________________
जिनस्तुतयः स्तुतिचतुर्विशतिका
२२७ 'मृगमदपत्रभङ्गतिलकै।' मृगमदेन-कस्तूरिकया ये पत्रभङ्गतिलका:-पत्रच्छेदोपलक्षितविशेषकास्तैः कृत्वा।पुनः कयं. १ 'अलकराजि' कुरळोद्भासि । “कुरुलो भ्रमराळक" इत्यभिधानचिन्तामणौ (का०३,श्लो०२३३)। पुनः कथं०१ 'तामरसभासि' पद्मवद् भासनशीलम्। पुनः कथं० १ अतुलोपकृतं' स्वकान्तिसम्भागप्रदानादिना अतुलं-असदृशं उपकृतं-उपकारो यस्य तत् तथा। अथवा अतुळं यया स्यात् तथा उपकृतं-उपकारे स्थितम् । पुनः कथंभूता गौरी ? 'कमळकरा' कमळं करे यस्याः सा वया, अथवा कमळवत् करौ यस्याः सा तथा । पुनः कयं० ' जितामरसभा' जिता-निष्पभीकता रूपनेपथ्यप्रागल्भ्यादिभिः अमराणां सभा यया सा तथा॥
अथ समासः-अधिगता गोधा यया सा अधिगतगोधिका 'बहुव्रीहिः । कनकवद् रुक् यस्याः सा कनक० 'बहुव्रीहि: । उचिता अङ्का यस्मिन तव उचिताडूं.० 'बहुव्रीहिः । (तत् उचि०।) अलकै राजि अल. 'तत्पुरुषः । तदल । तामरसवद् भासि तामर० 'तत्पुरुषः। तत् ताम० । अतुलं उपकृतं यस्य तदतुलो० 'बहुव्रीहिः' तद् अतुलोपकृतम् । अथवा अतुलं उपकृतं येन तदतुलोफ़ 'बहुव्रीहिः । तदतुलो०। मृगस्य मदो मृगमदः 'तत्पुरुषः । पत्रभरुपलक्षितास्तिलकाः पत्र० 'तत्पुरुषः मुगमदेन पत्रभङ्गतिलका मृगमद० तत्पुरुषः' । तैर्मुग० । कमलं करे यस्याः सा कमल' बहुव्रीहिः ।। अथवा कमलवत् करौ यस्याः सा कमळ ० 'बहुव्रीहिः । अमराणां सभा अमर० 'तत्पुरुषः । जिता अमरसभा यया सा जिता. 'बहुव्रीहिः ।। लोपं करोतीति लोपकृत् — तत्पुरुषः । तं कोपकृतम् । इति काव्यार्थः ॥४॥
॥ इति श्रीशोभनस्तुतिकृत्तौ श्रीमुनिसुव्रतजिनपतेः स्तुतेाख्या ॥२०॥
सि. वृ०-अधिगतेति । हे मव्यात्मन् ! गौरी-गौरीनाम्नी देवी तव-भवतो लोपकृतं-विनाशकृतं अर्थाद् विपक्षादिकं अस्यतु-क्षिपत्वित्यर्थः । असु क्षेपणे ' धातोः 'आशी:प्रेरणयोः । (सा० म० ७०३ ) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् । ' दिवादेर्यः' (सा० सू० ९६३), ' स्वरहीनं । ( सा० स० ३६ )। तथाच · अस्यतुं ' इति सिद्धम् । अत्र — अस्यतु । इति क्रियापदम् । का की ! 'गौरी' गौरवर्णत्वाद् गौरी । के कर्मतापन्नम् ? | लोपकृतम् ' लोपं-विनाशं करोतीति लोपकृत् तम् । कस्य ! । तव । कथंभूता गौरी ! । ' अधिगतगोधिका ' अधिगता-प्राप्ता गोधा-देववाहनविशेषो यया सा तथा । गोधा एव गोधिका, स्वार्थे कः । अन्ये तु गोधिका अधिगता अधिगतगोधिका । क्वचिदमाद्यन्तस्य परत्वमिति गोधिकाशब्दस्य परनिपातः इति व्याख्यान्ति तच्चिन्त्यमिव प्रतिभाति । पुनः कथंभूता ? । 'कनकरुक् ' कनकं-काञ्चनं तदिव रुक् छविर्यस्याः सा कनकरुक्। गौरी किं कुर्वती ? । दधती-बिभ्राणा। किम । वदनं-मुखम् । कथंभूतं वदनम् ? । 'उचिताइक' उचिता-योग्या अका-लाञ्छनानि यस्य तत् तथा । " अङ्कः समीपे उत्सङ्गे, चिह्ने स्थानापराधयोः" इत्यमरः (!)। कैः कृत्वा ।। ' मृगमदपत्रमङ्गतिलकै: ' मगमदेन–कस्तूरिकया ये पत्रभङ्गतिलकाः-पत्रच्छेदोपलक्षितविशेषकाः तैः कृत्वा । पुनः कथंम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org