Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 502
________________ ४९६ पाररकरगृह्यसूत्रम् । [श्राद्धसूत्र रहितश्राद्धे तन्निषेधात् । तदुक्तं-वधावाचनलोपोऽस्तीति प्राक् । अतश्चास्मत्पित्रे अमुकशर्मणे अमुकगोत्राय स्वधोच्यतानिति प्रयोगः । अत्रैक आहुः--प्रथमपात्राभावात्संबस्रवत्रहुत्वाभावाच पितृभ्यः स्थानमसीति मन्त्रानुपयुक्तत्वाच नात्र तत्पात्रमिति । तद्युक्तम् । एकोद्दिष्टे अस्य विहितत्वात् । यत्तु कर्कोपाध्यायैर्न पात्रन्युन्जीकरणमित्युक्तं तदन्यथैवोपपाद्यते । पात्रं न्युजं न कर्तव्यं किन्तूत्तानमेव निधेयमिति । अस्ति च पात्राभावन्युजलाभावयोमहान भेदः । अतो अर्थानवबोधात्तदयुक्तमित्युक्तम् । तथा च स्कन्दसंवाद-एकोद्दिष्ट न कुर्वीत स्कन्द पात्रमधोमुखम् । नोल्यापयेच तत्पात्रं यावच्छ्राद्धविसर्जनम् । अन्तरोत्यापिते पात्रे श्राद्धं संपद्यते तयेति । तस्मात्स्वधावाचनीयानास्तीर्य स्ववावाचनं कर्तव्यमिति सूक्तम् । स्वदितमिति तृप्तप्रश्न उपतिष्टवामित्यश्य्यस्थाने अभिरभ्यतामिति विसर्गः । अत्र नेत्यनुवृत्ती मण्डूकप्लुतिन्यायेन पूर्वसूत्रोक्तो विधिरवात्रानुपज्यते । तेन तृप्ताः स्येति प्रश्ने स्वदितमक्षय्यमस्त्वित्यत्रोपतिष्ठतां बाजे बाजे वतेत्यत्राभिरम्यतामिनि विसर्गो भवतीति वाक्यशेपः ।अतश्चैतत्पुराणकोहिष्टमित्युक्तं प्रेतकोहिष्टे तदभावात् । अथ क्षयाहे किं पार्वणं कार्यमेकोदिष्टं वेति संदिह्यते । उभयया वचनदर्शनात् । तथा हि जातूकठ:-पितुः पितृगणस्यस्य कुर्यात्यावणवत्सुतः । सर्वदा दर्शवच्छ्राद्धं मातापित्रोः क्षयेऽहनीति ! शातातपः-प्रदानं यत्र यत्रैपा सपिण्डीकरणात्परम् । तत्र पार्वणवच्छ्राद्धं नेयमभ्युदयात । तया-अकि संवत्सरादुद्धी पूर्ण संवत्सरेऽपि वा।ये सपिण्डीकृताः प्रेता न तेषां तु पृथक् क्रियेति । एकोद्दिष्टे तु यमः-सपिण्डीकरणादूर्व प्रतिसंवत्सरं सुतैः । मात्रापित्रोः पृथक् कार्यमेकोद्दिष्टं मृतेऽहनि । व्यासोऽपिएकोद्दिष्टं परित्यज्य पार्वणं कु. रुते नरः । अकृतं तद्विजानीयानवेच पितृघातकः । एकोहिष्टं परित्यज्य पार्वणं य: समाचरन् । सदैव पितृहा स स्यान्मातृभ्रातृविनाशकः । मृताहे पार्वणं कुर्वन्नधोऽधो याति मानवः । संपृक्तेष्वाकुलीभावः प्रेतेषु तु ततो भवेदिति । अत्र विरोघे ह्येक आहुःद्वादशपुत्रेवौरसक्षेत्रजपुत्री पार्वणं कुर्यातामन्ये दशैकोहिष्टमिति । तथा च जातकर्ण्य:-प्रत्यव्दं पार्वणेनैव विधिना क्षेत्रचौरसौ । कुर्यातामितरे कुर्युरेकोद्दिष्टं सुता दश । औरसः क्षेत्रनः पुत्रो विधिना पावणेन तु । प्रत्यन्दमितरं कुर्युरकोष्टिं सुता दश ॥ इति विशेषोल्लेखादिति । तदयुक्तम्-प्रत्यदमित्यनेन क्षयाहव्यतिरिक्ताक्षयतृतीयादिविषयत्वावगतः । एकोद्दिष्टं तु कर्तव्यमौरसेन मृतेऽहनि । सपिण्डीकरणादू मातापित्रोर्न पार्वणमिति पैठीनसिवचनविरोधाच । एवं च सति मृताहे पार्वणैकोहिष्टयोरुभयोरपि पक्षप्राप्तत्वात्-अमायां वा क्षयो यस्य प्रेतपक्षेऽयवा भवेत् । सपिण्डीकरणादूर्ध्व तस्योक्त: पार्वणो विधिरिति शङ्खवचनेन दर्शप्रेतपक्षमृतयोरेव पार्वणस्य नियतत्वात्तत्र मृतयोरेव पार्वणमन्यत्र मृतयोरेकोहिष्ठमिति विनानेश्वरप्रभृतयः । अन्ये तु द्वादशविधपुत्रेचौरसक्षेत्रजपुत्रौ विशेषस्तत्रापि सामित्वं तत्रापि दर्शापरपक्षमृतिरित्येवं विशेषोपसंहारपरंपरया पुरोडाशाग्नेयवद्विशेषोपसंहारपर्यवसानादर्शापरपक्षमृतावपि सान्यौरसक्षेत्रजावेव पार्वणं कुर्यातां न निरग्निपुत्रा इति वर्णयन्ति । तदेतद्विचारणीयम् । कि नियमप्रतिपादनं न्याय्यभुत विशेयोपसंहार इति । तत्र यदि नियमप्रतिपादनं न्याय्यमित्युच्यते तदा दर्शापरपक्षमृति विनाऽपि साग्नेः पार्वणविधानमनर्थकं स्यात् । यथाह सुमन्तुः-प्रत्यब्दमितरे कुयुरकोद्दिष्टं सुता दश । अनग्निमानौरसश्च कुर्यात्साग्निस्तु पार्वणम् । पुलस्त्योऽपि-अनग्नेरौरसस्योक्तमेकोद्दिष्टं मृतेऽहनि । प्रत्यब्दं पार्वणं साग्नेरन्येपां तु न पार्वणमिति । अथ विशेयोपसंहारो न्याय्यस्तर्हि साग्नेरेव पार्वणस्य विहितत्वात् । दर्शापरपक्षमृतावपि तस्यैव पार्वणं निरग्नेनातोमायां वा क्षयो यस्येति वाक्यं साग्निविषयमेवोपसंहरणीयमिति विशेषोपसंहार एव युक्तः प्रतिभाति । तथा च श्राद्धकल्पलतायां-इन्दुक्षये प्रेतपक्षे विपत्तिश्चेहिजन्मनः । साग्निकः पार्वर्ण कुयो। देकोदिष्टं निरग्निकः । इति । तस्मादौरसस्यैव कलौ प्रचुरत्वात्स एव साग्निापरपक्षमृती पार्वणं

Loading...

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560