SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ २२८ स्तुतिचतुर्विंशतिका [ २० श्रीमुनिसुव्रत तम् ± । ' अलकराजि ' अलकैः - कुन्तलैः राजते इत्येवंशीलं अलकराज । पुनः कथंभूतम् । ' तामरसभासि ' तामरसं—कमलं तद्वद् भासते इति तामरसमासि, पद्मवद् मासनशीलमित्यर्थः । पुनः कथंभूतम् ? । 'अतुलोपकृतं' अतुलं असदृशं उपकृतं उपकारो यस्य तत् । कृपाकटाक्षविलोकनमात्रेणैव सुखजनकत्वादिति भावः । कथंभूता गौरी ! ।' कमलकरा ' कमलं करे यस्याः सा, कोडायै तग्रहणादिति भावः । यदिवा कमवत् करौ यस्याः सा तथेत्यर्थः । पुनः कथंभूता ? । ' जितामरसमा ' जिता- निष्प्रभीकृता स्वरूपनेपय्यादिभिः अमराणां सभा यया सा तथा || नर्कुटकं छन्दः ॥ " यदि भवतो नजौ मजजला गुरु नर्कुट कम् " इति च तल्लक्षणम् ॥ ४ ॥ ॥ इति महोपाध्यायश्रीभानुचन्द्र० श्रीमुनिसुव्रतजिनस्तुतिवृत्तिः ॥ २० ॥ सौ० ० -- अधिगतेति । गौरी-गौरी नाम्नी देवी तव ' लोपकृतं ' लोपो विघ्नाक्षेमादि कृतं कर्तारं अस्यतु इत्यन्वयः । ' अस्थतु' इति क्रियापदम् । का कर्त्री ? | 'गौरी'। 'अस्यतु' क्षिपतु-निराकरोतु । कं कर्मतापन्नम् ? | 'लोपकुतं ' विघ्नकर्तारम् । कस्य ! | 'तव' ते । किंविशिष्टा गौरी ? । अधिगता - अधिपिता गोधिका देववाहनविशेषो यया सा 'अधिगतगोधिका', चन्दनगोधावाहनेत्यर्थः । पुनः किंविशिष्टा गौरी ? | 'कनकरुक् ' सुवर्णच्छविः । पुनः किं कुर्वती गौरी ? ।' दूधती' धारयन्ती । किं कर्मतापनम् ? । 'वदनं' मुखम् । किंविशिष्टं वदनम् । 'उचितं ' योग्यम् अकं - चिंखादिकं यस्मिन् तत् ' उचिताम् । कैः कृत्वा ? | मृगमदः - कस्तूरिका पत्रभङ्गाः- पत्रवलयः पियलि इति भाषा तिलकं ललामं मृगमदपत्रभङ्ग froatia : ' मृगमदपत्रभङ्गतिलकैः । पुनः किंविशिष्टा गौरी ? । अलकाः - केशास्तेषां राजि:श्रेणिः तस्यां तामरसानि - कमलानि तेषां भा-कान्तिर्यस्याः सा अलकराजितामरसभासी । पुनः किंविशिष्टा गौरी ? | कमलकरा' कमलहस्ता । पुनः किंविशिष्टा गौरी ? | लावण्यादिगुणैः 'जितामरसभा ' निर्जितसुरपर्षत् । कथम् | अतुलः (लं) - अमेयः (यं) उपकृतं - उपकृतिगुणो यथा भवतीति तथा 'अतुलोपकृतम् | अमेयोपकारगुणाधिक्येन निर्जितसुरपर्षत् तादृशी गौरी देवी तव लोपकृतं *अस्यतु-क्षिपतु । इति पदार्थः ॥ < 1 ܙ अथ समासः -- अधिगता गोधिकां देववाहनविशेषो यया सा अधिगतगोधिका । कनकबद् रुकू यस्याः सा कनकरुक् । उचितानि अङ्कानि चिह्नानि रेखादीनि यस्मिन् तत् उचिताङ्कं तत् उचिताङ्कम । अलकानां राजिः अलकराजिः, अलकराज्यां तामरसानि अलकराजितामरसानि, अलकराजितामरसानां भा यस्यां सा अलकराजितामरसभांसी । अतुलं उपकृतं यस्मिन् तत् अतुलोपकृतं यथा स्यात् तथा । अथवा वदनस्यापि विशेषणमिदम्। मृगमदच पत्रभङ्गाञ्च तिलकानि च मृगमदपत्र भङ्गतिलकानि, तैः सृगमदपत्रभङ्गतिलकैः । कमलं करे यस्याः सा कमलकरा । अमराणां सभा अमरसभा, जिता अमरसभा यया सा जितामरसभा । लोपं करोतीति लोपकृत्, तं लोपकृतम् ॥ इति तुर्यवृत्तार्थः ॥ ४ ॥ Jain Education International श्री कूमावजिनेशस्य, स्तुतेरर्थो लिबीकृतः । सौभाग्य सागर ख्येण, सूरिणा ज्ञानसेविना ॥ १ ॥ ॥ इति श्रीविंशतितममुनिसुव्रतजिनस्तुतिः ॥ ४ । २० । ८० ॥ दे० व्या०-अधिगतेति । गौरी देवी तव छोपकृतं विनाशकारकं अस्यतु - क्षिपतु इत्यन्वयः । ' अस क्षेपणे' धातुः । 'अस्तु' इति क्रियापदम् । का कर्त्री ? । गौरी देखी। कं कर्मतापत्रम् ? । खोपकृतम् । कस्य ? | तव । किंविशिष्टा गौरी ? । 'अधिगतगोधिका' अधिगता - आरूढा गोधिका यथा सा तथा । गोधिका देववाहन १' चिह्न रेखादिक' इति प्रतिभाति । For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy