________________
२०२
स्तुतिचतुर्विशतिका
[१८ श्रीअर
सौ० वृ०-भीमेति । भो भव्याः! यूयं जिनपतिमतं-तीर्थकरप्रवचनम् आनमत इत्यन्वयः। आनमत' इति कियापदम् । के कर्तारः । 'यूयम्' । 'आनमत' प्रणमत। किं कर्मतापत्रम् ? । 'जिनपतिमतम्'। भीमो-रौद्रो (महा-) महान् यो भवाब्धिः- (संसार) समुद्रः तस्माद् भवा- उत्पन्नाः या भीतयो-भयानि तान् भिनत्तीति तद् ‘भीममहाभवाब्धिभवभीतिविभेदि । पुनः किंविशिष्टं जिनपतिमतम् । परास्ताःतिरस्कृताः विस्फुरन्तो-दीप्यन्तो-झगझगायमानाः परेषां-कुतीर्थीयानां मतानी-शासनानि मोह:- अज्ञानं तथा (यद्वा !) मोहाद्-अज्ञानात् माना-गर्वा येन तत् 'परास्तविस्फुरत्परमतमोहमानम्' । पुनः किंविशिष्टं जिनपतिमतम् ? । 'घन' निबिडम् । कथम् !। 'अलम् । अत्यर्थम्, अप्रमेयप्रमेयमित्यर्थः । पुनः किंविशिष्टं जिनपतिमतम् ? । तनु-कृशं ऊनं-न्यूनं तवयं न इति 'अतनूनम् ' । एतावता महत्, सम्पूर्णमित्यर्थः । पुनः किंविशिष्टं जिनपतिमतम? 'अहितं । अश्रेयस्करं। कस्मै? 'अघवते-पापात्मने' पनः किंविशिष्टं जिनपतिमतम्?। अपाराअनेके मा-मनुष्याः अमरा-देवाः तेषां निवृत्तिः-मोक्षस्तस्याः शर्माणि-सुखानि तेषां कारणं-हेतुः (तत्) 'अपारमामरनिवृतिशर्मकारणम् । पुनः किंविशिष्टं जिनपतिमतम् ?। परमं-प्रकृष्टं तमः-अज्ञानं तत् प्रति हन्तीति परमतमोहम्', यद्वा परमतमःउस्कृष्टः ऊहो-वितों यस्मिंस्तत् परमतमोहम् । पुनः किंविशिष्टं जिनपतिमतम् ! । ' इहितं' वाञ्छितम् । केन ? । अलनः-अनुल्लङ्गनीयो मघवा-इन्द्रः तेन 'अलङ्गनमघवता', अच्युतेन्द्रेण ईप्सि(हितंवाञ्छितम् । एवंविधं जिनपतिमतं नूनं-निश्चितं आनमत ॥ इति पदार्थः ॥
__ अथ समासः-अपो निधीयन्ते यस्मिन् स अब्धिः, भव एवाब्धिः भवाब्धिः, महांश्चासौ भवाब्धिश्च महाभवाब्धिः, भीमश्चासौ महाभवाब्धिश्च भीममहाभवाब्धिः, भीममहाभवाब्धेर्भवा भीममहाभवाब्धिमवाः, भीममहाधिभवाश्च ता भीतयश्च भीममहाभवाब्धिभवभीतयः,विशेषेण भेदितुं शीलमस्यास्तीति विभेदि, भीममहाभवाब्धिभीतीनां विभेदि, यद्वा भीमहाभवाब्धिभवा भियश्च ईतयश्च भीममहामवाब्धि(भव)भीतयः इत्यपि । परेषां मतं परमतं, विस्फुरच्च तत् परमतं च विस्फुरत्परमतं, विस्फुरत्परमतस्य मोहः विस्फुरत्परमतमोहः, विस्फुरत्परमतमोहश्च मानश्च विस्फुरत्परमतमोहमानः, परास्तोध्वस्तः विस्फुरत्परमतमोहमानो येन तत् परास्तविस्फुरत्परमतमोहमानं तत् । तनु च ऊनं च तनूने, न स्तः तनूने यस्मिन् तद् अतनूनम् । अघं विद्यते यस्यासौ अघवान्, तस्मै अधवते । न हितं अहितं, तद् अहितम् । जिनानां पतिः जिनपतिः, तस्य मतं जिनपतिमतं, तत् जिनपतिमतम् । माश्च अमराव मामराः, अपाराश्च ते मामराश्च अपारमामराः, अपारमामराणां निर्वतिः अपारमामरनि वृतिः, अपारमामरनिर्वृतेः शर्माणि अपारमामरनिर्वृतिशमाणि, अपाग्मामरनिर्वृतिशर्मणां कारणं अपारमामरनिर्वृतिशर्मकारणम् । परमं च तत् तमश्च परमतमः, परमतमो हन्तीति परमतमोहं, यदा 'अतिशयेन परमाः परमतमाः, परमतमा ऊहा यस्मिन् तत् परमतमोहम् । लडाध्यते-उल्लभ्यते इति लगना नलडन्नः अलङग्नः, अलङ्घनश्चासौ मघवा च अलङ्गानमघवा, तेन अलङ्गनमघवता । इति तृतीयवृत्तार्थः॥३॥
दे०व्या०-भीमति। हे भव्यजनाः! यूयं जिनपतिमतं-प्रवचनं नूनं-निश्चितं आनमत-प्रणमतेत्यन्वयः। 'णम प्रवीभावे' धातुः । 'आनमत' इति क्रियापदम् । के कर्तारः। यूयम् । किं कर्मतापनम् । जिन
रमतम् । किंविशिष्टं जिनपतिमतम् । भीममहाभवाब्धिमवभातिविभदि' भीमः-भयोत्पादको रुद्र इतियावद् यो महाभवाब्धिः-प्रकृष्टसंसारसमुद्रः तस्मिन् भवा-उत्पन्ना या भीतिः-साध्वसं तस्या विभेदिभेदनशीलम् । पुनः किंविशिष्टम् ? । 'परास्तविस्फुरत्परमतमोहमानं विस्फुरन्तश्च ते परमतमोहमानाश्वेनि पूर्व कर्मधारयः', परमतं-बौद्धादिशासनं मोहः-अज्ञानं मानः-स्मयः एतेषां पूर्व 'द्वन्दः', ततः परास्ताविश्वस्ताः(विस्फरत्)परमतमोहमाना येन तत् । पुनः किंविशिष्टम् ? । 'अतनून' तनु-स्वल्पं ऊनं-अपूर्ण, अर्थापे. क्षया ताभ्यो रहित्तम् । पुन: किंषिशिष्टम् ? । अण्डन्न-फेनाप्यमात्तिकमणीयम् । पुनः किंपिशिष्टम् ? । अहित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org