Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 527
________________ कण्डिका ७ 1 परिशिष्टम् । ५२१ केत्युक्तेः । खल्वाः खलुकुलाश्चाप्रसिद्धाः । कोद्रवचणकौ वाच्यौ वा ग्राम्यत्वात् । दशेति ग्राससंख्या न हविष्यसंख्या । तथा च विष्णुः — तिलैत्रीहियवैर्माषैरद्भिर्मूलफलैः शाकैः श्यामाकैः प्रियनीवारैधूमैर्मासं प्रीयन्त इति । मसूरादिग्रहणाच्च । तथा मासं तृप्तिः पितॄणां तु हविष्यान्नेन जायते इति । क्षुद्रधान्यानि श्यामाकप्रियङ्गुतिलगोधूमरक्तसर्षपवर्ज सर्वाण्यश्राद्धार्हाणि । नीरस - त्वात् । तथा च वर्ज्या मर्कटयः श्राद्धे राजमाषास्तथाणवः । विपूपिका मसूराच श्राद्धकर्मणि गर्हिताः । भारद्वाजोऽपि - नीरसान्यपि सर्वाणि भक्ष्यभोज्यानि यानि च । तानि स्युनैव देयानि सर्वत्र श्राद्धकर्मणीति । अणवः क्षुद्रान्नानि । वृद्धयाज्ञवल्क्योऽपि - मकुष्ठा राजमाषाश्च मसूराश्च चणास्तथा । कोद्रवा मूलका राजसर्षपाः श्राद्धघातकाः । इति । राजसर्षपो राजिका । तथा च निघण्टुः --- आसुरी राजिका राजी कृष्णैका राजसर्षपाः । राजिका यव इत्यन्या राजिका कृष्णसर्पपा इति । चतुर्विंशतिमतेऽपि । कोद्रवान्राजमाषश्च कुलत्थांतुरकास्तथा । निष्पावांस्तु विशेपेण पंचैतान्वर्जयेत्सदा ॥ यावनालानपि तथा वर्जयन्ति विपश्चितः । इति । राजमाषाः पीतगौरवर्णमाषाः । लोविआ गौरवाश्चस इति मध्यदेशप्रसिद्धाः । निष्पावा मकुष्ठकाः । निष्पावा चेल्ला: शिम्बिसदृशा दक्षिणापथप्रसिद्धाः इति कश्चित् । चरका वनमुद्राः । यावनालो जोण्डरीति प्रसिद्धः । तथा च निघण्टुः -- यावनालो देवधान्यं सुंदलि जुन्नलोनलः । इति । अत्र निष्पावनिषेधः कृष्णविषयः कृष्णधान्यानि सर्वाणीति निषेधात् । यवत्रीही सगोधूमौ तिलमुद्राः ससर्षपाः । प्रियङ्गवः कोविदारा निष्पावाञ्चात्र शोभना इति मार्कण्डेयेन कृष्णेतरस्य विहितत्वात् । शोभनः कृष्णेतरः । स्मृत्यन्तरे — मुद्राढकी माषवर्जे विदलानि दद्यादिति । विलानि दलितुं योग्यानि । मुद्रः कृष्णः । हरितमुद्रकृष्णमाषश्यामाकेति ब्रह्मपुराणे हरितस्य विहितत्वात् । माषो राजमापः । तद्ग्रहणं कुलत्थाद्युपलक्षणम् । तथा च मरीचिः --- कुलत्थाश्चणकाः श्रद्धे न देयाश्चैव कोद्रवाः । कटुकानि च सर्वाणि विरसानि तथैव च । इति । आढकी तुवरीति प्रसिद्धा । एतान्वर्जयित्वा विलानि दद्यादित्यर्थः । नेत्यनुवृत्तौ विष्णुपुराणे--- मसूरक्षारवार्ताककुलत्थशणशिश्रवः इति । शणशिग्नादिशाका शाकप्रकरणे प्रपंचयिष्यन्ते । क्षारो यवक्षारादिः । शेषं स्मृतिभ्यो विज्ञेयम् । एतानि धान्यानि निस्तुषानि गव्यदुग्धादिसहितानि च मासं तृप्तिकराणि । तथा च वृद्धयाज्ञवल्क्यः मत्स्यपुराणे - उषहीनानि धान्यानि यान्ति सर्वाणि मेध्यताम् । वर्जयित्वा मसूरान्नं मकुष्ठात्राजमाषकान् ॥ मसुरादिधान्यत्रयं निस्तुषमप्यमेव्यमित्यर्थः । तथा अन्नं तु सदधिक्षीरगोघृतं शर्करान्वितम् । मासं प्रीणाति वै सर्वान्पितृनित्याह केशवः || कलायाः सर्वेऽपि श्राद्धे देयाः । कलायाः सर्व एव चेति वक्ष्यमाणत्वात् । तदभाव आरण्याभि: ग्राम्याभाव आरण्याभिरौषधीभिर्मासं तृप्तिः पितॄणामित्यर्थः । आरण्या अरण्ये भवाः श्यामाकप्रभृतयः । अरण्याण्णो वक्तव्य इति णप्रत्ययः । तथा च मार्कण्डेय: - 'राजश्यामा कश्यामाकौ तद्वचैव प्रसातिका । नीवाराः पौष्कलाश्चैव धान्यानि पितृतृप्तये ' इति । पौष्कला नीवारविशेपा: । विष्णुपुराणे - श्रीयश्च यवाश्चैव गोधूमाः कङ्कुसर्पपाः । माषा मुद्राः सप्तमाश्च अष्टमाच कुलत्थकाः । श्यामाकाश्चैव नीवारा जर्तिलाः सगवेधुकाः । कोविदारसमायुक्तास्तथा वेणुयवाश्च ये । प्राम्यारुण्याः स्मृता होता औपध्यश्च चतुर्दश । इति । आद्याः सप्त ग्राम्याः । अष्टमाचा आरण्याः । 'मूलफलरोषधीभिर्वा' अत्रानुपूर्व्या ओषधीशब्दः प्रथमं व्याख्येयः । तथा चोक्तम्- अतिरिक्तं पदं त्याज्यं हीनं वाक्ये निवेशयेत् । विप्रकृष्टं तु संदध्यादानुपूर्व्या च कल्पयेत् । इति । वाशब्दोऽभावे । ओषव्यभावे फलमूलादिना मासं तृप्तिरित्यर्थः । तथा च वृद्धयाज्ञवल्क्यः - अन्नाभावे तु कर्तव्यं शाकमूलफलादिना । इति । अय पुनरोषधिग्रहणम् अरण्योपध्यभावे विहितप्रतिषिद्धौषधिप्राप्त्यर्थम् । तथा च मार्कण्डेयः -- गोधूमैरिनुभिर्मुद्रैश्चीन कैश्चणकैरपि । श्राद्धेषु दत्तैः प्रीयन्ते मासमेकं पि 1 ६६

Loading...

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560