________________
२११
जिनस्तुतयः
स्तुतिचतुर्विशतिका जिनपतीनां स्तुतिः
जवाद् गतं जगदवतो वपुर्व्यथा
कदम्बकैरवशतपत्रसं पदम् । जिनोत्तमान् स्तुत दधतः स्रजं स्फुरत्कदम्बकैरवशतपत्रसम्पदम् ॥ २॥
-रुचिरा ज० वि०-जवादिति । भो भव्याः ! यूयं जिनोत्तमान-जिनवरान् स्तुत-प्रणमतेति क्रियाकारकसंयोजनम् । अत्र ‘स्तुत ' इति क्रियापदम् । के कर्तारः ? ' यूयम् ।। कान् फर्मतापन्नान् ? 'जिनोत्तमान् ।। किं कुर्वतो जिनोत्तमान् ? 'अवतः। रक्षतः। किं कर्मतापत्रम् ? 'जगत् ' विश्वम् । कस्मात् ? ' जवात् । वेगात् । कयंभूतं जगत् ? 'गतं' यातम् । किं कर्मतापन्नम् ? 'पदं' स्थानम् । पदं कथंभूतम् ? ' अवशतपत्रसम् । अवशा:-परवशाः तपन्त:-तापमनुभवन्तः प्रसा:सत्त्वा यस्मिन् तत् तथा । कैः कृत्वा? ‘वपुर्व्यथाकदम्बकैः' वपुःपीडोत्पीडैः । नरकादिगतं जगदवत इति समुदायार्थः । पुनः किं कुर्वतः ? ' दधतः । धारयतः। को कर्मतापमाम् ? 'स्रज' मालाम् । कथंभूता स्रजम् ? ' स्फुरत्कदम्बकैरवशतपत्रसम्पदम् ' स्फुरन्ती-दीप्यमाना कदम्बाना-वृक्षविशेषकुसुमानां करवाणा-कुमुदानां शतपत्राणां-कमलानां सम्पत्-समृद्धिर्यस्यां सा तथा ताम् ।।
अथ समास:--वपुषो व्यथा वपुर्व्यथाः 'तत्पुरुषः। वपुर्यथाना कदम्बकानिवपुर्व्यथा० 'तत्पुरुषः । तैवपुर्व्यथा । नवशा अवशाः 'तत्पुरुषा'। अवशाश्च ते तपन्तश्च अवश० 'कर्मधारयः। अवशतपन्तससा यस्मिन् तद् अवश० 'बहुव्रीहिः' तत् अवशतप० । जिनानां जिनेषु वा उत्तमा जिनोत्तमाः ‘तत्युरुषः । तान् जिनो० । कदम्बाश्च कैरवाणि च शतपत्राणि च कदम्ब० 'इतरेतरद्वन्द्वः ।। कदबकैरवशतपत्राणां सम्पत् कदम्ब० 'तत्पुरुषः । स्फुरन्ती कदम्बकैरवशतपत्रसम्पद् यस्यां सा स्फुर० 'बहुव्रीहिः।' तां स्फुर०॥ इति काव्यार्थः॥२॥
सि० वृ०-जवादिति । मो भव्याः ! यूयं जिनोत्तमान-जिनवरान् स्तुत-प्रणमतेत्यर्थः । 'टुञ्' 'स्तुतौ' धातोः 'आशी:प्रेरणयोः' (सा०सू० ७०३) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनम् । ‘अप् कर्तरि' (सा०सू० ६९१) इत्यप्, ‘अदादेर्लुकः' (सा०सू० ८८०) इत्यपो लुक् । अत्र ‘स्तुत' इति क्रियापदम् । के कर्तारः । ययम् । कान् कर्मतापन्नान् ! । निनोत्तमान् ' जिनेषु उत्तमाः जिनोत्तमाः तान् । किं कुर्वतः जिनोत्तमान् ! । 'अवतः' अवन्ति-रक्षन्ति ते अवन्तः तान् । किम् ! । जगत्विश्वम् । कथम् १ ! जवात्-वेगात् । “ जवो वेगस्त्वरिस्तुर्णिः " इत्यमरः (!)। कथंभूतं जगत् ! । गतंप्राप्तम् । किम् ।। पदं स्थानम् । पदं कथंभूतम् ! । अवशतपत्रसं' न वशाः अवशाः-पराधीनाः परमाधामिकायत्ता इतियावत् तपन्तः-तापमनुमवन्तः प्रसा:-सत्त्वाः यस्मिन् तत् तथा । कैः कृत्वा ! । ' वपुर्व्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org