________________
२२०
स्तुतिचतुविशतिका
[ २० श्रीमुनिसुव्रत
विशिष्टान् भवतः।। न विद्यते लोभ:-चतुर्थकषायो येषां ते अलोभवन्तः तान् ‘अलोभवतः'। पुनः किंविशिष्टः जिनमुनिसुव्रतः । 'स' स-प्रसिद्धः। तच्छब्दो यच्छब्दमपेक्षते। यत्तदोनित्यसम्बन्धः। स कार। यस्य जिनमुनिसुव्रतस्य धनं-द्रव्यं मुदितमानवा-हृष्टजना आदिषत इत्यन्वयः। 'आविषत' इति क्रियापदम् । के कर्तारः। 'मुदितमानवाः' । 'आविषत' गृहीतवन्तः। किं कर्मतापनम् ? । 'धनम्'। कस्य! । 'यस्य' जिनमनिसवतस्य । किविशिष्ट धनम: । 'अवनिविकीर्ण, अवनौ-प्रथिव्यां विकीर्ण-विस्तारितम् । किंविशिष्टस्य यस्य ? । 'भक्तः' वार्षिकदानोद्यतजायमानस्य धनं मुदितमानवैर्गृहीतम् । इति पदार्थः ॥
___ अथ समासः-जयति रागादीन शत्रूनिति जिनः, मनुते तत्त्वमिति मुनिः, सुष्टु-शोभनानि व्रतानि यस्य स सुव्रतः, मुनिश्चासौ सुव्रतश्च मुनिसुव्रतः, मुनिसुव्रतश्चासौ जिनश्च मुनिसुव्रतजिनः (?)। सम्यक् प्रकारेण अवताव समवतात् । जनानां समूहो जनता, जनतया अवनतः जनतावनतः । मुत् साता येषां ते मदिताः, मुदिताश्च ते मानवाश्च मुदितमानवाः । नास्ति लोभो येषां ते अलोभवन्तः, तान् अलोभवतः। अवनौ विकीर्ण अवनिविकीर्ण, तद् अवनिविकीर्णम् । मानश्च बाधनं च मलश्च मानबाधनमलाः, समुदिताश्च ते मानबाधनमलाश्च समुदितमानबाधनमलाः, मनसि समुदिताः मानबाधनमलाः मनासमुदितमानबाधनमलाः, निरस्ता मनःसमुदितमानबाधनमला येन स निरस्तमनःसमुदितमानबाधनमल: । इति प्रथमवृत्ताः ॥ १ ॥ इति सप्तदशवणेमयी विषमाक्षरवृहत्तिका(१)च्छन्दसा स्तुतिरियम् ॥
हेव्या०-जिनमुनीति। स जिनमुनिसुव्रतो भवतो-युष्मान् भवतः-संसारात् समवतात्-रक्षतात् इत्यन्वयः । 'अव रक्षणे' धातुः। 'समवतात्' इति क्रियापदम् । कः कर्ता । 'जिनमुनिसुव्रत: जिनश्चासौ मनिसव्रतश्चेति कर्मधारयः' | कान् कर्मतापन्नान् ?| भवतः । कस्मात्? भवतः । किविशिष्टो जिनमुनिसुव्रतः? । 'जनतावनत: जनानां समूहो जनता तया अवनतः-प्रणतः। पुनः किंविशिष्टः। 'निरस्तमन:समुदितमानबाधनमलः, मानः-अहंकृतिः बाधनं बाधा-पीडा मलो-दुरध्यवसायः एतेषां पूर्व 'द्वन्दः', मनसि समुदिताः-उदयं प्राप्ताः मनःसमुदिताः, ततः ते च ते मानबाधनमलाश्चेति 'कर्मधारयः, ततः निरस्ताः-परिक्षिप्ताः मनःसमुदितमानबाधनमला येमेति 'तृतीयाबहुव्रीहिः । यत्तदोर्नित्याभिसम्बन्धाद् यस्य मुनिसुव्रतस्य धनं-द्रव्यं मुदितमानवा आदिषत-गृहीतवन्तः। 'आदिषत' इति क्रियापदम् । के कर्तारः।।'मुदितमानवाः' मुत जाता येषां ते मुदिताः,तेच ते मानवाश्चेति 'कर्मधारयः'। किं कर्मतापन्नम् । धनम् । कस्य ।'यस्य' मुनिसुव्रतस्य ।
नस्य'अलोभवतो भवतः , अलोभिनो जायमानस्य, दीक्षा ग्रहीतुकामत्वात् । किंविशिष्टं धनम् ? । 'अवनिविकीर्णम्' अवनौ-पृथिव्यां विकीर्णं-निक्षिप्तम् ॥ इति प्रथमवृत्तार्थः ॥१॥
जिनसमुदायप्रणामः
प्रणमत तं जिनवजमपारविसारिरजो
दलकमलानना महिमधाम भयासमरुक् । यमतितरां सुरेन्द्रवरयोषिदिलामिलनो
दलकमला ननाम हिमधामभया समरुक् ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org