________________
जिनस्तुतयः ]
स्तुतिचतुर्विंशतिका
२२१
,
ज० वि०—प्रणमतेति । भो भव्याः ! यूयं तं जिनव्रजं - तीर्थङ्कर समूहं प्रणमत - नमत इति क्रियाकारकयोजना । अत्र ' प्रणमत ' इति क्रियापदम् | के कर्तारः ? ' यूयम् ' । कं कर्मतापन्नम् ? ' जिनव्रजम् ' । कथंभूतं जिनव्रजम् ? ' महिमधाम' महत्त्वस्थानम् । पुनः कथंभूतम् ? 'भयासं' भयं अस्यति-क्षिपतीति भयासस्तम् । तमिति तच्छन्द साहचर्याद् यच्छन्दमाह-यं जिनव्रजं सुरेन्द्रवरयोषित् - देवेन्द्रस्य प्रधानभूता स्त्री शची अतितराम् - अत्यर्थं ननाम - प्रणतवती । अत्रापि 'ननाम ' इति क्रियापदम् । का कर्त्री ?' सुरेन्द्रवरयोषित् । कं कर्मतापनम् ? ' यम्' । कथंभू सुरेन्द्रवरयोषित् ? ' अपारविसारिरजोदलकमलानना ' अपाराणि - अपर्यन्तानि विसारीणि- प्रसरणशीलानि रजोदलानि - परागकणा यस्मिन् तादृशं यत् कमलं - पद्मं तदाननं मुखं यस्याः सा तथा । पुनः कथं० ? 'अरुक्' नीरोगा । पुनः कथं ० १ 'इलामिलनोदलकमला' इलामिलनेन - क्षितिघट्टनेन उद्गतः अलकेषु - कुरुलेषु मलः - रजो यस्याः सा तथा । अनेन विशेषणेन भक्तेः प्राबल्यसूचि । पुनः कथं० १६ 'समरुक् ' सदृशरुचिः । कया ? ' हिमधामभया ' हिमधामा -- चन्द्रः तस्य भया - दीप्त्या ॥
अथ समासः - जिनानां व्रजो जिनव्रजः ' तत्पुरुषः ' । तं जिन० । रजसां दलानि रजोद० ' तत्पुरुषः । विसारीणि च तानि रजोदलानि च विसारि० ' कर्मधारयः ' । अपाराणि विसारिरजोदलानि यत्र तदपार० ' बहुव्रीहिः ' । अपारविसारिरजोदलं च तत् कमलं च अपार ० 'कर्मधारयः ' । अपारविसारिरजोदलकमलवद् आननं यस्याः सा अपार• ' बहुव्रीहिः ' । महतः भावः महिमा । महिम्नो घाम महिम० 'तत्पुरुषः' । तं महिम० । भयमस्यतीति भयास: ' तत्पुरुषः । तं भयासम् । न विद्यन्ते रुजो यस्याः सा अरुक् ' बहुव्रीहि: ' । सुराणामिन्द्रः सुरेन्द्र: 'तत्पुरुषः' । वरा चासौ योषित् च वरयोषित् 'कर्मधारयः ' । सुरेन्द्रस्य वरयोषित् सुरे० ' तत्पुरुष ' । इलाच मिलनं इला मिलनं ' तत्पुरुषः ' । अलकेषु मल: अलकमळ : 'तत्पुरुषः । उद्गतोऽलकमलो यस्याः साउदल० ' बहुव्रीहि:' । इलामिळनेन उदलकमला इलामि० ' तत्पुरुषः ' । हिमानि धामानि यस्य स हिमधामा 'बहुव्रीहिः ' । 'हिमधाम्नः भा हिम० ' तत्पुरुषः ' । तया हिम० । समा रुक् यस्याः सा समरुक् ' बहुव्रीहिः ' । इति काव्यार्थः ॥ २ ॥
,
"
,
सि० वृ०—प्रणमतेति । भो मन्याः ! यूयं तं जिनवजं - तीर्थकर समूहं प्रणमत - नमतेत्यर्थः । प्रपूर्वकणम प्रह्वीभावे ' धातोः ‘आशीः प्रेरणयोः' (सा० सू० ७०१ ) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनम् । अत्र ' प्रणमत ' इति क्रियापदम् । के कर्तारः । यूयम् । कं कर्मतापन्नम् । ' जिनवनं ' जिनानां व्रजो नित्रजस्तम् । कथंभूतं निव्रजम् । 'महिमधाम ' महिम्नो महत्त्वस्य धाम - स्थानम् । धीयते इति धाम | 6 घान् धातो: ' मनिन् । “ धाम देशे गृहे रश्मौ, चिह्न स्थानापराधयोः " इति विश्वः । पुनः किंविशिटम् ! | ' मयासं' भयं पीतिं अस्यति- क्षिपतीति भयासः तं मयासं, मयनाशकमित्यर्थः । तमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org