________________
जिनखतपः] स्तुतिचतुविशतिका
२१९ सि० वृ० जिनमुनीति । मन्यते जमतस्त्रिकालावस्थामिति मुनिः ममेरुञ्च' (उणा० सू० ५९२) इति ईः । सुष्ठ व्रतानि अस्यति सुव्रतः । मुनिश्चातौ सुव्रतश्च मुनिसुव्रतः । गर्मस्थेऽस्मिन् माता मुनिवत् सुत्रता माता इति वा मुनिसुव्रतः । जिनश्चासौ मुनिसुव्रतश्च जिनमुनिसुव्रतः इति ' कर्मधारयः ।स मिनमुनिसुनतः मवतः-युष्मान् भवतः-संसारात् समवतात्-सम्यग् रक्षतु इत्यर्थः । संपूर्वक " रक्षणे' धातोः 'आशीःप्रेरणयोः । (सा० सू० ७०३) कर्तरि परस्मैपदे प्रथमपुरुभैकवचनं तुप् । 'अप्० ' (सा० सू० ६९१) । तुपस्तातडादेशः । तथाच 'समवतात्' इति सिद्धम् । अत्र 'समवतात् ' इति क्रियापदम् । कः कर्ता । जिनमुनिसुव्रतः । कान् कर्मतापन्नान् ? । ' भवतः ' भवच्छब्दस्य द्वितीयाबहुवचनम् । कुतः ! ।' भवतः । भवात् इति मवतः । सार्वविभक्तिकस्तस् । कथंभूतो जिनमुनिसुव्रतः । 'जनतावनतः' जनानां समूहो जनता ग्रामजनबन्धुसह' इति तल तलन्तं च स्त्रीलिङ्ग मवति, जनतया भवनतः-प्रणतो जनतावनतः । पुनः कथंभूतः । 'निरस्तमनःसमुदितमानबाधनमलः' निरस्ता-दूरीकृता मन:समुदिताः-हृदये समुद्गताः संहिता वा मानबाधनमला येन स तथा । मानश्च बाधनं च मलध मानबाधनमलाः 'इतरेतरद्वन्द्वः', मनःसमुदिताश्च ते मानबाधनमलाश्च मनःममुदितमानबाधनमलाः इति 'कर्मधारयः' । तच्छब्दाभिसम्बन्धाद् यच्छब्दघटनामाह-यस्य भगवतो धनं-द्रव्यं 'मुदितमानवाः' मुदिताहर्षिताश्च ते मानवाश्च-माः आदिषत-गृहीतवन्तः। आपूर्वक : डुदाम् दाने' धातोः कर्वरि आत्मनेपदे प्रथमपुरुषबहुवचनं अन्त । ' भूते सिः ' ( सा० स० ७२४)। 'मातोन्सोदातः' इस्पन्तस्यातादेशः । 'दिबादावट ' ( सा० सू० ७०७ ) । 'दादेः ' ( सा० सू० १११२) इतीत्वम् । 'किलात् । ( सा० स० १४१) इति षत्वम् । तथा च ' आदिषत ' इति सिद्धम् । अत्र 'आदिषत ' इति क्रियापदम् । के कर्तारः । । मुदितमानवाः । किं कर्मतापन्नम् ? । धनम् । मानवेत्यत्र नक्योरक्यं यमकवशादिति ज्ञेयम् । कथंभूतं धनम् । ' अवनिविकीर्ण ' अवनौ-भुवि विकीर्ण-परिक्षिप्तं, राशीकृतमिति. यावत् । 'कृ विक्षेप' । 'ऋत इर्' (सा०सू० ८२०) 'प्वोर्वि हसे' (सा०सू० ३१६) इति दोघः । यस्य किं कुर्वतः ? ।' मक्तः ' जायमानस्य । कीदृशस्य भवतः ! । 'अलोमवतः। न लोमो-गाद्धर्य विद्यते यस्य स अलोमान् तस्य अलोभवतः । दीक्षा कक्षीकुर्वत इत्यर्थः ॥ १॥
सौ० वृ०-यः कर्मशत्रुजयने मल्लो भवति स मुनिवत् सुव्रतो भवति । तथा गर्भस्थे भगवति जननी सुव्रता जाता। अनेन सम्बन्धेनायातस्य विंशतितमश्रीमुनिसुव्रतजिनस्य स्तुतिष्याख्यान व्याख्यायते-जिनमुनीति।
स जिनमुनिसुव्रतः-मुनिसुव्रतनामा तीर्थकृत् भवतः-युष्मान् भवतः-संसारात् (समवतात् इत्यन्वयः। 'समवतात्' इति क्रियापदम् । कः कर्ता ? । 'जिनमुनिसुव्रतः' । 'समवतात्' संरक्षतु । कान् कर्मतापमान् ? । 'भवतः । । कुतः । ' भवतः ' )। किंविशिष्टः जिनमु. निसुव्रतः ? । जनतया-जनसमूहेन अवनतः-प्रणतः 'जनतावनतः ' । पुनः किंविशिष्टः जिनमुनिसुव्रतः । निरस्तः-निराकृतः मनसि-चित्ते समुदितः-उदयं प्राप्तः मानः-अहंकारः बाधनं-पीडा (मल:-) कर्ममलो येन स 'निरस्तमनःसमुदितमानबाधनमलः' । यमकत्वावत्र बवयोरैक्यम् । किं.
१ 'प्रामजनबन्धुभ्यस्तल् ' इति पाणिनीये ( ४।२।४३), सिद्धहेमे तु 'ग्रामजनबन्धुगजसहायात् तल् ( ६।२।२८ )।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org