________________
कण्डिका ५]
परिशिष्टम् । तस्मादपुत्रशब्देनानपत्यस्य विवक्षितत्वात्करणं सापत्यविषयमकरणं चानपत्यविषयमिति व्यवस्थेत्यविरोधः । प्रेतपानं पित्र्येष्वासिञ्चति ये समाना इति द्वाभ्यां' पात्रं पात्रोदकम् । तेन कर्ता येसमाना इति ऋद्वयेन प्रेतार्बोदकं पितृपात्रेष्वासिञ्चति जलेन संस्कुर्यादित्यर्थः । अत्र संस्कारप्रयोजकत्वापूर्वमासिच्य पश्चापितृपूर्व चतुर्योऽर्षदानमिति क्रमः । अत्रैतत्संदिह्यते-प्रेतशब्देन किं चतुर्थः पुरुषोऽभिप्रेतः उताहो नवमृत इति । उभयथाऽपि वचनदर्शनात् । तथा हि वृद्धयाज्ञवल्क्यः -- वृद्धस्यैव तु यत्पात्रं तरिसञ्चेत्प्रपितामहे । तत्सुते सिञ्चयेत्पात्रं तत्सुते सिञ्चयेत्पुनः । वृद्धवसिठच-नवातीतार्चपात्रं च पिण्डश्च परिकीर्यते । पितृपात्रेषु पिण्डेपु सपिण्डीकरणं तु तदिति । तथा निबन्धकृतोऽपि विश्वरूपप्रभृतयः केचित्प्रकर्षेणेतो मृतः प्रेत इति व्युत्पत्त्या चतुर्थस्यार्थपिण्डयोत्रिपाकरणेन सेकमेलनाभ्यामपि पिण्डत्रयस्यैकीकरणम् , नवमृतस्यापि अपेपिण्डयोखिधाकरणेन पिण्डत्रयमेलनमित्येवं संशयः । अत्रैक आहुः-उभयशास्त्रत्वाच विकल्प एवेति । अत्र ते प्रष्ठव्याः । किं विकल्पः साधीयानुत व्यवस्थेति । तत्र यदि विकल्पः साधीयानित्युच्यते तदाष्टदोषदुष्टत्वं संभवति । अथ व्यवस्था साधीयसी तर्हि संभवे दोषाभावात्सैव ग्राह्या । न च व्यवस्थासंमवेऽष्टदोषदुष्टो विकल्पो मीमांसकमृग्यः । तस्माब्यवस्थैव ग्राह्येति । तथा चाङ्गिराः-प्रमाणानि प्रमाणः परिकल्प्यानि यत्नतः । सीदन्ति हि प्रमाणानि प्रमाणैरव्यवस्थितैः । वसिष्ठोऽपिअव्यवस्था च सर्वत्र तद्विनाशनमात्मनः इति । अतश्च साग्निकः कर्ता चतुर्थपुरुषस्यैवापिण्डे त्रिधा कृत्वा सपिण्डनं कुर्यान्निरग्निकः कर्ता तु मृतस्यैवापिण्डे विधाकृत्वेत्यविरोधः । तथा च काश्यपः-प्रपितामहवृद्धस्य अर्धपिण्डक्रिया विधा । इतरेषु नियुक्षीत सपिण्डीकरणेऽग्निमान् । वृद्धयाज्ञवल्क्योऽपि-वृद्धप्रपितामहपिण्डं तं विधा कारयेदूवुधः । प्रकर्षण गतः प्रेतो न पिता प्रेत उच्यते । स्मृत्यन्तरेऽपि-प्रेतपात्रोदकं पिण्डमितरेषु नियोजयेत् । त्रिधा कृत्वा क्रमेणैव सापिण्ड्ये तु निरग्निकः । इति । प्रेतपात्रोदकं नवमृतपात्रोदकम् । इतरेषु पितामहादिपानेषु । ' एतेनैव पिण्डो व्याख्यातः । एतेनेत्यर्बोदकन्यायेन पिण्डो व्याख्यातोऽर्घोदकवत्पिण्डोपि त्रिधा कृत्वा पितृपिण्डेषु योजनीय इत्यर्थः । एवकारो मेलनेनैव पतिर्भवतीति नियमयति । एवं च सति व्युत्क्रममृतौ तत्पत्न्याः सहगमनमृतौ च यथाई प्रपितामहेन भर्तृसपिण्डने सत्यपि पार्वणान्वष्टक्यादौ पङ्किसिद्धयर्य पुनरपि पितामहीप्रपितामह्यादिभिर्यथायोगं सपिण्डीकरणं कर्तव्यमित्युक्तं भवति । तथाचरेणु:-व्युत्क्रमेण प्रमीता ये तद्विना प्रेतता ध्रुवम् । पुनः सपिण्डनात्तेषां कुर्यात्प्रेते पितामहे । अन्वष्टकासु वृद्धथादौ पितामह्यादिभिः सह । श्राद्धे सत्युपपन्नं स्यान्न च पित्रा सपिण्डनम् । उशना:-अखण्डितो यदा पिण्डः पत्या चैकेन यो द्विजः । अन्वष्टक्येपु कर्पूणां तर्पणे च कथं पृथक् । पुनः सपिण्डनं कार्य पितामह्यादिभिः सह । पठन्ति चव्युत्क्रमेणापि सापिण्डयं कार्यमाचार्यसंमतम् । तथाऽप्यूर्ध्वस्य सापिण्डये कृतेऽस्य पुनराचरेदिति । एवमन्यत्राप्यूहनीयम् । अत्रै तन्मीमांस्यते-किं सहगमने पत्न्या सापिण्डयं केवलं भत्रैव सह किवा श्वशुरादिभिरपीति । अत्रैक आहुः--पत्या चैकेन कर्तव्यं सपिण्डीकरणं खियाः । सा मृतापि हि तेनैक्यं गता मन्त्राङतिव्रतैः। इत्यत्रैकशब्दस्य मुख्यवाचकत्वादस्य श्राद्धस्य पार्वणत्वात् पत्येत्येकत्वं पितामहाद्युपलक्षणमिति । अन्ये तु पुनरेकशब्देन, जीवत्पिता पितामह्या मातुः कुर्यात्सपिण्डताम् । प्रमीतपितृकः पित्रा पितामह्याऽपि वा सुतः । तन्माता तत्पितामह्या तच्छुत्रा वा सपिण्डनम् । आसुरादिविवाहेपु विनानां योषितां स्मृतमिति वचनविहितस्य विकल्पचतुष्टयस्य निवर्तकत्वमिति व्याचक्षते । ततश्च पित्रादिनयेणैव मातुः सपिण्डनमिति उभयेषामभिप्रायः । तदपरे न क्षमन्ते । पल्ल्याः पिण्डस्य श्वशुरादिपिण्डेपु मेलनानुचितत्त्वापत्तेः । अतश्च सत्यपि पार्वगत्वेऽन्वारोहणे भा केवलं पल्याः सपिण्डनमित्यन्ये ।