Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 492
________________ ४८६ पारस्करगृह्यसूत्रम् । [श्राद्धसूत्र वलि च निक्षिपेत्तस्मादोजनं च समाचरेत् । मौनेन दृश्यते सूर्यो यावत्तावन्नराधिप । यश्चैवास्तमिते सूर्ये भुते च श्राद्धकन्नरः । व्यर्थतां याति तच्छ्राद्धं तस्माद्रात्रौ न भोजयेदिति । नियमानाह वृहस्पतिः-तां निशां ब्रह्मचारी स्याच्छ्राद्धकृच्छ्राद्धिकैः सहः । अन्यथावर्तमानौ तौ स्यातां निरयगामिनाविति । पुनर्भोजनमध्वानं यानमायासमैथुनम् । श्राद्धकृच्छ्राद्धभुक् चैव सर्वमेतद्विवर्जयेत् । स्वाध्यायं कलहं चैव दिवा स्वप्नं च स्वेच्छया । आद्धिनो विशेपमा यमः-पुनर्मोजनमध्वानं भारमायासमैथुनम् । सन्ध्यां प्रतिग्रह होमं श्राद्धभुक्त्वष्ट वर्जयेत् । सन्ध्याहोमप्रतिपेधावकृतप्रायश्चित्तविपयौ । दशकृत्वः पिवेचापो गायन्या श्राद्धभुग द्विजः । ततः सन्ध्यामुपासीत जपेच जुहुयादपीति भविष्यत्पुराणवचनात् । वृद्धयाजवल्क्यः-अध्वनीनो भवेदश्वः पुनर्भोजी तु वायसः । होमकृन्नेत्ररोगी स्यात्पाठादायुः प्रहीयते । दानं निष्फलतामेति प्रतिग्राही दरिद्रताम् । कर्मकृज्जायते दासो मैथुनी सूकरो भवेदिति । स्वबुद्धिकल्पितं नेह वचनं लिखितं मया । दृष्टं श्रुतं समूलं वा न वा स्यान्मे न दूपणम् । इष्टं यत्स्वल्पदीपु निवन्धेपु तदाहतम् । श्रुतं स्मृत्यविरुद्धं यत्तत्पठन्तीत्युदाहतम् । प्रमाणमप्रमाणं वा सर्वज्ञः कर्तुमर्हति । पृष्ठे (?) श्रुते न विश्वासो मादृशैः कर्तुमिष्यते ॥३॥ इत्यावसथिकथीमदतिसुखात्मजश्रीविष्णुमित्रात्मजन्मनः कृष्णमिश्रस्य कृतौ श्राद्धकाशिकायामापर- . पक्षिकं पार्वणश्राद्धम् ॥ अथैकोद्दिष्टमेकोऽर्घ एक पवित्रमेक: पिण्डो नावाहनं नाग्नौकरणं नात्र विश्वेदेवाः स्वदितमिति तृप्तिप्रश्नः । सुवदितमितीतरे ब्रूयुरुपतिष्ठतामित्यक्षय्यस्थानेऽभिरम्यतामिति विसर्गोऽभिरताः स्म इतीतरे ॥४॥ (कर्कः)- अथकोद्दिष्टम् । व्याख्यास्यत इति सूत्रशेषः । तचैकमेवोदिश्य क्रियत इत्यन्वर्थसंज्ञेषा । ' एकोऽर्थः । एक एवार्थः स्यात् । एकार्यश्रवणात् पात्रमेकमिति गम्यते । अतः प्रथमशब्दानुपपत्तेः पितृभ्यः स्थानमसीत्यस्यानुपपन्नत्वात् संस्रवबहुत्वाभावाच न पात्रन्युजता । ' एकं पवित्रमेकः पिण्डः' एकदेवताकत्वात् । पवित्रं तु शास्त्रात् । ' नावाह"तीतरे' इतरशब्देन ब्राह्मणा अभिधीयन्ते । शेषं निगदव्याख्यातम् । तचैतदैवं स्यात् । स्मृत्यन्तरात् । अदैवं भोजयेच्छ्राद्धमिति स्मृतेः । तथा च एकादश्यामयुग्मान् ब्राह्मणान् भोजयेदित्ययुग्मता प्राप्तव पुनरयुग्मताग्रहणाददैवमिति गम्यते । तत्र यावत्सपिण्डीकरणालाक् श्राद्धं तत्सर्वमेकोहिष्टम् , ऊर्व तु पार्वणश्राद्धमन्यत्राभ्युदयात् । स्मृत्यन्तरात् " प्रदानं यत्र यत्रैषां सपिण्डीकरणात्परम् । तत्र पार्वणवत्सर्वमन्यत्राभ्युदयाहते" इति । तथाऽपरम्-सपिण्डक्रियायां तु कृतायामस्य धर्मतः । अनयैवावृता कार्य पिण्डनिर्वपणं सुतैरिति । अनयैवेति प्रकृतत्वात् सपिण्डक्रिययोच्यते । तथा च हारीतः-सहपिण्डे कृते प्रेते पृथक्त्वन्नोपपद्यते । पृथक्त्वे तु कृते तस्य पुनः कार्या सपिण्डता । तथोशनाश्च | अर्वा संवत्सराद् वृद्धेः पूणे संवत्सरेऽपि वा । ये सपिण्डीकृताः प्रेता न तेषां हि पृथक्रिया ॥४॥ ___ (गदाधरः)-सर्वश्राद्धप्रकृतिभूतं पार्वणमुक्त्वाऽधुना विकृतिभूतमेकोद्दिष्टमारभ्यते । अथैकोद्दिष्टम् । अथ पार्वणानन्तरमेकोहिष्टं व्याख्यास्यते । अथान्वर्थसंज्ञा चैषा । एकमुद्दिश्य यकियते तदेकोद्दिष्टमिति । 'एकोऽर्घ एक पवित्रमेकः पिण्डः । अस्मिन्नेकोद्दिष्टे एकोऽर्घः एक पवित्रमेक: पिण्डश्च स्यात् । अर्घस्यैकत्वश्रवणात्पात्रमप्येकमिति ज्ञायते । अतः प्रथमशब्दस्यानुपपत्तेः पितृभ्यः स्थानमसीत्यस्यानुपपन्नत्वात्संस्रवस्य बहुत्वाभावाचान पात्रन्युजीकरणाभावः । ' नावाहनं नाग्नौकरणं नात्र विश्वेदेवाः स्खदितमिति तृप्तिप्रभः । सुखदितमितीतरे युरुपतिष्ठतामित्यक्षय्यस्थानेऽभिरम्यता

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560