________________
५०२ पारस्करगृह्यसूत्रम्।
[श्राद्धसूत्रसमापनविधानात् । तथा च पूर्णे संवत्सरे पिण्डः पोडाः परिकीर्तित इति । पिण्डः श्राद्धोपलक्षकः । एवं कालमभिधाय प्रयोगमाह-'चत्वारि पात्राणि सतिलगन्धोदकानि पूरयित्वा त्रीणि पितृणामेकं प्रेतस्या पात्राण्यपात्राणि । त्रिभ्योऽत्र दानं न पड्भ्य इति चत्वारीत्युक्तम् । सतिलेत्यत्र वहुव्रीहिगैव तिलयुक्तत्वे लब्धे सदेशोपादानं (2) मन्त्रराहित्यद्योतनार्थम् । अथवा तिलोऽसि प्रेतदेवत्य इति प्रेतपाने मन्त्रविपरिणामार्थम् । तथा चैकादशाहश्राद्धे रेणु:-तिलोऽसि प्रेतदेवत्यः प्रेताल्लोकाहिनोत्तकम् (1) । मन्त्रमुक्त्वा तिलानेव प्रक्षिपेदर्घपात्रतः । इति । त्रीणि पितृणामेकं प्रेतस्येति क्रमवृद्धिः । तेन वैश्वदेवकृत्यानन्तरं पित्र्यमुक्त्वा ततः प्रेतकृत्यमित्यर्थः । अत्रैके वर्णयन्ति-वैश्वदेवकृत्यानन्तरं प्रेतकृत्यं, ततः पितृकृत्यमिति । एकोदिष्टस्य सपिण्डीकरणान्तर्भावात् । तथा च वैजवापःचत्वार्युदकपात्राणि प्रयुनक्ति, तत्रैक प्रेताय त्रीणि पितृभ्य इति । तदयुक्तम्-सूत्रोक्तक्रमस्य वैय
र्थ्यात् । न च वैजवापवचनं वाजसनेयिविपयम् । वहृचविपयत्वात् । तथा च तत्सूत्रम् । चत्वायुदकपात्राण्येकं मृतस्य त्रीणीतरेपामिति । अतोऽत्र विषयानववोधादयुक्तमित्युक्तम् । तथा च कठश्रुति:दत्त्वा पिण्डान्पितृभ्यस्तु पश्चात्ताय पार्श्वतः । तन्तुपिण्डं त्रिधा कृत्वा चानुपूर्व्या च संततम् । निदध्यात्रिपु पिण्डेपु एप संसर्जने विधिः । चतुर्थ पिण्डमुत्सृज्य, त्रिधा कृत्वा पिण्डेपु निदध्यादिति लौगाक्षिवचनेऽपि चतुर्थपिण्डस्य पश्चादानप्रतीतेः । न चैकोद्दिष्टस्य दैवपूर्वत्वंयुक्तम् । तथा च शातातपःसपिण्डीकरणश्राद्धं दैवपूर्व न योजयेत् । पितृनेवाशयेत्तत्र पुनः प्रेतं च निर्दिशेत् । इति । यत्तु प्रेतपूर्वकं पित्र्यश्राद्धमाचरन्ति तान्तिनिवन्धनमित्युपेक्षणीयम् । तथा च मार्कण्डेयपुराणम्तिलगन्धोदकैर्युक्तं तत्र पात्रचतुष्टयम् । कुर्यापितॄणां त्रितयमेकं प्रेतस्य पुत्रक । धर्मप्रदीपेऽपिश्राद्धद्वयमुपक्रम्य कुर्वीत सह पिण्डनम् । तयोस्त्रिपुरुपं पूर्वप्रेतश्राद्धानुष्ठानविपयं कचित्तथाचरणात् वढचविपयं वा । तस्मात्पूर्वोक्त एव क्रम इति सिद्धम् । अत्र च पितृणामित्यत्रैकशेपसमासान्मात्रादीनामपीति गमयितव्यम् । व्युत्क्रममृतावपि पूर्वजत्रिकपूर्णेन सपिण्डनं कर्तव्यम् । तेनैवोत्तरश्राद्धाहत्वात् । तथा च हारीतः ततः प्रभृति वै प्रेतः पितृसामान्यमाप्नुयात् । विन्दते पितृलोकं च ततः श्राद्धं प्रवर्तते । तथा पितृलोकं गतश्चान्तं मुंक्ते श्राद्धं स्वधासमम् । पितृलोकगतस्यास्य तस्माच्छ्राद्धं प्रयच्छतेति । ब्रह्मपुराणेऽपि-मृते पितरि यस्याथ विद्यते च पितामहः । तेन देयाखयः पिण्डाः प्रपितामहपूर्वकाः । तेभ्यश्च पैतृकः पिण्डो नियोक्तव्यश्च पूर्ववत् । मातयथ मृतायां तु विद्यते च पितामही । प्रपितामहीपूर्व तु कार्यस्तत्राप्ययं विधिरिति । यत्तु मनुनोक्तम्-व्युत्क्रमाच प्रमीतानां नैव कार्या सपिण्डतेति । तन्मात्रादित्रयव्यतिरिक्तविपयम् । तथा च स्कन्दपुराणम्-अक्रमेण मृतानां न सपिण्डीकृतिरिष्यते । यदि माता यदि पिता भर्ती नैप तदा विधिरिति । एप विधियुक्रममृतौ सपिण्डनिपेधविधिरित्यर्थः । सुमंतुः-त्रयाणामपि पिण्डानामेकेनापि सपिण्डने । पितृत्वमनुते प्रेत इति धमों व्यवस्थितः । इति । अत्रैतचिन्त्यते-किमपुत्रस्य सपिण्डीकरणं स्यादुत नेति । तत्रैके कर्कादय आहुनेंति । तथा च गृह्यम्-पिण्डकरणे प्रथमः पितॄणां प्रेतः स्यात्पुनवांश्चेदिति । स्मृतिरपि-अपुत्रस्य परेतस्य नैव कुर्यात्सपिण्डनम् । अशौचमुदकं पिण्डमेकोद्दिष्टं न पार्वणमिति । अन्ये त्वपुत्रस्यापि भवतीत्याहुः । तथा च रेणु:-भ्राता वा भ्रातपुत्रो वा सपिण्डः गिप्य एव वा । सपिण्डीकरणं कुर्यात्पुत्रहीने मृते सति । भ्रात्रादिभिरपुत्रस्य सपिण्डीकरणे कृते । एकोद्दिष्टं नियमतः कार्य तस्यैव सर्वदेत्यादि । एवं द्वैधे सति करणे उपकारोऽकरणे प्रत्यवायो नेति केचिन् । आपदनापद्विपयत्वेन व्यवस्थेत्यन्ये । एतदुभयमप्यविचारितरमणीयम् । कर्कादिपत्रे सापत्यापुत्रस्य असपिण्डने दौहित्रकर्तृकपार्वणादौ असपिण्डितम्य दानानहत्वापत्तेः । विधायकवचनस्तस्य वाधितत्वाच । द्वितीयपक्षे तूक्तव्यवस्थापने सपिण्डनस्यानियतत्वेन प्रात्यानहत्वदोपसद्भावापत्तेः ।