________________
२०६
स्ततिचतुर्विशतिका
[१८ श्रीअर
पुनः किंविशिष्टा या । कृतो-विहितो धीराः-युद्धे विकटाः मदेन सहिताः समदाः ताशा ये वैरिणःशत्रवः तेषां वधो-हननं यया सा 'कृतधीरसमदवैरिवधा' । कैः कृत्वा । महान्ति अरीणि-चक्राणि महारीणि तैः 'महारिभिः', महच्चरित्यर्थः । किंविशिष्टैमहारिभिः ।। धाम-तेजः तेन हारिभिः-मनोहरैः ‘धामहारिभिः'। विवि का इव माति ! । 'तडिद् (इव)' विधुदिव भाति इव-यथा तद्वत् । सान्ध्यसमयोत्पमो यो धनो-मेघः तस्य मूर्धा-मस्तकं तस्मिन् सान्ध्यघनमूर्धनि यथा भाति इत्यन्वयः। 'भाति' इति क्रियापदम् । का की। तडित् ।।'भाति'शोभते। कस्मिन् । 'सान्ध्यघनमूर्धनिकैः कृत्वा । । 'धाम[हारि]भिः' किरणैः। धाम[हारिभिः कैरिव ?। असमा-असहशाः दवा-चमवलयः असमदवाः, तैः 'असमदकैः । अत्र तडित्स्थानीया देवी, सान्ध्यघनस्थानीयो गरुडा, धामस्थानीयं चर्क, तद् देवी भाति । कस्याम् ! । ' मवि ' स्वर्गे पृथिव्यां वा । एतादृशी देवी प्रीत्यै अस्तु । इति पदार्थः ॥ ___ अथ समासः-विचित्रा वर्णा यस्मिन् स विचित्रवर्णः, विनतायाः आत्मजो विनतात्मजः, विचित्रवर्णवासी विनतात्मजच विचित्रवर्णविनतात्मजः, विचित्रवर्णविनतात्मजस्य पृष्ठं विचित्रवर्णविनतात्मजपृष्ठं, तत् विचित्रवर्णविनतात्मजपृष्ठम् । समा च सा तनुश्च समतनुः, हुतात्समतनुः हुतात्समा तनुः, हुतात्समतन भजतीति हुतात्समतनुभाकान विकृता अविकृता, आंवकृता धीयस्याः सा आव. कृतधीः । न समा असमाः, असमाश्च ते दवाश्च असमदवाः, तैरसमवैः। धामभिः हरन्तीत्येवंशीलानि धामहारीणि, तैः धामहारिभिः। सन्ध्यायां भवः सान्ध्यः, सान्ध्यश्चासौ घनश्च सान्ध्यघनः, सान्ध्यघनस्य मूर्धा सान्ध्यघनमूर्धा, तस्मिन् सान्ध्यघनमूर्धनि। चक्रधरतीति चक्रधरा।असमाना (तनो:-) शरीरस्य मा-कान्तिर्यस्याः सा असमतनुभा । मवेन सहिताः समदाः, धीराश्च ते समदाश्च धीरसमदाः, धीरसमदाच ते वैरिणश्च धीरसमदवैरिणः, कृतो धीरसमदवैरिणां वधो यया सा कृतधीरसमक्वैरिवषा । महान्ति च तानि अरीणि (च)[ विद्यन्ते येषु तानि ] महारीणि, तैः-महारिभिः। गवीति पदस्यार्थ:
" गौर्वत्रे सुवृषे धेनौ, वाचि दिग्बाणयोगिरि।
भूमयूखसुखस्वर्गा-सत्यवन्हयक्षिमातृषु ॥" पति महीपकोषः । इति चतुर्थवृत्तार्थः॥४॥
अरनाथजिनेन्द्रस्य, स्तुतेरर्थी लिबीकृतः। सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना ॥१॥
॥ इति श्रीअरनाथस्तुतिः सम्पूर्णा ॥ ४॥ १८॥ ७॥ दे० व्या०-याऽत्रेति । सा चक्रधरा देवी मुदे अस्तु-भवतु इत्यन्वयः। ' असं भुवि ' धातुः । 'अस्तु । इति क्रियापदम् । का की ?। चक्रधरा देवी। कस्यै ! । मुदे-हर्षाय। “ मुत्पीत्यामोदसमो(म)दाः " इत्यभिधानचिन्तामणिः (का० २, श्लो० २३०)। किंविशिष्टा देवी ? । 'हुतात्समतनुभाक्' हुतं-होमवयं असि-भक्षयतीति हुताद्-वह्निः तेन समा-सदृशां तनुं भजतीति हुतात्समतनुभाव। पुनः किंविशिष्टा" 'अविकतधीः'अविकृता-अविकारिणी धी:-बुद्धिः यस्याः सा तथा । पुनः किंविशिष्टा ।'असमतनुभा' चिन्त्य (1) पदम् । पुनः किंविशिष्टा ।'कृतधीरसमदवैविधा' धीराः-धर्यवन्तः समदा-मदेन सह वर्तमानाः. धीराश्च ते समदाश्चेति 'द्वन्द्वः', ततः कृतः-सम्पादितो धीरसमदवैरिणां बधी-विनाशो यया सा तथा । कस्याम? | 'गवि' गौ:-पृथ्वी तस्याम् । “गौर्गोत्रा भूतधात्री क्ष्मा' इत्यभिधानचिन्तामणिः (का०४, श्लो०२) । पसदोनित्याभिसम्बन्धात् या चक्रधरा देवी अत्र-जगति महारिभिः-महपः भाति-शोभते। 'मादीप्ती, पाता।'भाति, इति क्रियापदम् । का कत्रीचक्रधरा देवी। कः? महारिभिः। “रथा रथपादोऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org