Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 522
________________ ५१६ पारस्करगृह्यसूत्रम् । [ श्राद्धसूत्र दयिके प्रदक्षिणमुपचार इति विरोधात् । अप्रदक्षिणत्वे तु न प्रमाणमुपलब्धम् । दक्षिणा संस्थत्वे च प्रदक्षिणं प्रमाणमस्ति । तस्मादक्षिणसंस्थमेव रेखापिण्डदानादि । तथा च कात्यायन एव --- द्वितीयं च तृतीयं च मध्यदेशाप्रदेशयोः । मातामहादिप्रभृतीनेतेषामेव वामतः । इति । एतेषां पित्रादित्रयाणां वाम इत्यर्थः । तत्र पित्रादीनां मध्ये देयत्वेन संबोध्यत्वेन च स्वसंमुखत्वाद्दक्षिणा संस्थत्वेन तेषां वामता । यत्त्वाशादित्येन पिण्डानामवयवाभावाद्वामतायां कर्तृगतोऽवयव इष्यत इत्युक्तम् । तदसंगतम् । एतेषामेव वामत इत्येतच्छब्देन पित्रादीनां परामृष्टत्वात् । कर्त्रवयवत्वे त्वेतेपामिति वहुत्वविरोधाच । तस्मादक्षिणा संस्थत्वेनैव तद्वामतासंभवः । अत्रार्थे वृद्धयाज्ञवल्क्यः -- जीवद्भर्तरि दक्षिण इति । अपि च स्मृत्यन्तरम् । श्रद्धे सदैव वामाङ्गे पत्नीनामुदकं हरेत् । वृद्धिश्राद्धेषु नारीणां दक्षिणाङ्गे सदा भवेत् इति । श्राद्धे सदैव वामाङ्ग इत्येतदापस्तम्ब्रादिविषयम् । तेषां पित्रादिपिण्डपश्चिमत एव पत्नीपिण्डविधानात् । तथा चापस्तम्बगृह्यम् - द्विधाभूतं भवति तथा सदक्षिणायान् दर्भान् लिखितदेशे संस्तीर्य तत्र पूर्वभागे पित्रादिवर्गार्थ स्तरणं पश्चाद्भागे तु मात्रादिवर्गार्थमिति । स्त्रीभ्यश्च पिण्डा इह पश्चिमाः स्युः इति तद्भाष्यार्थसंग्रहकारः । वृद्धिश्राद्धेषु नारीणां दक्षिणाये सदा भवेदिति तु सर्वविषयम् । तस्माद्रेखापिण्डदानादिकं प्राङ्मुख कर्तुर्दक्षिणा संस्थमेव वृद्धिश्राद्धेषु सर्वत्र कर्तव्यमिति सर्वमनवद्यम् । ब्राह्मणनिवेशोऽप्येवं प्रागारभ्य पश्चात्संस्थ एवेति । 'नान्दीमुखान्पितृनावाहविष्य इति पृच्छति' लिङथें लट् । अत्रैतद्वक्तव्यम् - किं पित्रादिकस्य नान्दीमुखत्वमाहोस्विवृद्धप्रपितामहादिनिकस्येति । स्मृतिषूभयथा दर्शनात् । तथा च ब्रह्मपुराणम् - पिता पितामहचैव तथैव प्रपितामहः । त्रयो ह्यश्रुमुखा एते पितरः परिकीर्तिताः । तेभ्यः पूर्वतरा ये च प्रजावन्तः सुखै - पिणः । ते तु नान्दीमुखा नान्दी समृद्धिरिति कथ्यते । प्रसन्नमुखसंसर्गान्मङ्गलीयास्ततस्तु ते । इति । अतश्च वृद्धप्रपितामहादिकस्यैव नान्दीमुखत्वेनाभ्युदयिकत्वं प्राप्नोतीति । अथवा -- पिता पितामहचैव तथैव प्रपितामहः । पिण्डसंबन्धिनो ह्येते पितरः परिकीर्तिताः । इत्यादिवचनैरश्रुमुखानामेव पिण्ड - वन्धित्वात्पित्रादिकस्यापि नान्दीमुखत्वमिति । तथा च सूत्रम् -- नान्दीमुखाः पितरः पितामहाः प्रपितामहा इति । मार्कण्डेयोऽपि ये स्युः पितामहाद्दूर्ध्वं ते स्युर्नान्दीमुखा अपीति प्रपितामहस्यापि नान्दीमुखत्वं न वृद्धादित्रिकस्यैवेति । एवं च सत्युभयेषामपि नान्दीमुखत्वमविरुद्धम् । यच्चाश्रुमुखादिसंज्ञाकीर्तनं तत्कारणपरम् । प्रसन्नमुखसंसर्गादित्यादिना नान्दीमुखा वंशवृद्धिमीहन्ते । अश्रुमुखास्तु पित्रुरुद्धरणसमर्था सन्तमिति ब्राह्मे निरूपितत्वात् । तस्मा जीवत्पितृमातामहादिकस्य कर्तुरधिकारार्थं वृद्ध प्रपितामहादिकस्य नान्दीमुखत्वोत्कीर्तनं मृतपितृमातृमातामहादिकस्य कर्तुरधिकरार्थमश्रुमुखानां नान्दीमुखत्वमिति व्यवस्थेत्यविरोधः । तथा च चतुर्विंशतिमतम् -- नान्दीमुखे विवाहे च प्रपितामहपूर्वकम् । वाक्यं समुच्चरेद्विद्वानन्यत्र पितृपूर्वकम् । जीवत्पितृकः प्रपितामहपूर्वकमन्यः मृतपितृकः पितृपूर्वकमित्यर्थः । दाक्षिणात्यास्तु - प्रपितामहपितामहपितरिति क्रमविध्यर्थमेतदित्याहुः । कात्यायनोऽपि -- जीवन्तमति दद्याद्वा प्रेतायान्नोदके द्विजः । पितुः पितृभ्यो वा दद्यात्स पितेत्यपरा श्रुतिः । ब्राह्येऽपि — उक्तमादाय पिण्डं तु कृत्वा विल्वप्रमाणकम् । दद्यात्पितामहादिभ्यो दर्भमूले यथाक्रममिति । पठन्ति च - जनन्यां विद्यमानायां यजेद्यस्तु पितामहीम् । मातृन्नः स च विज्ञेयो वृद्धिश्रद्धादृते कचिदिति । अतश्च जीवत्पित्रादिपङ्गित्रिकस्य वृद्धिश्राद्धेऽधिकार इति सिद्धम् । अत्रैक महु:-- पितृमातृमातामहानां मध्ये यो जीवति तद्वर्ग परित्यज्य पार्वणद्वयमेकं वा यथासंभवं कर्तव्यम् । त्रिषु जीवत्सु मातृपूजनमेव न श्राद्धमिति । तथा च पितृवर्गे मातृवर्गे तथा मातामहस्य च । जीवेद्यदिच वर्गादिस्तं वर्ग तु परित्यजेदिति । तथा सपितुः पितृकृत्येषु अधिकारो न विद्यते । न जीवन्तमतिक्रम्य किचिदद्यादिति श्रुतिः । तथा - पित्र्यं जीवत्पितुन तमन्ना होमोऽपि पाक्षिकः । न जीवन्तमतिक्रम्य

Loading...

Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560