________________
कण्डिका ५ ]
परिशिष्टम् ।
५०१
कथमाहिताग्निः सामान्येनाग्निमद्वाचकत्वात् । उच्यते--- यथा हितानौ प्रेते निरग्निः कर्ता तथा निरनौ प्रेते आहिताग्निः कर्तेति शंकाया विद्यमानत्वात् । यजमानोऽग्निमान्राजन् प्रेतश्चानग्निमान् भवेत् । द्वादशाहे तदा कार्य सपिण्डीकरणं सुतैः, इति भविष्यत्पुराणवचनेऽग्निमच्छन्दवभूग्निमनुपोशासना (?) - दाहिताग्निवाचकत्वसंभवाच्च । न चानग्निराहिताग्निश्च समानधर्मेत्युचितम् । किं च - सपिण्डीकरणं कुर्याद्यजमानस्त्वनग्निमान् । अनाहिताः प्रेतस्य पूर्णेऽदे भरतर्पमेति भविष्यवचने स्मार्ताग्नेः प्रेतस्य कालान्तरेण विषयान्तरस्योपलब्धत्वात् । उभयोरामित्वे (?) साग्नित्वे वचनं - सान्निकस्तु यदा कर्ता प्रेो वाऽप्यग्निमान्भवेत् । द्वादशाहे सदा कार्य सपिण्डीकरणं पितुरिति । अत्रापि वाशब्दः आहिताभ्यनाहिताग्निविषयत्वेन व्यवस्थितार्थः । ततश्च निरग्नौ प्रेते स्मार्ताग्निः कर्ताऽऽशौचान्ते, स्मार्तानौ प्रेते निरग्निः कर्ता पूर्णेव्दे, आहिताग्नौ प्रेते निरग्निः कर्ता त्रिपक्षे, निरग्नौ प्रेते आहिताग्निः कर्ता द्वादशाह एव पोडशश्राद्धानि कृत्वा सपिण्डीकरणं कुर्यादिति मुख्योऽर्थः । तथा च वृहन्मनुः --- द्वादशेऽहनि विप्राणामाशौचान्ते तु भूभृताम् । वैश्यानां च त्रिपक्षादावसथस्यात्सपिण्डनमिति । बाशब्दः स्मृत्यन्तरोक्तव्यवस्थायाम् । अतश्च साग्नीनामिति शेषः । अथवाहिताग्न्यनाहिताग्निशब्दावेतौ साग्निनिरग्निपरौ । तेन साग्निके कर्तरि चैकादशाहकालयोर्दर्शानुरोधेन नियमः । तथा च संग्रहकारः -- द्वादशाहादिकालेषु सपिण्डीकरणेष्विमे । साग्न्यनभित्वविधयः कर्तुरेव नियामका इति । अतश्च पिण्डपितृयज्ञानुरोधात्साग्नेरेव द्वादशाहादिकालकर्तृत्वेन निरग्नेरित्युक्तं भवति । तथा च गालवः --- सपिण्डीकरणात्येते पैतृकं पदमास्थिते । आहिताग्नेः सिनीवाल्यां पितृयज्ञः प्रवर्तत इति । आहिताग्ने: सिनीवाल्यामिति च सांग्निदर्शयोरुपलक्षणम् । प्रमादात्कालातिक्रमे तु गोभिल:-- द्वादशाहादिकालेषु प्रमादादननुष्ठितम् । सपिण्डीकरणं कुर्यात्काले पूत्तरभाविषु । उत्तरभाविपु त्रिपक्षादिपु । यदहर्वेत्युभयोरप्यनग्नित्व विषयम् । वृद्धेः पूर्वमित्यर्थः । असपिण्डितस्य वृद्धौ दानानत्वात् । वाशब्दः स्मृत्यन्तरोक्तकालसमुचये । तथा च वैौधायनः -- अथ सपिण्डीकरणं संवत्सरे पूर्णे त्रिपक्षे वा तृतीये वा मासि पष्ठे वैकादशे वेति । भविष्येऽपि --- द्वादशाहे त्रिपक्षे वा पण्मासे वा त्रिमासि च । एकादशे वाऽपि मासि मङ्गले वा उपस्थिते । इति । मङ्गल इति वृद्धौ । अत्रोत्तरोत्तरकाले वृद्धिसंभवे पूर्वपूर्वकाले वृद्धयनुरोधेन सपिण्डीकरणं कुर्यादित्यर्थः । एवं च सत्युभयोरनग्नित्वे वृद्धयनुरोधेनैव संवत्सरादर्वाक्सपिण्डीकरणापकर्षोऽन्यथा नेत्युक्तं भवति । तथा च शाट्यायनः -- प्रेतश्राद्धानि सर्वाणि सपिण्डीकरणं तथा । अपि च नागरखण्डे -- ततः सपिण्डीकरणं वत्सरादूर्ध्वतः स्थितम् । वृद्धिर्वागामिनीचेत्स्यात्तदार्वागपि कारयेत् । उशनाऽपि - पितुः सपिण्डीकरणं वार्षिकं मृतवत्सरे । आधानाद्युपसंप्राप्तावेतत्प्रागपि वत्सरादिति । आदिशब्दस्तीर्थलोभाद्यर्थः । वाराणस्यां कुरुक्षेत्रे गयायां तीर्थोभतः । सपिण्डता द्वादशाहे मार्गे सार्थे तु निर्गते । इति वचनात् । ततः संवत्सरे पूर्णे इति सूत्रं केचिदन्यथैव व्याचख्युस्तत्र विपयव्यवस्थाभावान्नादरोऽस्माकम् । न च कात्यायनः अथातोऽधिकार इत्यारभ्य श्रौतस्मार्तकर्माणि श्रताग्निस्मार्ताग्निमद्विषयाण्यभिधाय सपिण्डीकरणमेव केवलं साग्निविपयमेवाह स्मेति संभावनीयम् । अतो मदुक्ताऽपि व्यवस्था सूत्रस्येति मामनुकंपय विपश्चितः सहन्ताम् । न चेयं व्यवस्था सूत्रस्य न घटत इत्याशङ्कनीयम् । ऋषिप्रणीतत्वेन सूत्रस्य महनार्थत्वात् । तस्मादा हिताग्न्यनाहिताग्निनिरग्निविपयत्वेनोक्चैव व्यवस्थेति सिद्धम् । अत्र कश्चिद्भाष्यकृदाह-वर्ष - पर्यन्तं सर्वकर्मलोपभयात्, आनन्त्यात्कुलधर्माणां पुंसां चैवायुषः क्षयात् । अस्थितेश्च शरीरस्य द्वादशाहः प्रशस्यत इति वचनाच्चापकर्षपक्ष एव शोभन इति । तद्वहुस्मृतिवैयर्थ्यान्नादरणीयम् । अन्तरेणैव यो वृद्धिमित्यनेन प्रत्यवायोपलब्धे । आनन्त्यात्कुलधर्माणां शरीरस्यास्थितेश्चेति हेतुद्रयोपन्यासादस्य वचनस्य कुलधर्मपरत्वादश करोगिकर्तृविषयत्वावगमाच । कि च सति संभवेऽन्तिमपिण्डस्य वर्षांन्त एव