________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका
पनम् । । 'द्विप' गजम् । गजवाहन इत्यर्थः । किंविशिष्टं द्विपम् ?। चकितः-त्रासितः हरेः-इन्द्रस्य द्विपोहस्ती येन स चकितहरिद्विपस्तं 'चकितहरिद्विपं', ऐरावणजित्वरमित्यर्थः । किंविशिष्टे हृदि । 'प्रभाति' प्रकर्षण भासनशीले । कया ?। 'दमश्रिया' विषयजयलक्षणशोभया । पुनः किंविशिष्टो यक्षराट् । प्रमया-कान्त्या अतिशयेन मेचकिताः-चित्रिताः पिञ्जरीकृता हरितो-दिशो येन सः 'प्रभातिमेचकितहरित ।। किंविशिष्टे नगे ? । विगता-दूरं गताः पन्नगाः-सर्पा यस्मिन् स विपन्नगः तस्मिन् ‘विपन्नगे'। एतादृशो यक्षो मे-मम प्रसन्ने हृदि रमताम् । इति पदार्थः ॥
___ अथ समासः-द्वाभ्यां मुखशुण्डाभ्यां पिबतीति द्विपः, तं द्विपम्। दमस्य श्रीः दमश्रीः, तया दमश्रिया। प्रकर्षेण मातीति प्रभात्, तस्मिन् प्रभाति । हरेर्द्विपः हरिद्विपः, चकितो हरिद्विषो यस्मात् स चकितहरिद्विपः, तं चकितहरिद्विपम् । वट इत्यायो यस्य स वटाद्वयः, तस्मिन् वटाहये । कृता वसतिर्येन स कृतवसतिः । यक्षाणां राजा(द) इति यक्षराद् । प्रभया अतिमेचकिता हरितो येन स प्रभातिमेचकितहरित् । विगताः पन्नगा यस्मिन् स विपन्नगः, तस्मिन् विपन्नगे ॥ इति तुर्यवृत्तार्थः॥४॥
श्रीमन्मल्लिजिनेन्द्रस्य, स्तुतेरथों लिबीकृतः।। सौभाग्यसागराख्यण, सूरिणा ज्ञानसेविना ॥१॥
॥ इति श्रीएकोनविंशतितममल्लिजिनस्तुतिः ॥ १।१९ । ७६ ॥ दे० व्या०-द्विपमिति । यक्षराट्र-यक्षाधिपतिः मे-मम हृदि-हृदये रमतां-परिक्रीडतामित्यर्थः। 'मु क्रीडायां' धातुः । 'रमताम्' इति क्रियापदम् । कः कर्ता ?। यक्षराद् । कस्मिन् ? । हृदि । कस्य ।। मे-मम । किंविशिष्टे हृदि? । प्रभाति-शोभमाने । कया? | 'दमश्रिया' दमः-उपशमः तस्य श्री:-लक्ष्मीः तया । किविशिष्टो यक्षः( यक्षराट् ) गतः-प्राप्तः, अथोदारूढः। कम् ?। द्विपं-हस्तिनम् । किावा 'चकितहरिद्विपम् ' चकितः-त्रासितः हरिद्विपः-ऐरावणो यस्मात् स तम् । बलाधिक्यादिति भावः । पुनः किंविशिष्टः । 'कृतवसतिः' कृता-विहिता वसति:-आश्रमो येन स तथा । कस्मिन् ? । नगे-वृक्षे । किंविशिष्टे नगे । 'वटाह्वये' बट इति आह्वयः-अभिधानं यस्य स तस्मिन् । “उदन्तोऽथाहयोऽभिधा', इत्यभिधानचिन्तामणिः (का०२,श्लो० १७४)। पुनः किंविशिष्टे ? । 'विपन्नगे' विगता पनगा-द्विजिहा यत्र स तस्मिन् । पुनः किंविशिष्टः ? । 'प्रभातिमेचकितहरित' प्रभा-कान्तिः तया अतिशयेन मेचकिताःश्यामीकृताः हरितः-दिशो येन स तथा। "काष्टाऽऽशा दिक् हरित् ककुप्" इत्यभिधानचिन्तामणिः (का०२, श्लो०८०)। इति तुरीयवृत्तार्थः ॥४॥ उपेन्द्रवज्राच्छन्दः॥ लक्षणं तु पूर्वमेवोद्दिष्टमिति॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org