Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 507
________________ कण्डिका ५ ] परिशिष्टम् । ५०१ कथमाहिताग्निः सामान्येनाग्निमद्वाचकत्वात् । उच्यते--- यथा हितानौ प्रेते निरग्निः कर्ता तथा निरनौ प्रेते आहिताग्निः कर्तेति शंकाया विद्यमानत्वात् । यजमानोऽग्निमान्राजन् प्रेतश्चानग्निमान् भवेत् । द्वादशाहे तदा कार्य सपिण्डीकरणं सुतैः, इति भविष्यत्पुराणवचनेऽग्निमच्छन्दवभूग्निमनुपोशासना (?) - दाहिताग्निवाचकत्वसंभवाच्च । न चानग्निराहिताग्निश्च समानधर्मेत्युचितम् । किं च - सपिण्डीकरणं कुर्याद्यजमानस्त्वनग्निमान् । अनाहिताः प्रेतस्य पूर्णेऽदे भरतर्पमेति भविष्यवचने स्मार्ताग्नेः प्रेतस्य कालान्तरेण विषयान्तरस्योपलब्धत्वात् । उभयोरामित्वे (?) साग्नित्वे वचनं - सान्निकस्तु यदा कर्ता प्रेो वाऽप्यग्निमान्भवेत् । द्वादशाहे सदा कार्य सपिण्डीकरणं पितुरिति । अत्रापि वाशब्दः आहिताभ्यनाहिताग्निविषयत्वेन व्यवस्थितार्थः । ततश्च निरग्नौ प्रेते स्मार्ताग्निः कर्ताऽऽशौचान्ते, स्मार्तानौ प्रेते निरग्निः कर्ता पूर्णेव्दे, आहिताग्नौ प्रेते निरग्निः कर्ता त्रिपक्षे, निरग्नौ प्रेते आहिताग्निः कर्ता द्वादशाह एव पोडशश्राद्धानि कृत्वा सपिण्डीकरणं कुर्यादिति मुख्योऽर्थः । तथा च वृहन्मनुः --- द्वादशेऽहनि विप्राणामाशौचान्ते तु भूभृताम् । वैश्यानां च त्रिपक्षादावसथस्यात्सपिण्डनमिति । बाशब्दः स्मृत्यन्तरोक्तव्यवस्थायाम् । अतश्च साग्नीनामिति शेषः । अथवाहिताग्न्यनाहिताग्निशब्दावेतौ साग्निनिरग्निपरौ । तेन साग्निके कर्तरि चैकादशाहकालयोर्दर्शानुरोधेन नियमः । तथा च संग्रहकारः -- द्वादशाहादिकालेषु सपिण्डीकरणेष्विमे । साग्न्यनभित्वविधयः कर्तुरेव नियामका इति । अतश्च पिण्डपितृयज्ञानुरोधात्साग्नेरेव द्वादशाहादिकालकर्तृत्वेन निरग्नेरित्युक्तं भवति । तथा च गालवः --- सपिण्डीकरणात्येते पैतृकं पदमास्थिते । आहिताग्नेः सिनीवाल्यां पितृयज्ञः प्रवर्तत इति । आहिताग्ने: सिनीवाल्यामिति च सांग्निदर्शयोरुपलक्षणम् । प्रमादात्कालातिक्रमे तु गोभिल:-- द्वादशाहादिकालेषु प्रमादादननुष्ठितम् । सपिण्डीकरणं कुर्यात्काले पूत्तरभाविषु । उत्तरभाविपु त्रिपक्षादिपु । यदहर्वेत्युभयोरप्यनग्नित्व विषयम् । वृद्धेः पूर्वमित्यर्थः । असपिण्डितस्य वृद्धौ दानानत्वात् । वाशब्दः स्मृत्यन्तरोक्तकालसमुचये । तथा च वैौधायनः -- अथ सपिण्डीकरणं संवत्सरे पूर्णे त्रिपक्षे वा तृतीये वा मासि पष्ठे वैकादशे वेति । भविष्येऽपि --- द्वादशाहे त्रिपक्षे वा पण्मासे वा त्रिमासि च । एकादशे वाऽपि मासि मङ्गले वा उपस्थिते । इति । मङ्गल इति वृद्धौ । अत्रोत्तरोत्तरकाले वृद्धिसंभवे पूर्वपूर्वकाले वृद्धयनुरोधेन सपिण्डीकरणं कुर्यादित्यर्थः । एवं च सत्युभयोरनग्नित्वे वृद्धयनुरोधेनैव संवत्सरादर्वाक्सपिण्डीकरणापकर्षोऽन्यथा नेत्युक्तं भवति । तथा च शाट्यायनः -- प्रेतश्राद्धानि सर्वाणि सपिण्डीकरणं तथा । अपि च नागरखण्डे -- ततः सपिण्डीकरणं वत्सरादूर्ध्वतः स्थितम् । वृद्धिर्वागामिनीचेत्स्यात्तदार्वागपि कारयेत् । उशनाऽपि - पितुः सपिण्डीकरणं वार्षिकं मृतवत्सरे । आधानाद्युपसंप्राप्तावेतत्प्रागपि वत्सरादिति । आदिशब्दस्तीर्थलोभाद्यर्थः । वाराणस्यां कुरुक्षेत्रे गयायां तीर्थोभतः । सपिण्डता द्वादशाहे मार्गे सार्थे तु निर्गते । इति वचनात् । ततः संवत्सरे पूर्णे इति सूत्रं केचिदन्यथैव व्याचख्युस्तत्र विपयव्यवस्थाभावान्नादरोऽस्माकम् । न च कात्यायनः अथातोऽधिकार इत्यारभ्य श्रौतस्मार्तकर्माणि श्रताग्निस्मार्ताग्निमद्विषयाण्यभिधाय सपिण्डीकरणमेव केवलं साग्निविपयमेवाह स्मेति संभावनीयम् । अतो मदुक्ताऽपि व्यवस्था सूत्रस्येति मामनुकंपय विपश्चितः सहन्ताम् । न चेयं व्यवस्था सूत्रस्य न घटत इत्याशङ्कनीयम् । ऋषिप्रणीतत्वेन सूत्रस्य महनार्थत्वात् । तस्मादा हिताग्न्यनाहिताग्निनिरग्निविपयत्वेनोक्चैव व्यवस्थेति सिद्धम् । अत्र कश्चिद्भाष्यकृदाह-वर्ष - पर्यन्तं सर्वकर्मलोपभयात्, आनन्त्यात्कुलधर्माणां पुंसां चैवायुषः क्षयात् । अस्थितेश्च शरीरस्य द्वादशाहः प्रशस्यत इति वचनाच्चापकर्षपक्ष एव शोभन इति । तद्वहुस्मृतिवैयर्थ्यान्नादरणीयम् । अन्तरेणैव यो वृद्धिमित्यनेन प्रत्यवायोपलब्धे । आनन्त्यात्कुलधर्माणां शरीरस्यास्थितेश्चेति हेतुद्रयोपन्यासादस्य वचनस्य कुलधर्मपरत्वादश करोगिकर्तृविषयत्वावगमाच । कि च सति संभवेऽन्तिमपिण्डस्य वर्षांन्त एव

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560