________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका
अथ समासःजिनेषु उत्तमाः जिनोत्तमाः, जिनोत्तमानां आगमः जिनोत्तमागमः । अतिशयेन तनवः इति तनुतमाः, न तनुतमा अतनुतमाः, अतनुतमाश्च ते ऊहाश्च अतनुतमोहाः, अतनुतमोहान राति-ददातीति अतनुतमोहरः । न दिते अदिते, ते अदिते । चित्ताद् भवतीति चित्तभूः । तपश्च शमश्च तपःशमौ ( तौ तपः०)। मोहश्च रोदितं च मोहरोदिते (ते मोह० ) । इति तृतीयवृत्तार्थः ॥ ३॥
दे०व्या०-स सम्पदमिति। स जिनोत्तमागमः सम्पदं-लक्ष्मी दिशतु-ददातु इत्यन्वयः। 'दिश अतिसर्जने' धातुः। 'दिशतु' इति क्रियापदम् । कः कर्ता ? । 'जिनोत्तमागमः' जिनेषु उत्तमाः-तीर्थंकराः तेषाम्. यद्वा जिनानां उत्तमः-श्रेष्ठो य आगमः-सिद्धान्तः। “आप्तोक्तिः समयागमौ" इत्यभिधानचिन्तामणिः (का. २, प्रलो० १५६)। कां कर्मतापन्नाम् ? । सम्पदं-लक्ष्मीम् । किं कुर्वन् आगमः। आवहन्-प्रापयन् । किम् । शं-सुखम् । किंविशिष्ट आगमः । अतनुतमोहरः 'न तनु अतनु इति नञ्समासः, एवंविधं यत् तमःअज्ञानं हरतीति तथा, यद्वा अतनुतमान्-अत्युत्कृष्टान् ऊहान्-तर्कान रातीति अतनुतमोहरः। यत्तदोर्नित्याभिप्सम्बन्धादू येन-जिनोत्तमागमेन स-वक्ष्यमाणः चित्तभूः-कन्दर्पःक्षतः-क्षयं प्रापितः। स कः। य: चित्तभूः 'तपःशमी ' तपो द्वादशविध शमः-उपशमः अनयो'ईन्द्रः' ती अहन्-हतवान् । 'हन हिंसागत्योः, इति धातुः । च-पुनः अदिते-अखण्डिते मोहरोदिते अतनुत- अप्रथयत । 'तनु विस्तारे' धातुः। 'अतनुत' इति क्रियापदम् । कः कर्ता?। चित्तभूः । के कर्मतापन्ने ? । 'मोहरोदिते, मोहो-मिथ्याभिनिवेशो रोदितंविप्रलापः अनयो'ईन्द्रः' ॥ इति तृतीयवृत्तार्थः ॥ ३ ॥
श्रीकपर्दिस्मरणम्---
द्विपं गतो हृदि रमतां दमश्रिया
प्रभाति मे चकितहरिद्विपं नगे । वटाह्वये कृतवसतिश्च यक्षराट् प्रभातिमेचकितहरिद विपन्नगे ॥ ४ ॥
-~-रुचिरा ज० वि०-द्विपमिति । यक्षराद-यक्षराजः कपर्दिनामा मे-मम हृदि-हृदये रमतां-क्रीडतु तिष्ठत्वितियावत् इति क्रियाकारकयोजनम् । अत्र 'रमता' इति क्रियापदम् । कः कर्ता? ' यक्षराद।। कस्मिन् ? ' हदि'। कस्य ? 'मे'। किं कुर्वति हृदि ? 'प्रभाति ' शोभमाने । कया ? 'दमश्रिया' उपशमसम्पदा। कथंभूतो यक्षराट? 'द्विपः गतः' गजमारूढः । कथंभूतं द्विपम् ? चकितहरिद्विपम्' चकित:त्रस्तो हरिद्विपः -सुरेन्द्रहस्ती । यस्मात् स तथा तम् । यक्षराट् पुनः कथंभूतः ? 'कृतवसति:' विहितवसतिः । चः समुच्चयार्थः । कस्मिन् ? ' नगे' वृक्षे । नगे कथं० ! ' वटालये' न्यग्रोधनानि । पुनः कथं० १ 'विपन्नगे। विगतसर्प । यक्षराट् पुनः कथं० १ 'प्रभातिमेचकितहरित । प्रभया-- कान्त्या अतिशयेन मेचकिताः-श्यामीकता हरितो-दिशो येन स तथा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org