________________
२१०
स्तुतिचतुर्विशतिका
[१९ श्रीमालि
हे मल्लिनाथ !-हे मल्लिस्वामिन् ! हे गुरो|-महन् ! मे-मम मह्यं वा त्वं वरं-मनोऽभिलषितं प्रवितर इत्यन्वयः। 'प्रवितर' इति क्रियापदम् । कः कर्ता ? । 'त्वम् ।। 'प्रवितर' वदस्व । के कर्मतापन्नम् ? । 'बरं'इत्यत्र वयोरेक्यं यमकत्वात्। प्रवितनु' इत्यपि पाठः। प्रवितनु विस्तारय । त्वं किं कुर्वन । 'नुदन्' पीडयन् । कां कर्मनापन्नाम? । 'तनुं शरीरम् । किं विशिष्टां तनुम्? रुचिरा-मनोज्ञा उचिता-योग्या तद्वयं नास्ति सा अरुचिरोचिता, तो अरुचिरोचिताम्'। किंविशिष्टं वरम् ? । 'प्रियं' इष्टम् । पुनस्त्वं किं कुर्वन् ? । 'विडम्बयन्' तिरस्कुर्वन् । किं कर्मतापनम् । अचिररुचिः-विद्युत् [ तस्यारोचिः-त्विट कान्तिः ते-तव] (तया रोचितं ) अम्बरं-आकाशं 'अचिररुचिरोचिताम्बरम् । पुनः त्वं किंविशिष्टः ? । वरं-प्रधानं यदचिमण्डलं-प्रमामण्डलं तेन तद्वत् वा उज्ज्वलो-निर्मल:-कान्तः 'घररुचिमण्डलोज्ज्वलः' । पुनः किविशिष्टस्त्वम् ।। प्रियङः वृक्षविशेषः फलिनीनामा तद्वद् रोचिः-कान्तिर्यस्य स 'प्रियङ्गुरोचिः', नीलवर्ण इत्यर्थः । एतादृशो मल्लिर्मम प्रियं वरं प्रवितर । इति पदार्थः ॥ ॥
___ अथ समासः-नुवतीति नुदन् । मल्लिश्चासौ नाथश्च मलिनाथः, तस्य स. हे माल्लिनाथ ।। प्रियङ्गुव रोचिर्यस्य स प्रियडुरोचिः। रुचिरा च उचिता च रुचिरोचिते, न विद्यते रुचिरोचिते यस्याः सा अरुचिरोचिता, तां अरुचिरोचिताम् । विडम्बयतीति विडम्बयन् । रुचेमण्डलं रुचिमण्डलं, वरं च तद् रुचिमण्डलं च वररुचिमण्डलं, वररुचिमण्डलेन उज्ज्वलः वररुचिमण्डलोज्ज्वलः। न विद्यते चिरा-चिरकालस्थायिनी रो(रु)चिर्यस्याःसा अचिररो(क)चिः, अचिररोचिषा(रुच्या)रोचितं अचिर(रु)चिरोचितं. अचिररो(रु)चिरोचितं च तद्अम्बरंच अचिररुचिरोचिताम्बरम् । इतिप्रथमवृत्तार्थः॥१॥ईन्द्रवज्रोपजात्युपजातिवंशस्थच्छन्दसा स्तुतिरियम् ॥
दे०व्या-नुदमिति । हे मल्लिनाथ ! स्वं मे-मम वरं प्रवितर-दद्याद् इन्यन्वग्नः । 'तू प्लवनतरणयोः' इति धातुः । प्रवितर ' इति क्रियापदम् । कः कर्ता । त्वम् । के कर्मतापन्नम् ? । बरं-वाञ्छितम् । बवयोरेक्याद वकारस्थाने बकारग्रहणम् । 'गुरो।' इति । गृणीते धर्म इति गुरुः तस्यामन्त्रणम् । “गुरुर्ज्ञानो(धर्मोपदेशक: " इत्यभिधानचिन्तामणिः ( का० १, श्लो० ७७ ) । " हिताहितप्राप्तिपरिहारोपदेष्टा गुरुः " इति नैयायिकाः। किंविशिष्टं वरम् ।। प्रियं-वल्लभम् । त्वं किं कुर्वन् ?। नुवन्-परिक्षिपन् । काम् ?। तनु-शरीरम् । किविशिष्टां तनुम् ! । 'अरुचिरोचितां ' अरुचिरा-बहुलकर्माणः तेषां उचिता-योग्या या सा ताम , लधकर्मणा स्तोककालेनैव मुक्तिगमनेन तत्त्यागात् । पुनः किं कुर्वन् । विडम्बयन-हसन् । किम् ? । अचिररुचिरोचिताम्बरं आचिररुचिः-विद्युत् तथा रोचितं-उद्भासितं यदृ अम्बरं-आकाशं तत् । किंविशिष्टस्त्वम् । 'वररुचिमण्डलोज्ज्वलः' वरः-प्रधानो यो रुचिमण्डलो-भामण्डलः तेन उज्ज्वलः-अवदातः । पुनः किंविशिष्टः १ । “प्रियङ्गरोचिः' प्रियङ्गः-वृक्षभेदः तद्वत् रोचिः-कान्तिर्यस्य स तथा । " प्रियङ्गः फलिनी श्यामा " इत्यभिधानचिन्तामणिः (का० ४, श्लो० २१५) । इति प्रथमवृत्तार्थः ॥ १॥
१ इदं चिन्त्यम् । २ इदमपि चिन्त्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org