Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 532
________________ ५२६ पारस्करगृह्यसूत्रम् । [श्राद्धसूत्रवाहनः । तं पदापि हि यो हन्ति तेनाहं स्कन्द ताडितः । वृद्धदेवलोऽपि-वेसरोऽस्रगजश्चाश्ववृपभा. न्करिमाचलम् । रासमें प्राश्य च भवेद्धिहमिह्वा भवे भवे इति । करिमाचलः शृगालः । उस्रः शतबलिनिमिः इत्यन्ये उनः शतबलादुम्नस्तु परे गभस्तिष्ठित्यभिधानात् । तदपि न । पश्वालम्भप्रकरणात् । न हन्यान्मत्स्यसूकरौ । इति निषेधाच । अतश्चोत्रशब्देनात्र कलौ छागमेपावेव । पशुपंचकमध्ये तयोरेव भक्ष्यत्वाद्वेदोक्तत्वाच्च । तथा च श्रुतिः-पुरुषोऽश्वो गौरविजो भवते तावता वै सर्वे पशव इति । गोभिलसूत्रं च-छागोऽस्रमेपा आलभ्या इति । ननु च छागमेपग्रहणेनैव तल्लब्धेः किमर्थमुस्रग्रहणम् । उच्यते-विशेपविध्यर्थत्वादित्यदोपः । तथा च स्कन्दसंवादे-वाधीनसं महाशल्को लोहाजस्तूपरं घृतम् । दद्यादेतद्भवेद्दत्तमानन्त्याय तिला मधु । अन्यच्च-अनन्ता खड्नमांसेन लोहच्छागेन तूपरात् । इति । अत्र कश्चिद्भाष्यकृदाह-छागोस्रमेपानिति पुंस्त्वमविवक्षितम् । उपादीयमान त्वात्पशुना यजेतेतिवत् । सर्वासां पशुजातीनां मारणे भक्षणे तथा । विधाने न तु दोपः स्यादन्यथा नरकं व्रजेत् । इति । अन्ये त्वाः-पशुना यजेतेत्यत्रापि पुंस्त्वस्यैव विवक्षितत्वात् पुंब्यक्तिरेव वध्या न स्त्रीव्यक्तिरिति । अत्रानूचानाः प्रमाणम् । 'क्रीत्वा लब्ध्वा वास्वयंमृतानाहृत्य पचेत् । वाशब्दः पशुवधाभावे । अस्वयंमृतग्रहणं निपिद्धवर्जनोपलक्षणम् । तेन पश्वभावे विहितमृगपक्ष्यादिमांसानि ऋयलभ्यान्याहृत्य पचेन्न निपिद्धमिल्यर्थः । विना मांसेन यच्छ्राद्धं कृतमप्यकृतं भवेत् । इति श्राद्धवैकल्यापत्तेः । पद्मपुराणे-विना मांसेन यच्छ्राद्धं तन्न तृप्तिकरं भवेत् । क्रव्यादाः पितरो यस्मात्तस्मात्तेनैव तान्यजेत् । इति । अत्रैकेऽकारविश्लेषमबुद्धा स्वयं मृतानपि वेत्याहुः । तद्युक्तम् । तेपां निपिद्धत्वात् । तथा च स्मृतिः-उच्छिष्टस्य घृतादानं मृतमांसस्य भक्षणम् । अङ्गुल्या दन्तकाष्टं च तुल्यं गोमांसभक्षणैः। इति । महाभारतेऽपि-विषछद्महतं चैव व्याधितिर्यग्घतं तथा । न प्रशंसन्ति वै श्राद्धे यच्च शस्त्रविवर्जितम् । विपच्छमारण्ये पतितफलादौ विपप्रक्षेपस्तेन, हतं तिर्यग्घतं सिंहव्याघव्यतिरिक्तवृकादिहतम् । तयोरभ्यनुज्ञानात् । तथा च-सिंहव्याघ्रतं च यत् । इति । प्रशस्तमिति शेपः । अथवा श्राद्धे तस्य निषेधो विधिनित्यभोजनविषयः । एकमूलत्वात् । शस्त्रविवर्जितं स्वयं मृतम् । अनुपाकृतमांसानि सौनं वल्लूरमेव च । स्मृतिलोकनिषिद्धांश्च मृगमीनाण्डजानपि ॥ सौनं हिंसास्थानभवम् । अनुपाकृतं संस्कारहीनम् । वल्लूरं शुष्कं वर्जयेदिति । पृष्टमांसं वृथामांसं वय॑मांसं च पुत्रक । न भक्षयति सततं नरके रजनीचरेत् । इति । शेषमन्यतो ज्ञेयम् । ननु च फलमूलैरौषधीमित्यहिसाधर्मेण तृप्तिमुक्त्वानन्तरं छागोस्रमेषानालभ्येति हिंसां विधायेदानी क्रयलाभौ सूत्रयता वाशब्देन हिसा निषिद्धेति । तथा च-कन्दमूलफलाभावे मांसान्याहुर्मनीपिणः । पुण्यानि मुनिगीतानि लब्धानि च वधं विना ॥ इति चतुर्विंशतिमते । महाभारतेऽपि-क्रीत्वा स्वयं हनुत्पाद्य परोपहृतमेव वा । देवान्पितॄनर्चयित्वा खादन्मांसं न दुण्यति ॥ एप उक्तो विधिर्ब्रह्मन् सर्वकामफलप्रदः । इति । तस्माद्वाशब्देन हिंसां निषिध्य ऋयलाभावेव सूत्रकाराभिमताविति । अत्रोच्यतेयदुक्तं हिंसानन्तरं क्रयलाभौ सूत्रयता हिंसा निषिद्धेति तन्न, पशुवधासमवे ऋयलाभयोरक्तत्वात । तथा च स्कन्दसंवादे-मांसाभावे कृते श्राद्धे ध्यायन्ति पितृदेवताः । करिष्यति सुतो लब्ध्वा श्राद्धं पश्चात्तु सामिपम् ॥ ददाति लब्ध्वा मांसं न तं शान्ति रुपा मुहुः । इति । मांसाभावे पश्वसंभवे । यत्वभिहितं कन्दमूलफलाभाव इत्यनेन हिंसा निपिद्धेति । तदप्ययुक्तम् । कन्दमूलफलाद्यभावे वर्षे विनेत्यहिंसाधर्मेण प्रतिपादकत्वान्न हिंसा निपिद्धति । यच्चाभ्यधायि-क्रीत्वा स्वयं वाप्युत्पाद्येत्यादिना ब्राह्मविधिरिति । तदपि मन्दमिव । तस्यापि मांसभुग्दाक्षिणात्यपरत्वेन तद्वेगविषयत्वात् । दृश्यते च देशविपयो ह्याचारः । तथा च वृहस्पतिः-उद्यते दाक्षिणात्यैर्मातुलस्य सुता द्विजेः । मध्यदेशे चर्मकाराः शिल्पिनः खगवासिनः । मम्यादाश्च नराः सर्वे गम्या नणा रजग्वलाः । पत्रेत

Loading...

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560