Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 384
________________ ३७८ पारस्करगृह्यसूत्रम्। [दशमी ख्याता वैतरणी नदी । त कामो ददाम्येतां तुभ्यं वैतरणी तु गाम् । ततः पुनर्देशकालावुच्चार्य अमुकसगोत्रायामुकशर्मणे ब्राह्मणाय तुभ्यममुकगोत्रोऽमुकशर्माहं यमद्वारस्थितवैतरणीनद्याः सुखोत्तरणार्थमिमां वैतरणीसंज्ञकां धेनुं सवत्सां विष्णुदैवतां सुवर्णशृङ्गी रौप्यखुरां ताम्रपृष्ठां कांस्यदोहनां कृष्णवस्त्रयुगच्छन्नां सप्तधान्यपट्टवस्त्रबद्धक्षुमयोडुपोपरिस्थितां वासच्छतोपानकांस्यघटोपवीतसंयुक्तां कासद्रोणस्थताम्रभाजनस्योपरिस्थितलोहदण्डहस्तहेममययससहितां गन्धाधर्चितां संप्रददे । भगवान्पापहा महाविष्णुः प्रीयताम् । ततः सुवर्णं तदशक्तौ वस्त्रयुग्मं वा सप्तधान्यानि वा दक्षिणां दद्यात् । ततः स्तुतिः । या लक्ष्मीः सर्वभूतानां या च देवेष्ववस्थिता । धेनुरूपेण सा देवी मम पापं व्यपोहतु । विष्णुरूप द्विजश्रेष्ठ भूदेव पतिपावन । सदक्षिणा मया दत्ता तुभ्यं वैतरणी च गौः। ततो धेनुप्रार्थना । घेनुके त्वं प्रतीक्षस्व यावदागमनं मम । त्वदानात्पावितो देवि.........| धेनुके त्वं प्रतीक्षस्व यमद्वारे महाभये । उत्तितीर्घरहं देवि वैतरण्यै नमो नमः । वैतरणीदानं परिपूर्णमस्त्विति प्रार्थ्य द्विशं प्रणमेत् । स्वयं दानाशक्तौ पुत्रादिर्दत्त्वा तस्मै श्रेयो दद्यात् । अथाऽष्टमहादाननिमित्तं विष्णुपूजनम् । तत्राद्यं तिलदानं-तिलाः श्वेतास्तिलाः कृष्णास्तिला गोमूत्रसन्निभाः। ते मे दहंतु पापानि शरीरेण कृतानि वै ॥ इमांस्तिलान्सोमदैवतान्गन्धाधर्चितान् विष्णोः प्रीत्यर्थ तिलदानफलावास्यर्थ वा कस्मैचिद्ोत्राय ब्राह्मणायेति । एवं सर्वेषु ॥१॥ ततो लोहदानम्-यस्मादायस कआणि तवाधीनानि नित्यशः । लाइलाद्यायुधादीनि ततः शांति प्रयच्छ मे । इदंलोहमग्निदैवतं ॥२॥ ततो हिरण्यदानं-हिरण्यगर्भगर्भस्त्वं हेम वीजं विभावसोः । अनन्तपुण्यफलदमतः शान्ति प्रयच्छ मे ।। इदं सुवर्णमग्निदेवतं ॥३॥ ततः कासिदानं-येन दत्वेन प्रीयन्ते भूर्भुवःस्वरिति क्रमात् । ब्रह्माद्या ऋषयः सर्वे शंकराद्या गणास्तथा । इन्द्राद्या देवताः सर्वाः कासेन तु तोपिताः ॥ इमं कर्पासं बृहस्पतिदैवतं ॥४॥ लवणदानं-यस्मादन्नरसाः सर्वे नोत्कृष्टा लवणं विना । पितृणां च प्रियं नित्यं तस्मात्स्वर्गप्रदं भव ॥ इदं लवणं विष्णुदैवतं यमादभयप्राप्त्यर्थ ॥ ५ ॥ ततः सप्तधान्यदानं-ब्रीहयो यवगोधूमा मुद्रा माषाः प्रियंगवः । तिलाश्च सप्तमाः प्रोक्ताः सप्तधान्यमुदाहृतम् । अथवा-यवगोधूमधान्यानि तिला कङ्गुस्तथैव च । श्यामाकं चीनकं चैव सप्तधान्यमुदाहृतम् । अन्नं प्रजापतिः साक्षादन्नमेव जनार्दनः । अन्नाद्भवन्ति भूतानि जगदन्नेन वर्धते । इदं सप्तधान्यं प्रजापतिदैवतं यमदूतप्रीत्यर्थम् ॥६॥ ततः भूमिदानं-समुद्रवसना देवी भूतधात्री च वैष्णवी । सा मे दहतु पापानि जन्मान्तरकतान्यपि।इमा भूमिं विष्णुदेवताम् ॥ ७॥ ततस्तिसृणां गवां दानम् । गावो ममाग्रतः संत्विति । इमास्तिस्रो गाः रुद्रदेवताः त्रिविधपापक्षयार्थम् ॥ ८॥ तिलादिपु सप्तदानेपु हिरण्यं दक्षिणा, हिरण्यदाने तु रजतमिति । पृथग्दानासंभवे समुदितानां संकल्पः । इमानि तिलादीन्यष्टौ महादानानि नानादेवतानि गन्धाधर्चितानि सदक्षिणानि तत्तदानफलप्राप्तये विष्णोः प्रीतये वा नानानामगोत्रेभ्य इत्यादि । समभ्यर्च्य हृषीकेशं पुष्पधूपादिभिस्तथा । प्रणिपातैः स्तवैः पुण्यैर्ध्यानयोगेन पूजयेत् । दत्त्वा दानं च विप्रेभ्यो दीनानाथेभ्य एव च । वन्धौ कलने पुत्रे च क्षेत्रधान्यधनादिपु । मित्रवर्गे च सर्वत्र ममत्वं विनिवर्तयेत् । ततः सति संभवे यथाशक्ति तिलधेन्वादिदानम् । अनवरतं विष्णुस्मरणम् । ततः पुत्रादिः पुरुपसूक्तोपनिपदादिकं भावयेत् । ततो गतप्राणं ज्ञात्वा पुनः पुत्रादेः स्नानम् । मृतशरीरं प्रक्षाल्याहते परिधानीयोत्तरीये परिधाय चन्दनेन प्रोक्ष्य पुष्पैरलकुर्यात् । दुर्मरणं चेत्यायश्चित्तम् । शृदिंष्ट्रनखिसर्पविपविद्युजलाग्निब्राह्मणान्त्यजचौरमारितस्य मरणे दोपशक्त्यनुसारेण वि. गुपूजनपूर्वकं त्रीन् पड् द्वादश पञ्चदश वा प्राजापत्यान्विप्राज्ञया कृत्वा गवादितत्प्रत्याम्नायदानेन वा शुद्धिं संपाद्य दाहादि कुर्यात् । एवं मुमूर्पोरपि पापसंभवे तदनुरूपप्रायश्चित्तानन्तरमेव वैतरण्यादिदानाविकारः । दाहकर्नापि स्वपापानुरूपप्रायश्चित्तानन्तरमेव दाहादि कार्य । लोभादिना चेत्या

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560