________________
५०४ पारस्करगृह्यसूत्रम् ।
[श्राद्धसूत्रपामभिप्रायः । एवं च सत्यन्वारोहण भर्तृमात्रेणैव सापिण्ड्यं युतमित्याभाति । मृना यानुगता नाथ सा तेन सहपिण्डताम् । अर्हति स्वर्गवासं च यावदाभूतसंप्लवमित्यनेन विशिष्टविधानान् । पार्वणादावपि नासामंशभागित्वे पिण्डदानवपि कुौरव गिरसो गोपनादिविधानोपपत्तेः । तथा च श्वशुरस्याग्रतो यस्माच्छिरःप्रच्छादनाक्रियेति प्रागुतम् । तथाच हेमादिपद्धती-पत्या चकैन कर्तव्यं सपिण्डीकरणं गतः । सहयाने तु मातणां वर्जयेत्तसितामहीं । वचनान्तराण्यपि । तत्र व्यास:मातुः सपिण्डीकरणं क्रियन स्वामिना सह । मातृकं पैतृकं पिण्डमकीकृत्य विधानतः । लौगाक्षिरपि-पितामह्यादिभिः खीभिर्मातरं तु सपिण्डयेन् । पितरि त्रियमाणं तु तेनैवोपरते सति । पुराणसमुच्येऽपि-पितामहादिभिः साध पितुः कुर्यात्सपिण्डताम् । मानुर्भा सहकन न वन्यः श्वशुरैः सहेति । पतिकरणं तु प्रागेवाभिहिनमित्यलं बहुना। अत्रक विवदन्त-सहगमने भर्नुः सपिण्डनं विधाय पश्चात्परन्या अपि सपिण्डनमिनि द्वयोः सपिण्डनं पृथक् पृथगिति । अन्ये पुनईपत्योः परस्परममन्त्रकं पिण्डद्वयमेलनं कृत्वाऽनन्तरं त्रिभि. सह भर्नुः सपिण्डने पल्या अपि कृतं भवद्धित्येकमेव सपिण्डीकरणमित्याहुः । तत्र सहगमनेऽनुगमने च भैकन सह सपिण्डनस्य विहितत्वादेकमेव मपिण्डीकरणं युक्तमित्याभाति । न चासंस्कृतेन पत्या सपिण्डनमयुक्तमिति वाच्यम् । असंस्कृती न संस्कायौं पुत्रपत्रिप्रपौत्रः पितरं तत्र संपुर्यादिनि कात्यायनोऽत्रवीन् । पापिष्टमपि शुढेन शुद्ध पापकृताऽपि वा । पितामहन पितरं संस्कृर्यादिति निश्चयः ॥ इति कात्यायनवचनान् पापिष्टमगतप्रेतभावं शुद्धेन प्रेतत्वरहितन तथा शुद्धं गतप्रेतभावं पापकृता प्रेतेन पिनरं संस्कुादित्यर्थः । अनेन वचननासंस्कृतनापि मेलनमभ्यनुबातम् । तस्मादकमेव सपिण्डीकरणमिनि सिद्धम् । तथा च रेणुः-पृथम्बित्यां ममाढा त्रियते तु मृताऽपि वा । पत्या चक्रन कर्नव्यं तस्या अपि मपिण्डनम् । पृथऋचित्या समारूढा या नारी च पतित्रता । स्वामिना सह पिण्डवं तस्या अपि कृतं भवेन् । दम्पत्ययं द्विजं चक्र भोजयत्रीस्तथोत्तरे । तयोः सपिण्डीकरणं तूष्णी दम्पतिपिण्डयोरिति स्मृतिरपि । मृत पितरि मातुस्तु न कुर्यात्सहपिण्डनम् । पितृव मपिण्डले तस्या अपि कृतं भवेत् । अन्यत्र देशकालदन्यदेवकत्रैश्य तान्त्रिको विधिः । भेदेन पुनर्निमित्तानां कर्मावृत्तिरपीप्यते । स्मृत्यर्थसारंऽपि-अन्वारोहणे स्वेकचित्यविरोहणे खियाः पृथक् सपिण्डीकरणं कार्यमिति । अत्रेके पुनराक्षिपन्ति-सापिण्ड्ययाद्ध चतुर्थ्यः पिण्डदानं कृत्वाऽनन्तरं सपिण्डन कृते प्रत्यवनजनादि सर्व कर्म मृतमारभ्यैव कर्तव्यम् । पुनः प्रेनं न निर्दिगदिति वचनान् । एवं सति प्रत्यवनेजनादिकर्मसु पिनामहपिण्डे पितुदेवतात्वं प्रपितामहपिण्डे पितामहस्य वृद्धप्रपितामहपिण्ड प्रपितामहस्येत्येवं चतुर्थस्य निवृत्तिरिति तपामभिप्रायः । तद्युक्तम् । उपक्रमोपसंहारविरोधायेनेवारम्भस्तेनैव समाप्तिरिति न्यायबाधादेकस्मिन्पिण्डंऽन्यथानिर्देशन द्विदेवताकत्वसंभवाद्वपक्रमस्यैव वैय
पित्तः । न च तश्रेष्ठम् , स्मृत्यन्तरं श्राद्धसमाप्ताव पिण्डमेलनस्य विहितत्वात् । यत्तु पुनः प्रेतं न निर्दिशेदित्युक्तं तदपि सापिण्ड्यश्राद्धोत्तरश्राद्धेषु प्रेतगदनिर्देशाभावप्रतिपादनपरम् । न पुन[क्रमप्रयोगविधायकम् । तस्मात्यकृतोपक्रान्तक्रमणैव श्राद्धं कृत्वाऽन्ते पिण्डसंमेलनं कर्तव्यमिति युक्तम् । तथा च ब्रह्मपुराणम् । सुवर्तुलांस्ततस्तांस्तु कृत्वा पिण्डान्प्रपूजयेत् । अधैः पुप्पैस्तथा धृपैदीपमाल्यानुलेपनैरिति । अत्रैक आहुः-पुत्रेणैव तु कर्तव्यं सपिण्डीकरणं स्त्रियाः । पुरुषस्य मृतस्यान्य भ्रातृपुत्रादयोपि ये । अपुत्राया मृतायां तु पतिः कुर्यात्सपिण्डतामित्याभ्यां बचनाभ्यां पतिपुत्रयोवाधिकारान्तदभावे स्त्रीणां सपिण्डनं नास्तीति । अन्ये तु सर्वत्रसर्वस्य भवतीत्याहुः । एवं च सत्यकरणमनपत्यत्रीविषयं करणं तु सापत्याविषयमित्यस्मन्मतिः । तथा च पठन्तिकुत्याचन्मूतभर्तृका यदि मृता पुत्रः स्त्रभत्रैव तत्सापिण्ड्यं सधवा मृता युवतिभिर्भतारमन्वति या । तम्या