गौरी-गौरी नाम्नी देवी तव ' लोपकृतं ' लोपो विघ्नाक्षेमादि कृतं कर्तारं अस्यतु इत्यन्वयः । ' अस्थतु' इति क्रियापदम् । का कर्त्री ? | 'गौरी'। 'अस्यतु' क्षिपतु-निराकरोतु । कं कर्मतापन्नम् ? | 'लोपकुतं ' विघ्नकर्तारम् । कस्य ! | 'तव' ते । किंविशिष्टा गौरी ? । अधिगता - अधिपिता गोधिका देववाहनविशेषो यया सा 'अधिगतगोधिका', चन्दनगोधावाहनेत्यर्थः । पुनः किंविशिष्टा गौरी ? | 'कनकरुक् ' सुवर्णच्छविः । पुनः किं कुर्वती गौरी ? ।' दूधती' धारयन्ती । किं कर्मतापनम् ? । 'वदनं' मुखम् । किंविशिष्टं वदनम् । 'उचितं ' योग्यम् अकं - चिंखादिकं यस्मिन् तत् ' उचिताम् । कैः कृत्वा ? | मृगमदः - कस्तूरिका पत्रभङ्गाः- पत्रवलयः पियलि इति भाषा तिलकं ललामं मृगमदपत्रभङ्ग froatia : ' मृगमदपत्रभङ्गतिलकैः । पुनः किंविशिष्टा गौरी ? । अलकाः - केशास्तेषां राजि:श्रेणिः तस्यां तामरसानि - कमलानि तेषां भा-कान्तिर्यस्याः सा अलकराजितामरसभासी । पुनः किंविशिष्टा गौरी ? | कमलकरा' कमलहस्ता । पुनः किंविशिष्टा गौरी ? | लावण्यादिगुणैः 'जितामरसभा ' निर्जितसुरपर्षत् । कथम् | अतुलः (लं) - अमेयः (यं) उपकृतं - उपकृतिगुणो यथा भवतीति तथा 'अतुलोपकृतम् | अमेयोपकारगुणाधिक्येन निर्जितसुरपर्षत् तादृशी गौरी देवी तव लोपकृतं *अस्यतु-क्षिपतु । इति पदार्थः ॥
<
1
ܙ
अथ समासः -- अधिगता गोधिकां देववाहनविशेषो यया सा अधिगतगोधिका । कनकबद् रुकू यस्याः सा कनकरुक् । उचितानि अङ्कानि चिह्नानि रेखादीनि यस्मिन् तत् उचिताङ्कं तत् उचिताङ्कम । अलकानां राजिः अलकराजिः, अलकराज्यां तामरसानि अलकराजितामरसानि, अलकराजितामरसानां भा यस्यां सा अलकराजितामरसभांसी । अतुलं उपकृतं यस्मिन् तत् अतुलोपकृतं यथा स्यात् तथा । अथवा वदनस्यापि विशेषणमिदम्। मृगमदच पत्रभङ्गाञ्च तिलकानि च मृगमदपत्र भङ्गतिलकानि, तैः सृगमदपत्रभङ्गतिलकैः । कमलं करे यस्याः सा कमलकरा । अमराणां सभा अमरसभा, जिता अमरसभा यया सा जितामरसभा । लोपं करोतीति लोपकृत्, तं लोपकृतम् ॥ इति तुर्यवृत्तार्थः ॥ ४ ॥
Jain Education International
श्री कूमावजिनेशस्य, स्तुतेरर्थो लिबीकृतः ।
सौभाग्य सागर ख्येण, सूरिणा ज्ञानसेविना ॥ १ ॥
॥ इति श्रीविंशतितममुनिसुव्रतजिनस्तुतिः ॥ ४ । २० । ८० ॥
दे० व्या०-अधिगतेति । गौरी देवी तव छोपकृतं विनाशकारकं अस्यतु - क्षिपतु इत्यन्वयः । ' अस क्षेपणे' धातुः । 'अस्तु' इति क्रियापदम् । का कर्त्री ? । गौरी देखी। कं कर्मतापत्रम् ? । खोपकृतम् । कस्य ? | तव । किंविशिष्टा गौरी ? । 'अधिगतगोधिका' अधिगता - आरूढा गोधिका यथा सा तथा । गोधिका देववाहन
१' चिह्न रेखादिक' इति प्रतिभाति ।
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/c6d508d0e377deac9bf82d070bb2a4e0b66cc9527d075125f3f569fcece28eb6.jpg)
Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562