SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ २२४ स्तुतिचतुर्विंशतिका [ २० श्रीमुनिसुव्रत दलानि - पर्णानि च यस्य एवंविधं यत् कमलं - तामरसं तदाननं मुखं यस्याः सा तथा । " बर्हे पर्ण छदं दलं " इत्यभिधानचिन्तामणिः ( का० ४, श्लो० १८९ ) । पुनः किंविशिष्टा ? | 'इला मिलनोदलकमला इलायाः - पृथिव्याः मिलनं सम्पर्कः तेन उत्-उत्थितः अलकेषु - कुन्तलेषु मलो यस्याः सा तथा । पुनः किंविशिष्टा । 'समरुक्' समा-सदृशा रुकू - कान्तिः यस्याः सा तथा । कया ? । 'हिमधामभया' हिमधामाचन्द्रः तस्य भा-कान्तिस्तया । एतेन शरीरस्य सौन्दर्यातिशयः सूचितः । इति द्वितीयवृत्तार्थः ॥ २ ॥ क सिद्धान्तस्तवनम् --- त्वमवनताञ्जिनोत्तमकृतान्त ! भवाद् विदुषो ST सदनुमानसङ्गमन ! यात मोदयितः । शिवसुखसाधकं स्वभिदधत् सुधियां चरणं Jain Education International वसदनुमानसं गमनयातत ! मोदयितः ! ॥ ३ ॥ नर्कु ० ज० वि० — त्वमवेति । हे जिनोत्तमकृतान्त ! - तीर्थकृत्सिद्धान्त ! त्वं भवान् अवनतानप्रणतान् विदुषः- सम्यग्ज्ञानवतः भवात् - संसारात् अव --रक्षेति क्रियाकारक सण्टङ्कः । अत्र 'अव ' इति क्रियापदम् । कः कर्ता ? । 'त्वम्' । कानप कर्मतापन्नान् ? 'विदुषः' । कथम्भूतान् विदुषः ? 'अवनतान् ' । कस्मात् १ 6 भवात् ' । कथंभूतस्त्वं ? ' याततम दयितः ' याततमसः - गतमोहा: मुनय इत्यर्थः तेषां दयितः प्रियः । त्वं किं कुर्वन् ? ' ' स्वभिदधत् ' सुष्ठु अभिदधानः । किं कर्मतापन्नम् ? ' चरणं ' अनुष्ठानम् । कथंभूतम् १' शिवसुखसाधकं ' मुक्तिसुखावर्जकम् । पुनः किं कुर्वत् १' वसत् ' तिष्ठत् । कथम् ? ' अनुमानसं मानसमनुलक्षीकृत्य । केषाम् ? ' सुधियां ' धीमताम् । अवशिष्टानि सिद्धान्तस्य सम्बोधनानि तद्द्व्याख्या त्वेवम्-हे 'सदनुमानसङ्गमन !" सद् - विद्यमानं शोभनं वा अनुमानसङ्गमनं - अनुमानस्य सङ्गतिर्यस्य स तथा तत्सम्बो० हे सदनु० | हे ' गमनयातत ! ' गमाः- सदृशपाठाः नयाः - नैगमादयः तैः आतत ! - विस्तीर्ण ! | हे ' मोदयितः !' मोदयतीति मोदयिता, तत्सम्बो० हे मोदयितः ! ॥ , 6 ; अथ समासः --- जिनानां जिनेषु वा उत्तमाः जिनोत्तमाः ' तत्पुरुषः ' । जिनोत्तमानां कृतान्तः जिनोत्तम ० ' तत्पुरुषः ' । तत्सम्बो० हे जिनोत्त० । अनुमानस्य सङ्गमनं अनुमा० 'तत्पुरुषः ' । सद् अनुमानसङ्गमनं यस्य स सदनु० 'बहुव्रीहि:' । तत्सम्बो० हे सदनु० । यातं तमो येषां ते यात ' बहुव्रीहिः । याततमसां दयितः यात० तत्पुरुषः । शिवस्य सुखं शिव० ' तत्पुरुषः ' । शिवसुखस्य साधकं शिव० ' तत्पुरुषः ' । तत् शिव० । मानसमनु अनुमानसं 'अव्ययीभावः ' । गमाश्च नयाश्च गमनया: ' इतरेतरद्वन्द्व : ' । गमनयैः आततः गम० " तत्पुरुषः ' । तत्सम्बो० हे गम० । इति काव्यार्थः ॥ ३ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy