________________
२१२ स्तुतिचतुर्विशतिका
[ १९ श्रीमल्लिकदम्बकै : ' वपुषो - देहस्य व्यथा-यातना तस्याः कदम्बकै -समू है । नरकादिगतं जगदवन्तीति समदायार्थः । पुनः किं कुर्वतो निनोत्तमान् ? । दधतो-धारयतः । काम ! । स्रज-मालाम् । कथंभृतां सनम ?।' स्फुरत्कदम्बकैरवशतपत्रसम्पदं । स्फुरन्ती-दीप्यमाना कदम्बानां-वृक्षविशेषकुसुमानां कैरवाणां-कुमुदानां शतपत्राणां-कमलानां सम्पत्-समृद्धिर्यस्याः सा ताम् । " सहस्रपत्रं कमलं शातपत्रं कुशेशयं " इत्यमरः ( श्लो० १४१) । कदम्बो-नीपः । " नीपः कदम्बः सालस्तु " इति हैमः (का०४, श्लो०२०४) । कैरवं - श्वेतकमलम् । श्वेते तु तत्र कुमुदं, के रवं गर्दभाह यम्' इति हैमः (का० ४, श्लो० २३०)। शतपत्रं-कमलम् । कदम्बश्च कैरवं च शतपत्रं च कदम्बकैरवशतपत्राणि ' इतरेतरद्वन्द्वः ॥२॥
__ सौ० वृ०-जवादिति । भो भव्याः। यूयं जिनोत्तमान-तीर्थकरप्रधानान स्तुत इत्यन्वया। 'स्तुत ' इति क्रियापदम् । के कर्तारः । । 'यूयम् ।। 'स्तुत' प्रणमत । कान् कर्मतापलान् ? । 'जिनोत्तमान '। किं कुर्वतो जिनोत्तमान् ? । 'अवतः' रक्षतः। किं कर्मतापन्नम् ? । 'जगत् ' विश्वम् । कथम् ? । 'जवात् 'वेगेन। किंविशिष्टं जगत् ? । 'गतं' प्राप्तम् । किं कर्मतापनम् ? । 'पर्व' स्थानम् । कैः कृत्वा । वपुः-शरीरं तस्य व्यथा:-चिन्तापीडादयः तासां कदम्बकानि-वृन्दानि तै: ‘वपुर्व्यथाकादम्बकैः' । पुनः किंविशिष्ट जगत् ( पदं ! ) ?। अवशाः-परवशाः तपन्तः-संसारसुखाभिलाषेण तापं प्राप्नुवन्तो ये असाः-सत्त्वा स्मिन् तत् 'अवशतपत्रसम'। जिनात्तमान् कि कुवेतः दधतः' धारयतः । कां कर्मतापताम् । 'स्रज' मालाम् । किंविशिष्टां स्रजम् । स्फुरन्तः-दीप्यन्तः कदम्बा-नीपवृक्षविशेषाः कैरवाःकुमुदादयः शतपत्राणि-कमलादीनि तेषां सम्पत्-ऋद्धिः यस्यां सा ताम् ‘स्फुरत्कदम्बकैरवशतपत्रसम्पदम्' । इति पदार्थः॥
अथ समासः-अवन्ति रक्षन्तीति अवन्तः, तान अवतः । वपुषां व्यथाः वपुर्व्यथाः, वपुर्व्यथानां कदम्बकानि वपुर्व्यथाकदम्बकानि, तैर्वपुर्व्यथाकदम्बकैः । न वशा अवशाः, तपन्ति ते तपन्तः, अवशाः तपन्तस्त्रसा यस्मिन तत् अवशतपत्रसं, तत् अवशतपत्रसम् । जिनेषु उत्तमा जिनोत्तमाः, तान जिनोत्तमान् । दधति ते दधन्तः, तान् दधतः । कदम्बाश्च कैरवाश्च शतपत्राणि च कदम्बकैरव
श्च शतपत्राणि च कदम्बकैरवशतपत्राणि, स्फुरन्ति च तानि कदम्बकैरवशतपत्राणि च स्फुरत्कदम्बकैरवशतपत्राणि, स्फुरत्कदम्बकैरवशतपत्राणां सम्पद् यस्यां सा स्फुरत्कदम्बकैरवशतपत्रसम्पदम् । इति द्वितीयवृत्तार्थः ॥ २॥
दे० व्या०---जवादिति । हे भव्यलोकाः । यूयं जिनोत्तमान्-जिनेषु उत्तभान्-श्रेष्ठान तीर्थंकरानित्यर्थः स्तुत-स्तुतिविषयीकुरुत इत्यन्वयः। 'ट्र स्तुतौ' धातुः। 'स्तुत' इति क्रियापदम् । के कर्तारः। यूयम् । कान कर्मतापन्नान ? जिनोत्तमान । किं कुर्वतो जिनोत्तमान्? । दधतो-धारयतः | काम् । स्रज-मालाम् । किंविशिष्टां स्रजम् । 'स्फुरत्कदम्बकरवशतपत्रसम्पदं, कदम्बो-नीपः, "नीप: कदम्बः सालस्तु" इत्यभिधानचिन्तामणिः ( का०४, प्रलो २०४ ), केरवं-श्वेतकमलं, " श्वेते तु तत्र कुमुदं, कैरवं गर्दभाह्वयम्" इत्यभिधानचिन्तामणिः (का०४.श्लो०२३०), शतपत्रं-कमल सेवन्तीति लोकप्रसिद्धं पुष्पं वा, पतेषां पूर्व 'वन्द्र ततः स्फुरन्ती कदम्बकैरवशतपत्राणां सम्पद् यस्यामिति 'बहुव्रीहिः' । पुनः किं कुर्वतो जिनोत्तमान् ।। 'अवतः' रक्षतः । किम जगत्-विष्टपम् । कस्मात् ? । जवात् । किंविशिष्टं जगत् । । गतं-प्राप्तम् । किम् । पदं-नरकादिस्थानम् किंविशिष्टं पदम् । । अवशतपत्रसम्' अवशा:-परतन्त्राः परमाधार्मिकाधीनाति यावत् तपन्तः-तापमनुभवन्तः त्रसा:-प्राणिनो यत्र तत् । कैः । 'बपुर्व्यथाकदम्बकैः' वपुषः-शरीरस्य व्यथा-यातनाः तासां कदम्बका:-समूहाः तैः । “वृन्दं चक्रकदम्बके समुदयः पुजोरकरी संहतिः"। त्यभिधानचिन्तामणिः (का०६, श्लो०४७)। इति द्वितीयवृत्तार्थः ॥२॥
+Se+
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org