________________
२०४ स्तुतिचतविंशतिका
( १८ श्रीअर कयंभूतः ? ' धामहारिभिः । धामभिः-तेजोभिः हारिभिः-कान्तः । कैरिव ? ' असमदवैरिव ' यसमैः-असदृशैः दवैः-बनवलिभिरिव ॥
____ अथ समासः- विचित्रो वर्णो यस्य स विचित्र ‘बहुव्रीहिः' । विनताया आत्मजो विनतास्मनः । तत्पुरुषः । विचित्रवर्णश्वासौ विनतात्मजश्च विचित्र ' कर्मधारयः । विचित्रवर्णविनतात्मजस्य पृष्ठं विचित्र 'तत्पुरुषः। (तद् विचित्र०)। हुतमत्तीति हुतात् 'तत्पुरुषः'। हुतादः समा हुतात्समा ' तत्पुरुषः । हुतात्समा चासौ तनुश्च हुता० 'कर्मधारयः' । हुतात्समतनुं भजत इति हुता० ' तत्पुरुषः ।। न विकृता अविकृता । तत्पुरुषः' । अविकृता धीर्यस्याः सा अविकृतधीः 'बहुव्रीहिः ।। (न समा असमाः 'तत्पुरुषः')। असमाश्च ते दवाश्च असम 'कर्मधारयः । तैरसम० । धामभिहारीणि धाम तत्पुरुषः ।। तैर्धाम । सन्ध्यायां भवः सान्ध्यः (तत्पुरुषः।)। सान्ध्यश्चासौ घनश्च सान्ध्यघनः 'कर्मधारयः।। सान्ध्यघनस्य मूर्धा सान्ध्या तत्पुरुषः । तस्मिन् सान्यधनमूर्द्धनि । चक्रं धारयतीति चक्रधरा 'तत्पुरुषः' । समा चासौ तनुश्च समतनुः ‘कर्मधारयः । न समतनु: असमतनुः 'तत्पुरुषः', असमतनुः मा यस्याःसा असम०'बहुव्रीहि धीराञ्च ने समदाश्च धीरसमदाः 'कर्मधारयः'। धीरसमदाश्च ते वैरिणश्च धीर० 'कर्मधारयः।।धीरसमदवैरिणां वधो धीर० ' तत्पुरुषः । कृतो धीरसमदवैरिवधो यया सा कृतधीर० ('बहुव्रीहिः' )। महान्ति च तान्यरीणि च महारीणि 'कर्मधारयः। तैर्महारिभिः॥ इति काव्याः ॥ ४॥
___ इति श्रीमवृद्धपण्डितश्रीदेवविजयगणिशिष्यपं जयविजयगणिविरचितायां श्रीशोभनस्तुतिष्ठत्तौ श्रीअरजिनस्य स्तुतेाख्या ॥ १८ ॥
सि०१०-याऽत्रेति । सा 'चक्रधरा' धरतीति धरा चक्रस्य धरा (१) अप्रतिषका देवी मुदे-प्रीत्यै अस्तु-भवत्वित्यर्थः - अस् भुवि ' धातोः 'आशी:प्रेरणयोः ' ( सा० सू० ७०३ ) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् । 'अप्० ' ( सा० सू० ६९१), ' अदादेः ' (सा • सू० ८८०) इति हुन् । अत्र ' अस्तु' इति क्रियापदम् । का की ? । चक्रधरा। कस्यै ? । मुदे । सेति तच्छब्दस्य यच्छबसाहचर्यात् सा का !। या चक्रधरा अत्र-अस्मिन् जगति भाति-शोमते इत्यर्थः । 'भा दीप्तौ' इति धातोः वर्तमाने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् । अत्र 'माति' इति क्रियापदम् । का की। या। कुत्र! । अत्र । कथंभूता ! । अधिष्ठिता-आरूढा । किम् ।। 'विचित्रवर्णविनतात्मनपृष्ठम् ' विचित्रा वर्णा यस्मिन् स विचित्रवर्णः, कर्बुर इत्यर्थः । "आजानु कनकगौरम्, आनामेः शङ्खकुन्दहरधवलम्, तथा “आकण्ठतो नवदिवाकरकान्तितुल्यम्, आमूर्धतोऽजननिमं गरुडस्वरूपम् " इतिस्वरूपो यो विनतात्मजो-यो गरुडः तस्य पृष्ठं-पश्चाद्भागस्तत् । “ पृष्ठं तु चरमं तनोः" इति हैमः ( का० ३, श्लो० २१५)। पुनः कथंभूता ! । 'हुतात्समतनुभाक् ' हुतं-होतव्यद्रव्यं अत्ति-मक्षतीति हुताद्-वन्हिः तेन समां-तुल्यां तनु-मूर्ति मनतीति हुतात्समतनुभाक् । कस्मिन् केव मातीति योज्यम् । सन्ध्यायां भवः सान्ध्यः, सन्ध्यासम्बन्धीत्यर्थः, यो धन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org