Book Title: Pramey Ratnamala Author(s): Anantvirya Shrimad Publisher: Jain Sahitya Prasarak Karyalay View full book textPage 8
________________ 2 प्रमेयरत्नमाला | ज्ञानस्य प्रमाणतापरिहारार्थमुक्तम् । तथा परोक्षज्ञानवादिनां मीमांसकानामस्वसंवेदनज्ञानवादिनां सांख्यानां ज्ञानान्तर प्रत्यक्षज्ञानवादिनां यौगानां च मतमपाकर्तुं स्वपदोपादानमित्यव्यात्यतिव्याप्त्यसम्भवदोषपरिहारात् सुव्यवस्थितमेव प्रमाणलक्षणम् । अस्य च प्रमाणस्य यथोक्तलक्षणत्वे साध्ये प्रमाणत्वादिति हेतुरत्रैव द्रष्टव्यः । प्रथमान्तस्यापि हेतुपरत्वेन निर्देशोपपत्तेः । प्रत्यक्षं विशदं ज्ञानमित्यादिवत् । तथाहि — प्रमाणं स्वापूर्वार्थव्यवसायात्मकं ज्ञानं भवति प्रमाणत्वात् । यत्तु स्वापूर्वार्थव्यवसायात्मकं ज्ञानं न भवति न तत्प्रमाणम् । यथा संशयादिर्घटादिश्च । प्रमाणं च विवादापन्नम् । तस्मात्स्वाषूर्वार्थव्यवसायात्मकं ज्ञानमेव भवतीति । न च प्रमाणत्वमसिद्धम् । सर्वप्रमाणस्वरूपवादिनां प्रमाणसामान्ये विप्रतिपत्त्यभावात् । अन्यथा स्वेष्टानिष्टसाधनदूषणायोगात् । अथ धर्मिण एव हेतुत्वे प्रतिज्ञार्थैकदेशासिद्धो हेतुः स्यादिति चेन्न । विशेषं धर्मिणं कृत्वा सामान्य हेतुं ब्रुवतां दोषाभावात् । एतेनापक्षधर्मत्वमपि प्रत्युक्तम् । सामान्यस्याशेषविशेषनिष्ठत्वात् । न च पक्षधर्मताबलेन हेतोर्गमकत्वमपि त्वन्यथानुपपत्तिबलेनेति । सा चात्र नियमवती विपक्षे बाधकप्रमाणबलान्निश्चितैव । एतेन विरुद्धत्वमनैकान्तिकत्वं च निरस्तं बोद्धव्यम् । विरुद्धस्य व्यभिचारिणश्चाविनाभांवनियमनिश्चयलक्षणत्वायोगादतो भवत्येव साध्यसिद्धिरिति केवलव्यतिरेकिणोऽपि हेतोर्गमकत्वात् । सात्मकं जीवच्छरीरं प्राणादिमत्वादितिवत् ॥ अथेदानीं स्वोक्तप्रमाणलक्षणस्य ज्ञानमिति विशेषणं समर्थयमानः प्राहहिताहितप्राप्तिपरिहारसमर्थ हि प्रमाणं, ततो ज्ञानमेव तदिति । २ । w हितं सुखं तत्कारणं च । अहितं दुःखं तत्कारणं च । हितं चाहितं च हिताहिते । तयोः प्राप्तिश्च परिहारश्च तत्र समर्थम् । हिशब्दो यस्मादर्थे । तेनायमर्थः सम्पादितो भवति । यस्माद्धिताहितप्राप्तिपरिहारसमर्थ प्रमाणंPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 92