________________
जिनस्तुतयः ]
स्तुतिचतुर्विंशतिका
२२५
( सा०
सि० धृ० त्वमवेति । जिनेषु उत्तमाः - प्रधानाः तीर्थङ्कराः तेषां कृतान्तो - राद्धान्तः तस्य संबो धनं हे जिनोत्तमकृतान्त ! त्वं भवान् अवनतान् -प्रणतान् विदुषः - पण्डितान् भवात् - संसारात् अव-रक्षेत्यर्थः । ' अव रक्षणे ' धातो: ' आशीः प्रेरणयोः ' ( सा० सू० ७०३ ) कर्तरि परस्मैपदे मध्यमपुरुषकवचनम् । क्रियायाः साधनिका तु पूर्ववत् । अत्र ' अव ' इति क्रियापदम् । कः कर्ता ? | कर्मतापन्नान् ? । ' विदुषः ' विदन्तीति विद्वांसः तान् विदुषः । ' विदेः शतुर्वसुः ' ( पा० अ० ७, पा० १, सू० ३६ ), ' वसोर्व उ:' (सा० सू० ३०२ ) इति वकारस्योकारः, ' अम्शसोरस्य सू० १२६ ) इत्यकारलोपे, 'विलात् ० ' ( सा० सू० १४१ ) इति षत्वं, ' वसोः सम्प्रसारणं ' ( पा० अ० १, पा० ४, सू० १११ ) इति वकारस्योकारः पूर्वरूपत्वं चाकारस्य । कथंभूतान् विदुषः ! | अवनतान् । कस्मात् ? । भवात् । कथंभूतस्त्वम्? | 'याततमोदयितः' यातं गतं तमो मोहो येषा ते याततमसो मुनयः तेषां दयितो- त्रल्लमः, अज्ञानवर्जितानां प्रिय इत्यर्थः । त्वं किं कुर्वन् । ' स्वभिदधत् ' सुष्ठु अभिदधानः । किं कर्म । चरणं - अनुष्ठानम् । कथंभूतम् । 'शिवसुखसाधकं ' शिवं निःश्रेयसं तस्य सुखशर्म तस्य साधकं - जनकम् । पुनः किं कुर्वत् । वसत् - तिष्ठत् । कथम् ।' अनुमानसं 'मानसमनुलक्षीकृत्य, मानसं मानसं अनु इति अनुमानसं 'अव्ययीभावः' । केषाम् ? । 'सुधियां' सुष्ठु - शोभना धीर्येषां ते सुधियः तेषाम् । अवशिष्टानि सिद्धान्तस्य सम्बोधनपदामि, तद्व्याख्या चैवम् — हे ' सदनुमानसङ्गमनं !' सद्-विद्यमानं शोमनं वा यद् अनुमानं तस्य सङ्गमनं - सङ्गतिर्यस्मिन् यस्य वा स तथा तस्य संबोधनं हे सद० । “ लिङ्गपरामर्शोऽनुमानम् " इति मणिकृतः । " परामृश्यमाणं लिङ्गमनुमानम् " इत्युदयनाचार्याः । हे 'गमनयातत !' गमः - सदृशपाठाः नया - नैगमादयः, गमाश्च नयाश्च गमनया: 'इतरेतरद्वन्द्वः', गमनयैः आ - समन्तात् ततो- विस्तृतो गमनयाततः, तस्य संबोधनं ० हे गम० ! | हे • मोदयित: ! " मोदयतीति मोदयिता, तस्य संबोधनं हे मोदयितः ! ॥ ३॥
1
1
सौ० वृ० - त्वमवेति । हे जिनोत्तमकृतान्त ! हे तीर्थकरप्रधान सिद्धान्त ! | हे सदनुमानसङ्गमन !हे प्रधानानुमानप्रसङ्ग ।। हे गमाः सदृशपाठाः नया-नैगमाद्यास्तैः कृत्वा आतत !-विस्तीर्ण ! हे 'गममयात !" । मोदयतीति मोदयिता तस्य सं० हे मोदयितः ! हे हर्षकारक ! । त्वं भवात् - संसारात् विदुषः- पण्डितान् अव इत्यन्वयः । 'अव ' इति क्रियापदम् । कः कर्ता ? ! ' त्वम् ' ' अव ' रक्ष । कान् कर्मतापान् ? | 'विदुषः ' । कस्मात् ? । 'भवात्' । किंविशिष्टान् विदुषः ? । 'अवनतान् ' प्रणतान् । किंविशिष्टस्त्वम् । यातं गतं तमः - अज्ञानं येषां ते याततमसो - मुनयः तेषां दयितो-वल्लभो ' याततमोदयितः । पुनस्त्वं किं कुर्वन् । ' वसत् ' (?) वासं कुर्वन् । किं कर्मतापन्नम् ।' अनुमानसं' मानसं - चित्तं अनु-लक्ष्यीकृत्य । केषाम् । 'सुधियां' पण्डितानाम् । पुनस्त्वं किं कुर्वन् । ' स्वभिदधत् ' सुष्ठु - शोभनं अभिदधत् - कथयन् । किं कर्मतापनम् । ' चरणं ' चारित्रम् । किंविशिष्टं चरणम् ? | शिवो मोक्षः तस्य सुखं स्वाभाविकं अचलमक्षयमव्याबाधरूपं तस्य साधकं - परमकारणम् । एतादृश हे जिनोत्तमकृतान्त | त्वं अव-रक्ष । इति पदार्थः ॥
1
,
अथ समासः - जिनानां उत्तमः जिनोत्तमः, जिनोत्तमस्य कृतान्तः जिनोत्तमकृतान्तः, तस्य सं० हे जिनोत्तमकृतान्त ! | विदन्ति ते विद्वांसः, तान् विदुषः । सत् च तत् अनुमानं (च) सद्नुमानं, सदनुमानस्य मनं - मिलनं यस्य स सवनुमानसङ्गमनः, तस्य सं० हे सदनुमानसङ्गमन ! यातं तमो येषां ते यात२९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org