Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 401
________________ २०६ स्ततिचतुर्विशतिका [१८ श्रीअर पुनः किंविशिष्टा या । कृतो-विहितो धीराः-युद्धे विकटाः मदेन सहिताः समदाः ताशा ये वैरिणःशत्रवः तेषां वधो-हननं यया सा 'कृतधीरसमदवैरिवधा' । कैः कृत्वा । महान्ति अरीणि-चक्राणि महारीणि तैः 'महारिभिः', महच्चरित्यर्थः । किंविशिष्टैमहारिभिः ।। धाम-तेजः तेन हारिभिः-मनोहरैः ‘धामहारिभिः'। विवि का इव माति ! । 'तडिद् (इव)' विधुदिव भाति इव-यथा तद्वत् । सान्ध्यसमयोत्पमो यो धनो-मेघः तस्य मूर्धा-मस्तकं तस्मिन् सान्ध्यघनमूर्धनि यथा भाति इत्यन्वयः। 'भाति' इति क्रियापदम् । का की। तडित् ।।'भाति'शोभते। कस्मिन् । 'सान्ध्यघनमूर्धनिकैः कृत्वा । । 'धाम[हारि]भिः' किरणैः। धाम[हारिभिः कैरिव ?। असमा-असहशाः दवा-चमवलयः असमदवाः, तैः 'असमदकैः । अत्र तडित्स्थानीया देवी, सान्ध्यघनस्थानीयो गरुडा, धामस्थानीयं चर्क, तद् देवी भाति । कस्याम् ! । ' मवि ' स्वर्गे पृथिव्यां वा । एतादृशी देवी प्रीत्यै अस्तु । इति पदार्थः ॥ ___ अथ समासः-विचित्रा वर्णा यस्मिन् स विचित्रवर्णः, विनतायाः आत्मजो विनतात्मजः, विचित्रवर्णवासी विनतात्मजच विचित्रवर्णविनतात्मजः, विचित्रवर्णविनतात्मजस्य पृष्ठं विचित्रवर्णविनतात्मजपृष्ठं, तत् विचित्रवर्णविनतात्मजपृष्ठम् । समा च सा तनुश्च समतनुः, हुतात्समतनुः हुतात्समा तनुः, हुतात्समतन भजतीति हुतात्समतनुभाकान विकृता अविकृता, आंवकृता धीयस्याः सा आव. कृतधीः । न समा असमाः, असमाश्च ते दवाश्च असमदवाः, तैरसमवैः। धामभिः हरन्तीत्येवंशीलानि धामहारीणि, तैः धामहारिभिः। सन्ध्यायां भवः सान्ध्यः, सान्ध्यश्चासौ घनश्च सान्ध्यघनः, सान्ध्यघनस्य मूर्धा सान्ध्यघनमूर्धा, तस्मिन् सान्ध्यघनमूर्धनि। चक्रधरतीति चक्रधरा।असमाना (तनो:-) शरीरस्य मा-कान्तिर्यस्याः सा असमतनुभा । मवेन सहिताः समदाः, धीराश्च ते समदाश्च धीरसमदाः, धीरसमदाच ते वैरिणश्च धीरसमदवैरिणः, कृतो धीरसमदवैरिणां वधो यया सा कृतधीरसमक्वैरिवषा । महान्ति च तानि अरीणि (च)[ विद्यन्ते येषु तानि ] महारीणि, तैः-महारिभिः। गवीति पदस्यार्थ: " गौर्वत्रे सुवृषे धेनौ, वाचि दिग्बाणयोगिरि। भूमयूखसुखस्वर्गा-सत्यवन्हयक्षिमातृषु ॥" पति महीपकोषः । इति चतुर्थवृत्तार्थः॥४॥ अरनाथजिनेन्द्रस्य, स्तुतेरर्थी लिबीकृतः। सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना ॥१॥ ॥ इति श्रीअरनाथस्तुतिः सम्पूर्णा ॥ ४॥ १८॥ ७॥ दे० व्या०-याऽत्रेति । सा चक्रधरा देवी मुदे अस्तु-भवतु इत्यन्वयः। ' असं भुवि ' धातुः । 'अस्तु । इति क्रियापदम् । का की ?। चक्रधरा देवी। कस्यै ! । मुदे-हर्षाय। “ मुत्पीत्यामोदसमो(म)दाः " इत्यभिधानचिन्तामणिः (का० २, श्लो० २३०)। किंविशिष्टा देवी ? । 'हुतात्समतनुभाक्' हुतं-होमवयं असि-भक्षयतीति हुताद्-वह्निः तेन समा-सदृशां तनुं भजतीति हुतात्समतनुभाव। पुनः किंविशिष्टा" 'अविकतधीः'अविकृता-अविकारिणी धी:-बुद्धिः यस्याः सा तथा । पुनः किंविशिष्टा ।'असमतनुभा' चिन्त्य (1) पदम् । पुनः किंविशिष्टा ।'कृतधीरसमदवैविधा' धीराः-धर्यवन्तः समदा-मदेन सह वर्तमानाः. धीराश्च ते समदाश्चेति 'द्वन्द्वः', ततः कृतः-सम्पादितो धीरसमदवैरिणां बधी-विनाशो यया सा तथा । कस्याम? | 'गवि' गौ:-पृथ्वी तस्याम् । “गौर्गोत्रा भूतधात्री क्ष्मा' इत्यभिधानचिन्तामणिः (का०४, श्लो०२) । पसदोनित्याभिसम्बन्धात् या चक्रधरा देवी अत्र-जगति महारिभिः-महपः भाति-शोभते। 'मादीप्ती, पाता।'भाति, इति क्रियापदम् । का कत्रीचक्रधरा देवी। कः? महारिभिः। “रथा रथपादोऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562