________________
१९ श्रीमल्लिजिनस्तुतयः
अथ श्रीमल्लिनाथस्य स्तुति:
दंस्तनुं प्रवितर मल्लिनाथ ! मे प्रियङ्गुरोचिररुचिरोचितां वरम् । विडम्बयन वररुचिमण्डलोज्ज्वलः
प्रियं गुरोऽचिररुचिरोचिताम्बरम् ॥ १ ॥
- रुचिरा ( ४, ९ )
ज० वि० – नुदंस्तनुमिति । हे मल्लिनाथ ! -मल्लिप्रभो ! हे गुरो ! -महात्मन् ! त्वं मेमम वरं - प्रार्थितार्थम्, अत्र बवयोरैक्यं तु यमकवशात् ज्ञेयम्, प्रवितर - देहि इति क्रियाकारकसम्बन्धः । अत्र ‘ प्रवितर ' इति क्रियापदम् । कः कर्ता ? ' त्वम् '। कं कर्मतापन्नम् ? ' वरम्' । त्वं किं कुर्वन् ? ' नुदन् ' प्रेरयन् क्षिपन् । कां कर्मतापन्नाम् ? ' तनुं ' शरीरम् । कथंभूतां तनुम् ? ' अरुचिरोचितां ' रुचिरा - मनोहरा उचिता - योग्या, एतादृशी न भवतीत्य रुचिरोचिता ताम् । पुनः किं कुर्वन् ? ' विडम्बयन् ' अवहेलयन् । किं कर्मतापन्नम् ? अचिररुचिरोचिताम्बरम् ' अचिररुच्या - विद्युता रोचितं - उद्भासितं यदम्बरं - नभस्तत् । कथंभूतः सन् ? वरं - प्रधानं यद् रुचिमण्डलं- प्रभामण्डलं तेनोज्ज्वलः - कान्तः सन् । त्वं कथंभूतः ? ' प्रियङ्गुरोचिः ' प्रियङ:वृक्षविशेषः तद्वद् रुचिः - युतिर्यस्य स तथा, नीलद्युतिरित्यर्थः । वरं कथंभूतम् ? ' प्रियं प्रीतिकरम् । इदं च विशेषणं अम्बरस्यापि घटते ॥
अथ समासः - मलिश्वासौ नाथश्च मल्लिनाथः ' कर्मधारयः ' । तत्सम्बो० हे मल्लि० । प्रियङ्गुवद् रोचिर्यस्य स प्रियङ्गु ० ' बहुव्रीहि:' । रुचिरा चासौ उचिता च रुचिरोचिता 'कर्मधारयः । न रुचिरोचिता अरुचिरोचिता " तत्पुरुषः । तां अरुचि० । रुचीनां मण्डलं रुचि ०
"
4
Jain Education International
ܐ
, तत्पुरुषः ' । वरं च तद् रुचिमण्डलं च वररुचि० ' कर्मधारयः । वररुचिमण्डलेनोज्ज्वलो वररुचि ० ' तत्पुरुषः ' । न चिरं (रा) अचिरं ( रा ) ' तत्पुरुषः । अचिरं ( रा ) रुचिर्यस्याः सा अचिर० ' बहुव्रीहिः ' । अचिररुच्या रोचितं अचिर०
"
तत्पुरुषः ' । अचिररुचिरोचितं च
तदम्बरं च अचिर० ' कर्मधारयः ' । तदचिर० ॥ इति काव्यार्थः ॥ १ ॥
सि० ब्रु०–नुदंस्तनुमिति । परीषहादिमलनयात् मल्लिः । निरुक्तात् गर्भस्थेऽस्मिन् मातुः सर्वर्तुकुसुममाल्यशयनीय दोहदो देवतयाऽपूरीति वा महिः । स चासौ नाथश्च मल्लिनाथः तस्य संबोधनं हे मल्लिनाथ ।। हे ' गुरो ! ' गृणाति धर्मोपदेशं यथार्थोपदेष्टा वा गुरुः तस्य संबोधनं हे गुरो ! | [ गृणाति हिताहितत्वं इति
१' प्रवितनु ' इत्यपि पाठः ।
For Private & Personal Use Only
www.jainelibrary.org