________________
जिमस्तुतयः ]
स्तुतिचतुर्विंशतिका
मेघः स च विचित्रवर्णो भवति तस्य मूर्ध्नि - मस्तके, आधारे सप्तमी, तडिदिव - विद्युदिव । यथा सान्ध्यधनशिरसि तडिद् भाति तथा देवी गरुडपृष्ठस्थिता शोभत इति मावः । पुनः कथंभूता चक्रधरा ! | 'अविकृतधीः ' अविकृता—न विकारं प्राप्ता धी:- बुद्धिर्यस्याः सा । पुनः कथंभूता ? । 'असमतनुभा' समा - सामान्या तनुः- कृशा, समाचासौ तनुश्चेति' कर्मधारयः ', न समतनुरसमतनुरिति ' तत्पुरुषः ', असाधारण महतीध्यर्थः, एतादृशी मा - कान्तिर्यस्याः सा तथा । कस्याम् ? । गवि - पृथिव्यां स्वर्गे वा ।
" गौः स्वर्गे वृषभे रश्मौ, वज्रे शीतकरे पुमान् ।
19
अर्जुनीनेत्रदिवाण -- भूवाग्वादिषु योषिति ॥
इति मेदिनी । पुनः कथंभूता ? । 'कृतधीरसमदवैरिवधा कृतो विहितो धीराणां शूराणां धैर्यवतां समदानां मदसहितानां वैरिणां—- रिपूणां वधो - विनाशो यया सा तथा । धीराश्च ते समदाश्च वीरसमदा इति ' कर्मधारयः ' | कैः कृत्वा । ' महारिभिः ' महान्ति च तानि अरीणि चक्राणि च महारीणितैः, बृहद्भिश्चक्रैरित्यर्थः । “रथाङ्गं रथपादोऽरि, चक्रं धारा पुनः प्रधिः" इति हैमः (का० ३, श्लो० ४१९ ) । कथंभूतैः ? | ' धामहारिभिः ' घाम्ना - तेजसा हारीणि - मनोज्ञानि तैः । कैरिव । ' असमदवैरिव' असमै:असदृशैः दवैः–वनवह्निभिरिवेत्युत्प्रेक्षा । अत्रामेदे रूपकम् । " दवदावौ वनवह्नी " इत्यमरे हैमे ( का० श्लो० ( ० १६७ ) च । न च समदवैः इत्यत्र समासे विभक्तिलोपः शंक्य: “इवेन नित्यं समासो विमत्तत्यलोपश्च ” इति वार्तिकात् । अत्रार्थे “ वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये" (स० १, लो० १ ) इति रघुरे दाहरणं द्रष्टव्यम् ॥ ४॥
1
४,
Jain Education International
॥ इति महोपाध्याय ० श्रीअरनिनस्तुतेर्वृत्तिः ॥ १८ ॥
C
सौ० वृ० -- यात्रेति । सा (चक्रधरा-) अप्रतिचका देवी मुद्दे प्रीत्यै अस्तु इत्यन्वयः । 'अस्तु' इति क्रियापदम् । का कत्री ? । 'सा' । अस्तु' भवतु । कस्यै ? । 'मुदे' । किंविशिष्टा सा ? । 'चक्रधरा' चक्रं - नेमिं धरतीति ' चक्रधरा' । तच्छब्दो यच्छन्दमपेक्षते । सा का ? । या देवी अत्र जगति भाति इत्यन्वयः । 'भाति' इति क्रियापदम् । का कर्त्री ? | 'सा' । ' भाति ' शोभते । कुत्र । 'अत्र ' [जगति ] । किंविशिष्टा या देवी । ' अधिष्ठिता' आश्रिता । किं कर्मतापन्नम् ? | विचित्रो - विविधप्रकारो वर्णो यस्य सः वाइशो यो विनतात्मजो - गरुडः तस्य पृष्ठ - पृष्ठमध्यभागः तत् 'विचित्रवर्णविनतात्मजपृष्ठ', गरुडवाहने त्यर्थः । "आजानु कनकगौरम्, आनाभेः शङ्खकुन्दहरधवलं” तथा “आकण्ठतो नवदिवाकर कान्तितुल्यम्, आमूaisञ्जननिभं गरुडस्वरूपम् " इतिवचनात् । तथा
66
'दितिर्माता च दैत्यानां देवानामदितिस्तथा । विनता पक्षिणां माता, कडुः पन्नगमातरि ॥”
२०५
-
इति मातृ-प्रकरणे । अतो विनतात्मजो - गरुडः । पुनः किंविशिष्टा या । समा- राहशी तदुःशरीरं भजतीति समतनुभाक् । कस्मात् ? । ' हुतोत् ' हुतं अतीति हुताद - वन्हिः तत्समानेत्यर्थः । पुनः किंविशिष्टा या । अविकृता -- अविकारिणी धी:-बुद्धिर्यस्याः सा ' अविकृतधीः ' । दुमः किंविशिष्टा या । असमा - अनन्यसदृशी तनुः शरीरं तस्या भा-कान्तिर्यस्याः सा 'असमतनुभा' ।
१ अशुद्धं स्थलमिदम् ।
For Private & Personal Use Only
www.jainelibrary.org