________________
Vol. xxx, 2006 वैदिकसूक्ते निउटन्नियमानां सांकेतिकरूपम्
117 पूर्णतायै ग्रहा: सूर्यं प्रेरयन्ति । प्रेरणात्र उभयत्र प्रयुज्यते । अर्थात्, सूर्यः ग्रहान् समाकर्षति तथा ग्रहा अपि सूर्यम् । फलस्वरूपं ग्रहाः सूर्यस्य परितः परिक्रामन्ति, अन्यथा नैतत् सम्भवेत् । तथ्यमेतत् यथाधुनिकं तथैव विज्ञानदृष्ट्या गुरुत्वपूर्णम् । सूर्यग्रहाणां परस्परेषु समाकर्षणं विशिष्टवैज्ञानिकस्य निउटनमहोदयस्य तृतीयं नियम सूचयति ।
"क्रिया तथा प्रतिक्रिया परस्परयोः कृते समाने तथा विपरीतधर्मविशिष्टे'' इति
Newton's 3rd Law- Action and reaction are equal and opposite to each other. ७. वैशेषिकदर्शने निउटनमहोदयस्य नियमत्रयम्
सम्पूर्ण विज्ञानं द्विधा विभक्तुं शक्यते(क) वस्तुनिष्ठपद्धत्या सिद्धं विज्ञानम् तथा (ख) आत्मनिष्ठानुभवसिद्धं विज्ञानम्
वैदिकं वाङ्मयमुभयमावहति । अत्र प्रथमं वैदिकवाङ्मये विज्ञानं तथा द्वितीयं वैदिकं विज्ञानमिति वक्तुं शक्यते । वस्तुविज्ञानस्य मौलिकतथ्यानि साङ्केतिकरूपेण वैदिकमन्त्रेषु विद्यन्ते । कतिपयानि परवर्तिषु साहित्येषु विशदतया विवर्णिताः दृश्यन्ते ।
वेगसंस्कारप्रकरणे वैशेषिकदर्शने आचार्यकणादस्य सूत्रोपरि प्रशस्तपादेन कृते भाष्ये निउटनमहोदयस्य नियमत्रयं सङ्केतितं भवति ।
'वेगो पञ्चसु द्रव्येषु निमित्त-विशेषापेक्षात् कर्मणो जायते नियतदिक् क्रियाप्रबन्धहेतुः स्पर्शवद् द्रव्यसंयोगविशेषविरोधी क्वचित् कारणगुणपूर्वक्रमेणोत्पद्यते ।" i) वेगः निमित्तविशेषात् कर्मणो जायते (The change of motion is due to impressed
force)! (ii) वेगः निमत्तापेक्षात् कर्मणो जायते नियतदिक्क्रियाप्रबन्धहेतुः (The change of motion is
proportional to the motive force impressed and is made in the direction of
the right line in which the force is impressed 1) (iii) वेगः संयोगविशेषविरोधी । (To every action (संयोगः) there is alwaya an equal and
opposite reaction 1) ८. उपसंहारः
___ एवं वयं पश्यामः यत् वैदिकगतितत्त्वस्याथवा वेगसंस्कारस्य बीजं स्वीकृत्य महर्षिकणाद एव प्रथमः गतिनियमाविष्कारकः । अनन्तरमाधुनिकविज्ञानस्य विकासकाले निउटन्महोदयेन स्वीयप्रचेष्टया तथा