Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 511
________________ कण्डका ५ ] परिशिष्टम् । ५०५ 1 भर्तृसपिण्डनं सुतवती भर्तारमन्वेति या तस्याः स्त्रीभिरनुक्रमादिति ह षट्त्रिंशन्मते निर्णयः । अस्यार्थः -- मृतभर्तृकायाः सपिण्डनं चेत्पुत्रः करोति तदा भत्रैव केवलं सपिण्डयेत् । जीवद्भर्तृकायास्तु पितामह्यादिभिरेव । यातु भर्तारमनुगच्छति तस्या अपुत्राया भत्रैव सपिण्डनं पुत्रिण्यास्त्वनुगमनेऽपि पितामह्यादिभिरेवेति । अनेन च पतिपुत्राभावे सपिण्डनमस्तीति गम्यते । अतश्वोक्तैव व्यवस्थेति । तथा च धर्मप्रदीपे - अपुत्रायोषितः पिण्डं भर्तृपिण्डेन योजयेत् । यदि जीवति भर्ता तु श्ववादिषु समाविशेदिति । अपुत्रा सापत्या मृता स्त्री । अनपत्यायाः सापिण्ड्यप्रयोजनानुपयुक्तेः । अत्रैतत्संदिह्यते - किं सपिण्डीकरणे श्राद्धद्धयमेकपा केनोत पृथक्पा केनेति । उभयथा वचनदर्श नात् । तथा ह्योदनं पृथक्पृथगिति । तथा-- सपिण्डीकरणश्राद्धं पृथक्पाकेन शस्यत इति । रेणुस्तु पाकैक्यमाह --- एवं श्रद्धद्वयं कुर्यात्कायैक्यादेकपाकतः । एकोद्दिष्टं पार्वणं च शेषं प्रकृतिवद्भवेदिति । अत्र व्यवस्थीयते--- पृथक्पाकविधानमसपिण्डितविषयम् । पाकैक्यविधानं तु पुनः सपिण्डीकरणविपयमिति । अन्यथा विरोधापत्तेः । न च विकल्पः संभावनीयः अष्टदोषदुष्टत्वात् । पुत्रिकापुत्रविपये बौधायनः --- आदिशेत्प्रथमे पिण्डे मातरं पुत्रिकासुतः । द्वितीये पितरं तस्यास्तृतीये च पितामहः । चशब्दश्वतुर्थे चतुर्थसमुच्चयार्थः । गोत्रविषये तु मार्कण्डेयः श्राह्मादिषु विवाहेषु या ऊढा कन्यका भवेत् । भर्तृगोत्रेण कर्तव्या तस्याः पिण्डोदकक्रिया । आसुरादिविवाहेषु पितृगोत्रेण धर्मवदिति । लौगाक्षः -- मातामहस्य गोत्रेण मातुः पिण्डोदकक्रियाम् । कुर्वीत पुत्रिकापुत्र एवमाह प्रजापतिरिति । पत्नीकर्तृकसापिण्ड्ये विरोध आभासते । लौगाक्षः --- सर्वाभावे स्त्रियः कुर्युः स्वभर्तॄणाममन्त्रकम् । सपिण्डीकरणं श्राद्धमेकोद्दिष्टं च पार्वणम् । स्कान्दे तु यज्ञेषु मन्त्रवत्पत्नी कर्म कुर्याद्यथाविधि । दौर्ध्वदेहि सा हि मन्त्राह धर्मसंस्कृता । इति । अत्र विरोधे ह्यमन्त्रककरणमधर्म्यविवाहोढाविषयम्, समन्त्रककरणं तु मन्त्रोढाविषयमिति व्यवस्था । तथा च शातातपः -- धन्यैर्विवाहैरूढा या सा पत्नी परिकीर्तिता । सहाधिकारिणी होपा यज्ञादौ कर्मकारिणी । तथा मन्त्राह धर्मसंस्कृतेत्युक्तम् । एतचानुज्ञाविषयम् । नारी या त्वननुज्ञाता पित्रा भत्र सुतेन ना । विफलं तु भवेत्तस्या या करोत्यौर्ध्वदेहिकमित्यापस्तम्त्रोक्तेः । तदभावे विशेषमाह कात्यायनः -- असंस्कृतेन पत्न्या च ह्यग्निदानं समन्त्रकम् । कर्तव्यमितरत्सर्व कारयेदन्यमेव हि । तथा सर्वबंधुविहीनस्य पत्नी कुर्यात्सपि - ण्डनम् । ऋत्विजं कारयेद्वापि पुरोहितमथापि वेति । पत्नीकर्तृत्वं साध्वीपरं वा । अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता | पत्न्येव दद्यात्तत्कृत्स्नं पिण्डमर्थं हरेरपि । इति वचनादिति । असंस्कृतः अनुपनीतः । सच कृतचूडस्त्रिवर्षः । तथा च सुमन्तुः --- श्राद्धं कुर्यादवश्यं तु प्रमीतपितृको द्विजः । व्रतस्थो वाऽव्रतस्थो वा एक एव भवेद्यदीति । यन्तु मनुनोक्तं — नाभिव्याहारयेद्रह्म स्वधानिनयनादृते । नास्मिन्युज्यते कर्म किंचिदा मौञ्जिबन्धनादिति । तदन्निवर्षकृतचूडविषयम् । तथा च सुमन्तुः --- अनुपेतस्तु कुर्वीत मन्त्रवत्पैतृमेधिकम् । यद्यसौ कृतचूडः स्याद्यदि स्याच्च त्रिवत्सरः । नाभिव्याहारयेद्ब्रह्म यावन्मौञ्जीनिबन्धनम् । मन्त्राननुपनीतोऽपि पठेदेवैक एव यः । इति । तस्मात्रिवर्धकृत - चूडः पित्रोरौर्ध्वदेहिकं मन्त्रवदेव कुर्वीतेत्यलं प्रसंगेन ।' अत उर्ध्व संवत्सरे संवत्सरे प्रेतायानं दद्याद्यस्मिन्नहनि प्रेतः स्यात् ' अत इति सपिण्डनादूर्ध्वम् । वीप्सा नित्यत्वार्था । प्रेतायेत्येकत्वं विहितपार्वणव्यतिरिक्तविषयम् । अहः शब्दस्तिथिवचनः । अन्नग्रहणं सति संभवे आमव्युदासार्थम् । तेन क्षयाहे पाकेनैव श्राद्धमिति ज्ञापितम् । अत्र च सपिण्डनादू प्रेतशब्दोपादानं द्वादशाहादौ सपि - ण्डनेऽपि पुनर्मासिकावृत्तिज्ञापनार्थम् । तथा च गोभिलः - यस्य संवत्सरादर्वाग्विहिता तु सपि - User | वित्तानि कुर्वीत पुनः श्राद्धानि पोडशेति । विधिवदिति यथाधिकारं पार्वणैकोटिवि विनेत्यर्थः । तथा च पैठीनसिः --- सपिण्डीकरणादूर्ध्वं यदा कुर्यात्तदा पुनः । प्रत्यन्द्रं यो यथा ६०

Loading...

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560