________________
२१६
स्तुतिचतुविशतिका
[१९ श्रीमल्लि
अय समासः-दमस्य श्रीः दमश्रीः 'तत्पुरुष । तया दमश्रिया। हरेर्द्विपो हरिद्विपः 'तत्पुरुष। चकितो हरिद्विषो यस्मात् स चकित. 'बहुव्रीहिः । तं चकित० । वट इत्यायो यस्य स वटादयः 'बहुव्रीहिः ।। तस्मिन् वटा० । कृता वसतिर्येन स कृत 'बहुव्रीहिः । यक्षाणां यक्षेषु वा राट् यक्षराट् ' तत्पुरुषः । अतिशयन मेचकिताः अतिमे० 'तत्पुरुषः ।। अतिमेचकिता हरितो येन सोऽतिमे० 'बहुव्रीहिः । प्रभयाऽतिमेचकितहरित प्रभाति. 'तत्पुरुषः । विगताः पन्नगा यस्मात् स विपन्नगः 'बहुव्रीहिः । तस्मिन् विप० ॥ इति काव्यार्थः॥४॥
॥इति श्रीशोमनस्तुतिवृत्तौ श्रीमल्लितीर्थपतेः स्तुतेाख्या ॥ १९ ॥ सि०१०-द्विपमिति । यक्षराट-यक्षाधिपतिः कपर्दिनाा मे-मम हृदि-हृदये रमतां-क्रीडत इत्यर्थः । 'रमु क्रीडायाम् ' धातोः ‘आशीःप्रेरणयोः ' (सा० सू० ७०३ ) कतरि आत्मनेपदे प्रथमपुरुषैकवचनं ताम् । 'अप्०' (सा० म० १९१ )। तथाच 'रमताम्' इति सिद्धम् । अत्र · रमताम् । इति क्रियापदम् । कः कर्ता ! । ' यक्षराट् ' यक्षेषु राजतीति यक्षराट् । क्विवन्तः 'ऋटुरषाणां मर्धा' इति सावयेन 'षो डः' (सा० स० २७७ ) इति षस्य डत्वम् । कस्मिन् ! । हृदि । कस्य ।। मे। किं कुति हृदि ? | प्रमाति-शोभमाने । कया ? । 'दमश्रिया' दमस्य-उपशमस्य श्रीः दमश्रीः तया, उपशम. सम्पदा । कथंभूतो यक्षराट् ! । गतः-प्राप्तः, अर्थादारूढः । कम् ! । ' द्विपं ' द्वाभ्यां शुण्डाग्राभ्यां पिबतीति द्विपः तम् । सुपि स्थः' (पा० अ० ३, पा० २, सू० ४) इति योगविभागात् कः । कथंभूतं द्विपम् ! । 'चकितहरिद्विपम्' चकितः-त्रस्तो हरेः-इन्द्रस्य द्विपो-हस्ती यस्मात् स तथा तम्। अतिशयबलवत्त्वेन ऐरावणस्यापि भयोत्पादकत्वादिति भावः । पुनः कथंभूतो यक्षराट् । 'कृतवप्ततिः' कृता-विहिता वसतिः-स्थानं गृहमितियावत् येन स तथा । " वसती रात्रिवेश्मनोः" इत्यमरः ( श्लो० २४६८ ) । चः समुच्चयार्थः । कस्मिन् ! । 'नगे। न गच्छतीति नगः- वृक्षः तस्मिन् नगे। कथंमते ! । ' वटाह्वये' वट इत्याह्वयः-अमिधानं यस्य स तथा तस्मिन् । “उदन्वोऽथाह्वयोऽमिधा । गोत्रसंज्ञानामधेया०॥ इति हैम: (का० २, श्लो० १७४)। पुनः किं विशिष्टे ? । 'विपन्नगे' विगताः पन्नगाः-सर्पा यस्मात् तथा तस्मिन् । पुनः किं विशिष्टो यक्षराट् ? । 'प्रभातिमेचकितहरित् ' प्रभया-कान्त्या अतिशयेन मेचकः सजातो यासां ताः अतिमेचकिता-अतिश्यामीकृता हरितो-दिशो येन स तथेति — बहुव्रीहिः । । " मेचकः कृष्णनीलः स्यात् , अतसीपुष्पसन्निमः " इति शब्दार्णवः । “मेचकः शितिकण्ठाभः' इति तु दुर्गः । रुचिराच्छन्दः । “जमौ जसौ गुरु रुचिस चतुर्ग्रहै:" | इति च तल्लक्षणम् ॥४॥
॥ इति महामहोपाध्यायश्रीभानु० श्रामल्लिनाथजिनस्य स्तुतिवृत्तिः ॥ १९॥ सौ० वृ०-छिपमिति । स यक्षराद-कपर्दिनामा यक्षराद मे-मम हृदि-चित्ते रमतां इत्यन्वयः। 'रमतां ' इति क्रियापदम् । कः कर्ता ? । 'यक्षराद' । 'रमतां' कीडताम् । कस्मिन् ! । 'हदि । कस्य ।। 'मे'। किंविशिष्टो यक्षराट् ! । 'कृतवसतिः' कृतनिवासः । कस्मिन् ? । 'नगे' वृक्षे। किंविशिष्टे नगे? | 'वटाह्वये न्यग्रोधनाम्नि । पुनः किंविशिष्टो यक्षराट् ? । 'गतः' प्राप्तः, अधिरूढः। कं कर्मता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org