________________
२० श्रीमुनिसुव्रतजिनस्तुतयः अथ श्रीमुनिसुव्रतनाथस्य संस्तवनम्
जिनमुनिसुव्रतः समवताज्जनतावनतः ___ से मुदितमानवा धनमलोभवतो भवतः । अवनिविकीर्णमादिषत यस्य निरस्तमनःसमुदितमानबाधनमलो भवतो भवतः ॥ १॥
-नर्कुटकम् (७, १०) ज० वि०-जिनमुनीति । स जिनमुनिसुव्रतः-मुनिसुव्रतनामा जिनः भवतः-युष्मान् भवतः-संसारतः समवतात्-सम्यग् रक्षतु इति क्रियाकारकसम्बन्धः। अत्र 'समवतात् । इति क्रियापदम् । कः कर्ता ? 'जिनमुनिसुव्रतः । कान् कर्मतापन्नान् ? ' भक्तः । कुतः ? 'भवतः ।। जिनमुनिसुव्रतः कथंभूतः 'जनतावनतः' जनतया-जनसमूहेन अवनतः-प्रणतः। पुनः कथं० १ 'निरस्तपनःसमुदितमानबाधनमल:। निरस्ता-अपकीर्णा सनःसमुदिता-हृदये समुद्रता संहिता वा मानः-गः बाधनं-बाधा मल:-कर्मरूपः, ततो निरस्ताः मनःसमुदितमानवाधवमला येन स तथा । स इति तच्छब्दाभिसम्बन्धाद् यच्छब्दमाह-यस्य भगवतः धनंद्रव्यं 'मुदितमानवाः' । हृष्टनराः आदिषत-गृहीतवन्तः । अत्रापि 'आदिषत' इति क्रियापदम् । के कर्तारः? 'मुदितमानवाः' । किं कर्मतापन्नम्? 'धनम्' । मानवेत्यत्र बवयोरैक्यं यमकवशाज्ज्ञेयम् । धनं कयंभूतम् ? ' अवनिविकीर्ण भुवि राशीकृतम् । यस्य किं कुर्वतः १ 'भवतः जायमानस्य । कथंभूतस्य भवतः ? 'अलोभवतः' लोभरहितस्य । दीक्षा कक्षीकुवेत इति हृदयम् ॥
अथ समासः-शोभनानि व्रतानि यस्य स सुव्रतः । बहुव्रीहिः । मुनिवत सुव्रतः मुनि 'तत्पुरुषः । यदिवा मुनिश्चासौ सुव्रतश्च मुनि० 'कर्मधारयः । जिनश्वासौ मुनिसुव्रतश्च जिनक 'कर्मधारयः' । जनतयाऽवनतो जन. 'तत्पुरुषः । मुदिताश्च ते मानवाश्च मुदित. 'कर्मधारयः ।। न लोभवान् अलोभवान् " तत्पुरुषः । तस्य अलोभवतः । अवनौ विकीर्ण अवनि० तत्पुरुषः । तत् अवनिविकीर्णम् । मानश्च बाधनं च मलच मान० 'इतरेतरद्वन्द्वः' । मनसि समुदिताः मनःसमु० 'तत्पुरुषः । मनःसमुदिताश्च ते मानबाधनमलाश्च मनःसमु० कर्मधारयः । निरस्ता मनःसमुदितमानबाधनमला येन स निरस्त. 'बहुव्रीहिः'। इति काव्यार्थः॥१॥
१'समुदित.' इत्यपि पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org