SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ जिनस्तुतयः स्तुतिचतुर्विंशतिका २२९ विशेषः । पुनः किंविशिष्टा ? । 'कनकरुक । कनक-सुवर्ण तद्वद् रुक-कान्तिर्यस्याः सा तथा, सुवर्णवर्णेति भावः । पुनः किंविशिष्टा? 'कमलकरा' कमलं-नलिनं करे-हस्ते यस्याः सा तथा, क्रीडायै तद्ग्रहणात् । यद्वा कमलबत् करी-हस्ती यस्याः सा तथा । पुनः किंविशिष्टा ?।'जितामरसभा' अमराणां सभा अमरसभा इति षष्ठीतत्पुरुषः', ततः जिता-पराजिता अमरसभा-देवपर्षद् यया सा तथा शरीरसौन्दर्यात् तादृशनेपथ्यादिपरिधानाद् वा । किं कुर्वती देवी ? । दधती-धारयन्ती । किम् ? । वदन-वक्रम् । किंविशिष्टं वदनम् ? । 'उचिताम्' उचितं-योग्यस्थाने कृतं अडूं-लाञ्छनं यस्य तत् । “कलङ्काकी लाञ्छनं च" इत्यमरः (प्रलो०१७८)। कैः ? । 'मृगमदपत्रभङ्गतिलकैः । मृगमदो-मृगनाभिः, “मृगनाभिर्मृगमदः" इत्यभिधानचिन्तामणिः (का०३, श्लो०३०८), तस्य पत्रभङ्गाः-पत्रच्छेदाः तैरुपलक्षिता ये तिलकाः-पुण्डाविशेषाः तेः। पुनः किंविशिष्टम् ? । 'अलकराजि' अलका:-कुरुलाः तः राजत इत्यवंशीलं अलकराजि । पुन: किंविशिष्टम् ? । 'तामरसभासि' तामरसं-कमलं तद्वद् भासते इत्येवंशीलं तामरसभासि । पुनः किंविशिष्टम् ।। 'अतुलोपकृतम्' अतुलं-असदृशं उपकृतं-उपकारो यस्य तत् ॥ इति तुरीयवृत्तार्थः ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy