________________
स्तुतिचतुविशतिका सिद्धान्तश्लाघनम्--
स सम्पदं दिशतु जिनोत्तमागमः
शमावहन्नतनुतमोहरोऽदिते। स चित्तभूः क्षत इह येन यस्तपःशमावहन्नतनुत मोहरोदिते ॥ ३ ॥
-रुचिरा ज० वि०-स सम्पदमिति । स जिनोमागम:-जिनपतिसिद्धान्तः सम्पद-श्रियं दिशतु-ददातु इति क्रियाकारकयोजना । अत्र 'दिशतु' इति क्रियापदम् । कः कर्ता? 'जिनोत्तमागमः 'एका कर्मतापन्नाम् ? ' सम्पदम् ।। जिनोत्तमागमः किं कुर्वन् ? ' आवहन् । कुर्वन् । किं कर्मतापत्रम् ? 'शं सुखम् । जिनोत्तमागमः कथंभूतः ? 'अतनुतमोहरः' अतनु-प्रभूतं तमोहरति यः स तथा । अथवा अतनुतमान्-प्रभूततमान् ऊहान् राति-ददातीति अतनुतमोहरः। स इति तच्छब्दसम्बन्धाद् यच्छन्द(घटना)माह-येन जिनोत्तमागमेन (इह-लोके) स चित्तभूः-मनोभवः क्षत:ध्वस्तः । अत्रापि 'क्षतः ' इति क्रियापदम् । केन का ? 'येन ।कः कर्मतापनः? 'चित्तमः। अत्रापि स इति तच्छन्दसाहचर्याद् यच्छब्दघटनामाह-~-यः चित्तभूः 'मोहरोदिते' मोह:-अज्ञानं रोदितं-रोदनं एते द्वे अपि अतनुत-विस्तारयामास । अत्रापि च ' अतनुत ' इति क्रियापदम् । कः कर्ता ? 'यः' । के कर्मतापन्ने ? 'मोहरोदिते । कथंभूते मोहरोदिते ? ' अदिते ' अखण्डिते । तथा यः चित्तभूः 'तपःशमौ' तपः द्वादशविधं शम:-उपशमः ती अहन्-इतवान् । अत्रापि च 'अहन् । इति क्रियापदम् । कः कर्ता ? ' यः। को कर्मतापन्नौ ? ' तपःशमौ ॥
अथ समासः-जिनानां जिनेषु वा उत्तमाः जिनोत्तमाः 'तत्पुरुषः' । जिनोत्तमाना आगमो जिनोत्तमागमः 'तत्पुरुषः । न तनु अतनु ' तत्पुरुषः' । अतनु च तत् तमश्च अतनु० 'कर्मधारयः । अतनुतमो हरतीति अतनु 'तत्पुरुषः । अथवा अतिशयेनातनवो अतनुतमाः। अतनुतमाश्च ते ऊहाश्च अतनु० 'कर्मधारयः । अतनुतमोहान् रातीत्यतनु० 'तत्पुरुषः । न दिते अदिते ' तत्पुरुषः । ते अदिते । चित्ते भवतीति चित्तभूः 'तत्पुरुषः । तपश्च शमश्च तपःशमी 'इतरेतरद्वन्द्वः । तौ तपःशमौ । मोहश्च रोदितं च मोहरोदिते 'इतरेतरद्वन्द्वः । ते मोहरोदिते ॥ इति काव्यार्थः ॥३॥
सि. १०-स सम्पदमिति । स निनोत्तमागमः-जिनवरसिद्धान्तः सम्पदं श्रियं दिशतु-ददावित्यर्थः । ' दिश अतिसनने ' धातोः ' आशी:प्रेरणयोः' ( सा० म० ७०३ ) कर्तरि परस्मैपदे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org