________________
जिनस्तुतया]
स्तुतिचतुर्विशतिका
२०३
अपथ्यम् । कस्मै ।। 'अघयते । अर्घ-पापं विद्यते यस्यासौ अघवान् तस्मै । पुनः किंविशिष्टम् ।। 'अपारमामरनितिशर्मकारणं । माश्व ते अमराश्चेति पूर्व 'द्वन्द्वः', निवृतेः शर्माणि नितिशर्माणि इति 'षष्ठीतत्पुरुषः, ततः अपाराणि च तानि मामरनिर्वतिशर्माणि चति 'कर्मधारयः, तेषां कारणं-हे तभूतम् , तत्वज्ञानहारा मुक्तिसुखजनकत्वात् । पुनः किंविशिष्टम् ? 'परमतमोहं । परम-प्रकृष्टं यत् तम:-अज्ञानं तस्य इम्त-माशकम् । यता परमतमा-अत्युत्कृष्टा ऊहा:-तर्काः यत्र तत् । पुनः किंधिशिष्टम् ।। 'अलब्धनमधवहितं ' अलम्घन:-अनतिक्रमणीयो यो मघवा-इन्द्रः तेन ईहितं-वाञ्छितम् ।। इति तृतीयवृतार्थः॥३॥
श्रीचक्रधरायाः स्तुति:याऽत्र विचित्रवर्णविनतात्मज पृष्ठमधिष्ठिता हुतात्
समतनुभागविकृतधीरसमदवैरिव धामहारिभिः । तडिदिव भाति सान्ध्यघन मूर्धनि चक्रधराऽस्तु सा मुदेऽसमतनुभा गवि कृतधीरसमदवैरिवधा महारिभिः ॥ ४ ॥
-द्विपदी ज० वि०-याऽत्रेति । सा चक्रधरा-अप्रतिचका देवी मुदे-प्रीत्यै अस्तु-भवतु इति क्रियाकारकसम्बन्धः । अत्र ' अस्तु' इति क्रियापदम् । का की ? ' चक्रधरा' । कस्यै ? 'मुदे। सेति तच्छब्दसाहचर्याद् यच्छन्दयोजनामाह--या चक्रधरा अत्र-अस्मिञ्जगति भातिशोभते । अत्रापि ' भाति ' इति क्रियापदम् । का की ? 'या। कुत्र ? ' अत्र । या कथंभूता ? ' अधिष्ठिता ' अधिरूढा । किं कर्मतापनम् ? 'विचित्रवर्णविनतात्मज पृष्ठं' विचित्रवर्णो-नानाविधवर्णसहितः, " आजानु कनकगौरम् आनाभेः शङ्खकुन्दहरधवलम्, आकण्ठतो नवदिवाकरकान्तितुल्यम्, आमूर्धतोऽञ्जननिभं गरुडस्वरूपम्" इतिस्वरूपो यो विनतात्मजो-गरुत्मान् तस्य पृष्ठ-गात्रीपरिभागम् । पुनः कथं ? "हुतात्समतनुभाक्' हुतं अत्तीति हुतात्वह्निस्तेन समां-तुल्यां तनु-मूर्ति भजतीति हुतात्समतनुभाक् । कस्मिन् केव भाति ? ‘सान्ध्यघनमूर्ध्नि ' सान्ध्यः-सन्ध्यासम्बन्धी यो घनः-मेघः स च विचित्रवर्णो भवति तस्य मूर्टिन-शिरसि तडिदिव' विथुदिव । अत्र चक्रधरा तडित्स्थानीया, गरुडो घनस्थानीय इति ज्ञेयम् । पुनः कर्थभूता चक्रधरा ?' अविकृतधी: अविकृता-न विकारं प्राप्ता धी:-बुद्धिर्यस्याः सा तथा । पुनः कथं? : असमतनुभा' समा-सामान्या तनुः-कृशा, न समतनुः असमतनुः, असाधारणमहतीत्यर्थः, एतादृशी भा-कान्तिर्यस्याः सा तथा । कस्याम् ? ' गवि ' पृथिव्यां स्वर्गे वा । पुनः कथं ? 'कृतधीरसमदवैरिवधा' कृतः-विहितः धीराणां-शूराणां समदाना-मदान्वितानां वैरिणारिपूर्णा वधः-विनाशो यया सा तथा । कैः कृत्वा १ ('महारिभिः) महद्भिः-बृहद्भिररिभिः-चक्रैः ।
१ भयं पाठः श्रीसौभाग्यसागरकृतवृत्यामेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org