________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका गुरुः तस्य सं० हे गुरो !-हे धर्मोपदेशक ] !' गृ शब्दे' 'कृप्रोरुच्च' (उणा० स०२४ ) इति उप्रत्ययः। ऋकारस्य च उकारः · उरण्रपरः' (पा० अ० १, पा० १, २०५१)। त्वं मे-मम वर-समाहित प्रवितर-प्रदेहीत्यर्थः । प्रविपूर्वक त प्लवनतरणयोः' इति धातोः 'आशीःप्रेरणयोः' (सा० स० ७०३) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम्ग । अत्र 'प्रवितर' इति क्रियापदम् । कः कर्ता? । त्वम् । कं कर्मतापन्नम् ! । वरम् । वङ् वरणे' अप्रत्यये वरो देवेभ्यः स्वसमीहितप्रार्थनमित्यर्थः। यदाह-" तपोभिरिप्यते यत् तु, देवेभ्यः स वरो मतः " इति कात्यः। वरमिति मान्तमव्ययमित्येके।
" वरो जामातरि वृतौ, देवतादेरभीप्सिते । षिङ्गे पुंसि त्रिषु श्रेष्ठे, कुङ्कुमे तु नपुंसकम् ॥ १ ॥ वरी प्रोक्ता शतावर्या, वरा च स्यात् फलत्रिके।
मनागिष्टे वरं क्लीबं, केचिदाहुस्तदव्ययम् ॥ २॥" इति रायमुकुटाख्यायाममरटीकायाम् । कथंभूतं वरम् ? । प्रियं-कलभम्, प्रीतिकरमित्यर्थः । इद अम्बरस्यापि विशेषणं घटते । त्वं किं कुर्वन् ? । नुदन्-क्षिपन् । काम् ? । तनु-देहम् । " त्वग्देहयोरपि तनुः" इत्यमरः (१)। कथंभूतां तनुम् ! । 'अरुचिरोचिताम्' रुचिरा-मनोहरा उचिता-योग्या, रुचिरा चासौ उचिता च रुचिरोचिता इति 'कर्मधारयः', एतादृशी न भवतीत्यरुचिरोचिता ता, लघुकर्मणां स्तोककालेनैव मुक्तिगमनेन तत्त्यागसम्भवाद् बहुलकर्मणामेव तत्सम्मवेनारुचिरोचितत्वमिति भावः । पुनः किं कुर्वन् ! ।
विडम्बयन् ' विडम्बयतीति विडम्बयन्-अवहेलयन् । किं कर्मतापन्नम् !। 'अचिररुचिरोचिताम्बरम् । अचिररुच्या-तडिता रोचितं-उद्भासितं यदम्बरं-नमः तत् । “ अम्बरं व्याम्नि वाससि " इत्यमरः ( ? )। किंविशिष्टः त्वम् ! । 'वररुचिमण्डलोउज्वलः' सन् वरः-प्रधानो यो रुचिमण्डलो-मामण्डलस्तेन उज्ज्वल:अवदातः सन् । त्वं कथंभूतः ।। ' प्रियङ्गुरोचिः । प्रियङ्गुः-फलिनी तद्वद् रोचिः-कान्तिः यस्य सः, नीलद्युतिरित्यर्थः । यदाहुः ( अभि० का० १, श्लो० ४९)
" रक्तौ च पद्मप्रभवासुपूज्यौ
शुक्लौ च चन्द्रप्रभपुष्पदन्तौ । कृष्णौ पुनर्नेमिमुनी विनीलो
श्रामालपाश्वा करकत्विषोऽन्ये ॥"-इन्द्रवज्रा इति श्रीहेमरिणः । “ प्रियङ्गुः फलिनीकगुपिप्पलीरानिकासु च " इति विश्वः । अत्र मामण्डलविद्युतोः भगवत्तनुव्योम्नोश्च साधम्यादुपमानोपमेयभावः प्रदर्शितः ॥ १॥
सौ० वृ०-यो भवाम्मोधेररं-तटं प्राप्तः स कामाविषडन्तररिपूणां विजये मल्ल व मला तथा गर्भस्थे भगवति मातुमल्लिकामालादोहदोत्पनत्वेन नाम्ना मल्ली (1)। अनेन सम्बन्धेनायातस्य मल्लिजिनस्य स्तुतेर्व्याख्यानं लिख्यते नुदंस्तनुमिति ।
DO
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org