________________
२२६
स्तुतिचतुर्विंशतिका
[२० श्रीमुनिसुव्रत
तमसः, याततमसां दयितो याततमोदयितः । शिवस्य सुखानि शिवंसुखानि, शिवसुखानां साधकं शिवसुखसाधकं तत् शिवसुखसाधकम् । सुष्ठु शोभनं अभिदधत् स्वभिदधत् । सु-शोभना धीर्येषां ते सुधियः, तेषां सुधियाम् । चर्यते संसारतीरं प्राप्यते अनेन इति चरणम् । मानसं अनु-लक्षीकृत्य इत्यनुमानसम् । गमाञ्च नयाश्च गमनयाः, गमनयैः आततः गमनयाततः, तस्य सं० हे गमनयातत ! । मोदयतीति मोदयिता, तस्य सं० हे मोदयितः । । इति तृतीयवृत्तार्थः ॥ ३॥
दे० व्या० त्वभवेति । हे ' जिनोत्तमकृतान्त !' जिनोत्तमाः- तीर्थकराः तेषां कृतान्तः - सिद्धान्तः, तस्यामन्त्रणम् । त्वं भवात् - संसारात् विदुषः पण्डितान् अव-रक्षेत्यन्वयः । 'अव रक्षणे' धातुः । 'अब ' इति क्रियापदम् । कः कर्ता ? । त्वम् । कान् कर्मतापन्नान् ? । विदुषः । कस्मात् ? । भवात् । किंविशिष्टान् विदुषः । अवनतान् प्रणतान् । किंविशिष्टस्त्वम् ? । ' याततमोदयितः ' यातं गतं तमः - अज्ञानं पापं येषां ते याततमसः अर्थान्मुनयः तेषां दयितो- वल्लभः । त्वं किं कुर्वन् ? । स्वभिदधत् धारयन् । किम् ? | चरणम्चारित्रम् । “ चारित्रचरणे अपि " इत्यभिधानचिन्तामणि: ( क्रा० ३, श्लो० ५०७ ) । किंविशिष्टं चरणम् ? | 'शिवसुखसावकम् ' शिवसुखं मुक्तिसुखं तस्य साधकं प्रापकम् । शिवस्य सुखं शिवसुखमिति ' षष्ठीतत्पुरुषः' । पुनः किं कुर्वत् ? । वसत् - निवसत् । किम् ? । 'अनुमानसम् मानसं मानसं प्रति अनुमानसम् ( मानसं ) लक्षीकृत्येत्यर्थः । केषाम् ? । 'सुधियाम्' सुष्ठु - शोभना धीः- बुद्धिः येषां ते तथा तेषाम् । 'सदनुमानसङ्गमन !' इति । सत्-शोभनं यद् अनुमानं तस्य संगमनं -सङ्घट्टनं यस्मिन् तस्यामन्त्रणम् । “लिङ्गपरामशऽनुमानम् " इति नैयायिकाः । गमनयातत !' इति । गमाः सदृशपाठाः नयाः - प्रमाणैकदेशाः एतेषां 'द्वन्द्वः', तैः आ-समन्तात् ततो- विस्तीर्णः यः स तस्यामन्त्रणम् । ' मोदयितः !' इति । मोदं हर्षे कारयतीति मोदयिता तस्यामन्त्रणम् । एतानि सर्वाणि जिनसिद्धान्तस्य सम्बोधनपदानि । इति तृतीयवृत्तार्थः ॥ ३॥
श्री गौरीसंस्तव:
--
Jain Education International
ि
अधिगतगोधिका कनकरुक् तव गौर्युचिताङ्कमलकेराजि तामरसभास्यतु लोपकृतम् । मृगमदपत्रभङ्गतिलकैर्वदनं दधती
कमलकरा जितामरसभाऽस्यतु लोपकृतम् ॥ ४ ॥ २० ॥
,
- नर्कुο ज० वि० – अधिगतेति । भो भव्यात्मन् ! गौरी-गौर्याख्या देवता तव-भवतः लोपकृतं - विनाशकृतं अर्थात् विपक्षादिकं अस्यतु - क्षिपतु अथवा विनाशयतु इति क्रियाकारकयोगः । अत्र 'अस्तु' इति क्रियापदम् । का कर्त्री ? ' गौरी '। कं कर्मतापन्नम् १' कोपकृतम् ' । कस्य ? ' तत्र ' । गौरी कथंभूता ? ' अधिगतगोधिका ' अधिगता प्राप्ता गोधा - देववाहनविशेषो यया सा तथा । अत्र स्वार्थे कः प्रत्ययः । पुनः कथं० १' कनकरुक्' सुवर्णच्छविः । गौरी किं कुर्वती ? ' दधती' विभ्राणा । किं कर्मतापन्नम् ९ ' वदनं सुखम् । कथंभूतं वदनम् ? ' उचिताङ्कं ' उचिता - योग्या अङ्का - लाञ्छनानि यस्य तत् तथा । कैः कृत्वा १
"
१'० राजितामरस' इत्यपि सम्भवति ।
For Private & Personal Use Only
www.jainelibrary.org