SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुर्विंशतिका [२० श्रीमुनिसुत तच्छब्दप्ताहचर्याद् यच्छब्दमाह - यं जिनवनं ' सुरेन्द्रवरयोषित् ' सुरन्ति - ऐश्वर्यमनुभवन्तीति सुराः 'सुर प्रप्तवैश्वर्ययोः ' ' इगुपधज्ञाप्रीकिरः कः १ ( पा० अ० ३, पा० १ अस्ति इत्यागमः — अर्शआदिभ्योऽच् ' ( पा० अ० १, पा० सुराः । तथाच रामायणे सू० १३५ ), क्षीरादौ (दु) त्या सुरा एषा २, सू० १२७ ) । सुरापरिग्रहः द् वा २२२ 'सुरापरिग्रहाद् देवाः, सुराख्या इति विश्रुताः । अपरिग्रहणात् तस्या, दैतेयाश्चासुराः स्मृताः ॥ १ ॥ " Jain Education International 66 इति तथेति । सुष्ठु राजन्त इति वा 'राजू दीप्तौ' 'अन्येभ्योऽपि दृश्यते' (पा०अ०३, पा०३, सू०१३०) तिङ् । यद्वा सुन्वन्ति - खण्डयन्ति सेवकदुःखमिति वा ' पुञ् अभिषत्रे' अभिषत्र :- स्नपनं पीडनं स्नानसन्धानादिः (१) । सुन्वन्ति - अभिषुण्वन्ति समुद्रमिति वा 'सुसूधागृधिम्य: क्रन् ' ( उणा० सू० १८२ ) इति ऋन् । मक्तदन्तं (?) सुष्ठु रान्ति-आददते वा 'रा दाने ''आतोऽनुपसर्गे कः ' ( पा० अ० ३, पा० २, सू० ३ ) सुराः । इन्दति-परमैश्वर्यं अनुभवतीति इन्द्रः । ' इदि परमैश्चर्ये ' ' ऋजेन्द्राग्रवज्रविप्रकुप्र(ब) चुप्र(ब्र) क्षु रखर भद्रोग्रमेर मेलशुक्रतीव्र वर्णेर ( शुक्लगौरवन्देरा ) माला: ' ( उणा० सू० १८१ ) इति सूत्रेण रन्प्रत्ययान्तो निपातितः । योषति - गच्छति पुरुषमिति योषित् । सुराणां देवानामिन्द्रः सुरेन्द्रः- शक्रः तस्या वरा–प्रधाना सा चासौ योषिच्च सुरेन्द्रवरयोषित् । ' युष भोजने ' सौत्रः 'हसरुहियुषिभ्य इति : १ ( उणा० सू० ९७ ) इति इत्प्रत्ययः । देवेन्द्रस्य प्रधानभूता स्त्री शचीत्यर्थः । अतितरां - अत्यर्थं ननामप्रणतवतीत्यर्थः । णमधातोः कर्तरि परोक्षे परस्मैपदे प्रथमपुरुषैकवचनम् । 'म प्रहृत्वे ' अग्रे णपू । ' आदेः ष्णः स्नः ' (सा० सू० ७४८ ) इति णकारस्य नकारः । ' द्विश्च' (सा० सू० ७१० ) इति द्विर्भावः । ' अत उपधायाः' (सा० स० ७१७ ) इति वृद्धिः । तथाच ' ननाम ' इति सिद्धम् । अत्र ' ननाम ' इति क्रियापदम् | का कर्त्री ? । ' सुरेन्द्रवरयोषित् ' सुराणामिन्द्रः - शक्रः तस्य वरा - प्रधाना सा चासौ योषिच्च सुरेन्द्रवरयोषित्। कं कर्मतापन्नम् ?। यम् । कथंभूता सुरेन्द्रवरयोषित् ? । 'अपारविसारिरजोदलकमलानना' अपाराणिइयत्तानवच्छिन्नानि विसारीणि-प्रसरणशीलानि यानि रजांसि - परागरेणूनि दलानि - पर्णानि च, अथवा रजोदलानि - परागकणा एव यस्मिन् तादृशं यत् कमलं - पद्मं तदिव आननं मुखं यस्याः सा तथा । रजांसि च दलानि च रजोदलानि इति 'द्वन्द्वः ', अथवा रजसां दलानि रजोदला नीति' ' तत्पुरुषः ', विसारीणि च तानि रजोदलानि च विसारिरजोदलानीति ' कर्मधारयः ', अपाराणि विसारिरजोदलानि च अपारविसारिरजोदलानीति ' कर्मधारयः ', अपारविसारिरजोदलानि यस्मिन् तत् अपारविसारिरजोदलं इति ' बहुव्रीहिः, ' अपारविसारिरजोदलं च तत् कमलं च अपारविसारिरजोदलकमलमिति ' कर्मधारयः ', अपारविसारिरजोदलकमलमित्र आनं यस्येति 'बहुव्रीहिकर्मधारयौ (९) '। पुनः कथंभूता ? । ' अरुकू' न विद्यते रुक् - रोगो यस्याः सा तथा । पुनः कथंभूता ? । ' इलामिलनोदलकमला ' इलाया:- पृथिव्याः मिलनं - संघट्टनं तेन उद्गतो - विलग्नः अलकेषुचूर्णकुन्तलेषु मलो यस्याः सा तथा । अनेन विशेषणेन तस्या भक्त्यतिशयो ध्वनितः । पुनः कथंभूता ? । 'समरुक् १' र ऐश्वर्यदीप्त्योः' इति पाणिनीयधातुपाठे । २ 'स्नानं सुरासन्धानं च ' इति प्रतिभाति । For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy