Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 508
________________ ५०२ पारस्करगृह्यसूत्रम्। [श्राद्धसूत्रसमापनविधानात् । तथा च पूर्णे संवत्सरे पिण्डः पोडाः परिकीर्तित इति । पिण्डः श्राद्धोपलक्षकः । एवं कालमभिधाय प्रयोगमाह-'चत्वारि पात्राणि सतिलगन्धोदकानि पूरयित्वा त्रीणि पितृणामेकं प्रेतस्या पात्राण्यपात्राणि । त्रिभ्योऽत्र दानं न पड्भ्य इति चत्वारीत्युक्तम् । सतिलेत्यत्र वहुव्रीहिगैव तिलयुक्तत्वे लब्धे सदेशोपादानं (2) मन्त्रराहित्यद्योतनार्थम् । अथवा तिलोऽसि प्रेतदेवत्य इति प्रेतपाने मन्त्रविपरिणामार्थम् । तथा चैकादशाहश्राद्धे रेणु:-तिलोऽसि प्रेतदेवत्यः प्रेताल्लोकाहिनोत्तकम् (1) । मन्त्रमुक्त्वा तिलानेव प्रक्षिपेदर्घपात्रतः । इति । त्रीणि पितृणामेकं प्रेतस्येति क्रमवृद्धिः । तेन वैश्वदेवकृत्यानन्तरं पित्र्यमुक्त्वा ततः प्रेतकृत्यमित्यर्थः । अत्रैके वर्णयन्ति-वैश्वदेवकृत्यानन्तरं प्रेतकृत्यं, ततः पितृकृत्यमिति । एकोदिष्टस्य सपिण्डीकरणान्तर्भावात् । तथा च वैजवापःचत्वार्युदकपात्राणि प्रयुनक्ति, तत्रैक प्रेताय त्रीणि पितृभ्य इति । तदयुक्तम्-सूत्रोक्तक्रमस्य वैय र्थ्यात् । न च वैजवापवचनं वाजसनेयिविपयम् । वहृचविपयत्वात् । तथा च तत्सूत्रम् । चत्वायुदकपात्राण्येकं मृतस्य त्रीणीतरेपामिति । अतोऽत्र विषयानववोधादयुक्तमित्युक्तम् । तथा च कठश्रुति:दत्त्वा पिण्डान्पितृभ्यस्तु पश्चात्ताय पार्श्वतः । तन्तुपिण्डं त्रिधा कृत्वा चानुपूर्व्या च संततम् । निदध्यात्रिपु पिण्डेपु एप संसर्जने विधिः । चतुर्थ पिण्डमुत्सृज्य, त्रिधा कृत्वा पिण्डेपु निदध्यादिति लौगाक्षिवचनेऽपि चतुर्थपिण्डस्य पश्चादानप्रतीतेः । न चैकोद्दिष्टस्य दैवपूर्वत्वंयुक्तम् । तथा च शातातपःसपिण्डीकरणश्राद्धं दैवपूर्व न योजयेत् । पितृनेवाशयेत्तत्र पुनः प्रेतं च निर्दिशेत् । इति । यत्तु प्रेतपूर्वकं पित्र्यश्राद्धमाचरन्ति तान्तिनिवन्धनमित्युपेक्षणीयम् । तथा च मार्कण्डेयपुराणम्तिलगन्धोदकैर्युक्तं तत्र पात्रचतुष्टयम् । कुर्यापितॄणां त्रितयमेकं प्रेतस्य पुत्रक । धर्मप्रदीपेऽपिश्राद्धद्वयमुपक्रम्य कुर्वीत सह पिण्डनम् । तयोस्त्रिपुरुपं पूर्वप्रेतश्राद्धानुष्ठानविपयं कचित्तथाचरणात् वढचविपयं वा । तस्मात्पूर्वोक्त एव क्रम इति सिद्धम् । अत्र च पितृणामित्यत्रैकशेपसमासान्मात्रादीनामपीति गमयितव्यम् । व्युत्क्रममृतावपि पूर्वजत्रिकपूर्णेन सपिण्डनं कर्तव्यम् । तेनैवोत्तरश्राद्धाहत्वात् । तथा च हारीतः ततः प्रभृति वै प्रेतः पितृसामान्यमाप्नुयात् । विन्दते पितृलोकं च ततः श्राद्धं प्रवर्तते । तथा पितृलोकं गतश्चान्तं मुंक्ते श्राद्धं स्वधासमम् । पितृलोकगतस्यास्य तस्माच्छ्राद्धं प्रयच्छतेति । ब्रह्मपुराणेऽपि-मृते पितरि यस्याथ विद्यते च पितामहः । तेन देयाखयः पिण्डाः प्रपितामहपूर्वकाः । तेभ्यश्च पैतृकः पिण्डो नियोक्तव्यश्च पूर्ववत् । मातयथ मृतायां तु विद्यते च पितामही । प्रपितामहीपूर्व तु कार्यस्तत्राप्ययं विधिरिति । यत्तु मनुनोक्तम्-व्युत्क्रमाच प्रमीतानां नैव कार्या सपिण्डतेति । तन्मात्रादित्रयव्यतिरिक्तविपयम् । तथा च स्कन्दपुराणम्-अक्रमेण मृतानां न सपिण्डीकृतिरिष्यते । यदि माता यदि पिता भर्ती नैप तदा विधिरिति । एप विधियुक्रममृतौ सपिण्डनिपेधविधिरित्यर्थः । सुमंतुः-त्रयाणामपि पिण्डानामेकेनापि सपिण्डने । पितृत्वमनुते प्रेत इति धमों व्यवस्थितः । इति । अत्रैतचिन्त्यते-किमपुत्रस्य सपिण्डीकरणं स्यादुत नेति । तत्रैके कर्कादय आहुनेंति । तथा च गृह्यम्-पिण्डकरणे प्रथमः पितॄणां प्रेतः स्यात्पुनवांश्चेदिति । स्मृतिरपि-अपुत्रस्य परेतस्य नैव कुर्यात्सपिण्डनम् । अशौचमुदकं पिण्डमेकोद्दिष्टं न पार्वणमिति । अन्ये त्वपुत्रस्यापि भवतीत्याहुः । तथा च रेणु:-भ्राता वा भ्रातपुत्रो वा सपिण्डः गिप्य एव वा । सपिण्डीकरणं कुर्यात्पुत्रहीने मृते सति । भ्रात्रादिभिरपुत्रस्य सपिण्डीकरणे कृते । एकोद्दिष्टं नियमतः कार्य तस्यैव सर्वदेत्यादि । एवं द्वैधे सति करणे उपकारोऽकरणे प्रत्यवायो नेति केचिन् । आपदनापद्विपयत्वेन व्यवस्थेत्यन्ये । एतदुभयमप्यविचारितरमणीयम् । कर्कादिपत्रे सापत्यापुत्रस्य असपिण्डने दौहित्रकर्तृकपार्वणादौ असपिण्डितम्य दानानहत्वापत्तेः । विधायकवचनस्तस्य वाधितत्वाच । द्वितीयपक्षे तूक्तव्यवस्थापने सपिण्डनस्यानियतत्वेन प्रात्यानहत्वदोपसद्भावापत्तेः ।

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560