________________
२१४
स्तुतिचतुर्विशतिका
[१९ श्रीमलि
प्रथमपुरुषैकवचनं तुप् । 'तुदादेरः' (सा० म० १००७) । तथा च दिशतु ' इति सिद्धम् । अत्र ‘दिशत' इति क्रियापदम्। कः कर्ता? । स जिनोत्तमागमः। जिनेषु उत्तमाः जिनोत्तमाः तेषां आगम:-सिद्धान्तः जिनोत्तमागमः । कां कर्मतापन्नाम्? । सम्पदम् । जिनोत्तमागमः किं कुर्वन् ! । आवहन-कुर्वन् । किं कर्मतापन्नम् ! । शं-सुखम् । कथंमतो जिनोत्तमागमः ! । 'अतनुतमोहरः' अतनु-प्रमृतं तमो हरति-नाशयति यः स तथा । अथवा अतनुतमान-प्रमततमान् उहान् राति-ददातीत्यतनुतमोहरः । स इति तच्छब्दसम्बन्धाद् यच्छब्द( घटना )माह-येन जिनोत्त. मागमेन इह-अत्र जगति स चित्तमः-कंदर्पः क्षतः-क्षपितः, क्षयं नीत इत्यर्थः । अत्रापि · क्षतः ' इति क्रियापदम् । केन की ! | येन । कः कर्मतापन्नः ? । चित्तमः । अत्रापि स इति तच्छब्दसाहचर्याद् यच्छब्द(घटना)माह-यः अवगणितहरिहरादिदेवश्चित्तमः अदिते-अखण्डिते ' मोहरोदिते' मोहश्च रोदितं च मोहरोदिते अतनुत-अप्रथयतेत्यर्थः । 'तनु विस्तारे' धातोः अनद्यतने कर्तरि आत्मनेपदे प्रथमपुरुषैकवचनं तन् ! 'तनादेरुप् ' (सा० सू० ९९७ )। - दिवादावट । ( सा० स० ७०७) । तथा च ' अतनुत ' इति सिद्धम् । अत्र ' अतनुत ' इति क्रियापदम् । कः कर्ता ! । यः । के कर्मतापन्ने ? । मोहरोदिते-अज्ञानरोदने । रोदित इत्यत्र 'क्तो वा सेट्' (सा० सू० १२७७) इति सेट् क्तप्रत्ययस्य कित्वाभावपक्षे गुणः । तथा यश्चित्तूमः 'तपःशमौ' तप.- अनुष्ठानविशेषः द्वादशविधं वा धर्मविशेषो वा शम:- उपशमः तौ अहन् -हतवान् इत्यर्थः । हन् हिंसागत्यो:' इति धातोरनद्यतने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिए । 'अप् कर्तरि' (सा०सू० ६९१) इत्यप् । 'अदादेलक' (सा०सू० ८८०) । 'दिवादावट' (सा०सू० ७०७) 'दिस्योर्हसात्' (सा०सू० ८८६) इति दिपो लोपः । तथा च 'अहन् । इति सिद्धम् । अत्रापि · अहन् । इति क्रियापदम् । कः कर्ता । यः। को कर्मतापन्नौ । 'तपःशमौ' तपश्च शमश्च तपःशमी । इतरेतरद्वन्द्वः । “तपो लोकान्तरेऽपि च । चान्द्रायणादौ धर्मे च, पुमान् शिशिरमाघयोः " इति मेदिनी ॥ ३ ॥
सौ० वृ०-स सम्पदमिति । स जिनोत्तमागमः-तीर्थकृत्सिद्धान्तः [ मे-मम] सम्पद-श्रियं दिशतु इत्यन्वयः। 'दिशतु' इति क्रियापदम् । कः कर्ता । 'जिनोत्तमागमः' । 'विशतु ' ददातु । कां कर्मतापक्षाम् । सम्पदम्' (कस्य?'मे' मम।)। जिनोत्तमागमः किं कुर्वन् । 'आवहन प्रापयन कथयन् वा। किं कर्मतापनम् ? ।'श' सुखम् । पुनः किंविशिष्टः जिनोत्तमागमः। अतनुतमाः-प्रचुरा ऊहा-विचारा तान् राति-ददातीति 'अतनुतमोहरः'। किंविशिष्टो जिनोत्तमागमः ? । 'सः' प्रसिद्धः। तच्छब्दो यच्छब्दमपे. क्षते। सका। येन जिनोत्तमागमेन इह-संसारे चित्तभूः-कामः स दुर्धरःक्षतः इत्यन्वयः । 'क्षतः' इति क्रियापदम् । केन का?। 'येन' जिनोत्तमागमेन। 'क्षतः' हतः। कः कर्मतापनः ? । 'चित्तभूः' कस्मिन् ? । 'इह' संसारे। कथंभूतश्चित्तभूः । । 'सः' । (स) कः ? । यः कामः मोहः-अज्ञानं रोदितं ते द्वे अतनुत इत्यन्वयः। 'अतनुत । इति क्रियापदम् । कः कर्ता ? । 'य' कामः। अतनुत-व्यस्तारयत के कर्मतापने? । 'मोहरोदिते' । किविशिष्टे मोहरोदिते ? । 'अदिते' अखण्डिते-अच्छिन्ने। पुनः (यः) चित्तमू:-कामः तप:शमौ अहन इत्यन्वयः। 'अहन्' इति क्रियापदम् । कः कर्ता ? । 'यः' चित्तभूः। 'अहन्' हन्ति स्म। कौ कर्मतापसौ ? । तपो-बाह्याभ्यन्तररूपं शम-उपशमः, तौ द्वौ यो विनाशयति स चित्तभूर्येन जिनागमेन ध्वस्तः । इति पदार्थः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org