________________
५२६ पारस्करगृह्यसूत्रम् ।
[श्राद्धसूत्रवाहनः । तं पदापि हि यो हन्ति तेनाहं स्कन्द ताडितः । वृद्धदेवलोऽपि-वेसरोऽस्रगजश्चाश्ववृपभा. न्करिमाचलम् । रासमें प्राश्य च भवेद्धिहमिह्वा भवे भवे इति । करिमाचलः शृगालः । उस्रः शतबलिनिमिः इत्यन्ये उनः शतबलादुम्नस्तु परे गभस्तिष्ठित्यभिधानात् । तदपि न । पश्वालम्भप्रकरणात् । न हन्यान्मत्स्यसूकरौ । इति निषेधाच । अतश्चोत्रशब्देनात्र कलौ छागमेपावेव । पशुपंचकमध्ये तयोरेव भक्ष्यत्वाद्वेदोक्तत्वाच्च । तथा च श्रुतिः-पुरुषोऽश्वो गौरविजो भवते तावता वै सर्वे पशव इति । गोभिलसूत्रं च-छागोऽस्रमेपा आलभ्या इति । ननु च छागमेपग्रहणेनैव तल्लब्धेः किमर्थमुस्रग्रहणम् । उच्यते-विशेपविध्यर्थत्वादित्यदोपः । तथा च स्कन्दसंवादे-वाधीनसं महाशल्को लोहाजस्तूपरं घृतम् । दद्यादेतद्भवेद्दत्तमानन्त्याय तिला मधु । अन्यच्च-अनन्ता खड्नमांसेन लोहच्छागेन तूपरात् । इति । अत्र कश्चिद्भाष्यकृदाह-छागोस्रमेपानिति पुंस्त्वमविवक्षितम् । उपादीयमान त्वात्पशुना यजेतेतिवत् । सर्वासां पशुजातीनां मारणे भक्षणे तथा । विधाने न तु दोपः स्यादन्यथा नरकं व्रजेत् । इति । अन्ये त्वाः-पशुना यजेतेत्यत्रापि पुंस्त्वस्यैव विवक्षितत्वात् पुंब्यक्तिरेव वध्या न स्त्रीव्यक्तिरिति । अत्रानूचानाः प्रमाणम् । 'क्रीत्वा लब्ध्वा वास्वयंमृतानाहृत्य पचेत् । वाशब्दः पशुवधाभावे । अस्वयंमृतग्रहणं निपिद्धवर्जनोपलक्षणम् । तेन पश्वभावे विहितमृगपक्ष्यादिमांसानि ऋयलभ्यान्याहृत्य पचेन्न निपिद्धमिल्यर्थः । विना मांसेन यच्छ्राद्धं कृतमप्यकृतं भवेत् । इति श्राद्धवैकल्यापत्तेः । पद्मपुराणे-विना मांसेन यच्छ्राद्धं तन्न तृप्तिकरं भवेत् । क्रव्यादाः पितरो यस्मात्तस्मात्तेनैव तान्यजेत् । इति । अत्रैकेऽकारविश्लेषमबुद्धा स्वयं मृतानपि वेत्याहुः । तद्युक्तम् । तेपां निपिद्धत्वात् । तथा च स्मृतिः-उच्छिष्टस्य घृतादानं मृतमांसस्य भक्षणम् । अङ्गुल्या दन्तकाष्टं च तुल्यं गोमांसभक्षणैः। इति । महाभारतेऽपि-विषछद्महतं चैव व्याधितिर्यग्घतं तथा । न प्रशंसन्ति वै श्राद्धे यच्च शस्त्रविवर्जितम् । विपच्छमारण्ये पतितफलादौ विपप्रक्षेपस्तेन, हतं तिर्यग्घतं सिंहव्याघव्यतिरिक्तवृकादिहतम् । तयोरभ्यनुज्ञानात् । तथा च-सिंहव्याघ्रतं च यत् । इति । प्रशस्तमिति शेपः । अथवा श्राद्धे तस्य निषेधो विधिनित्यभोजनविषयः । एकमूलत्वात् । शस्त्रविवर्जितं स्वयं मृतम् । अनुपाकृतमांसानि सौनं वल्लूरमेव च । स्मृतिलोकनिषिद्धांश्च मृगमीनाण्डजानपि ॥ सौनं हिंसास्थानभवम् । अनुपाकृतं संस्कारहीनम् । वल्लूरं शुष्कं वर्जयेदिति । पृष्टमांसं वृथामांसं वय॑मांसं च पुत्रक । न भक्षयति सततं नरके रजनीचरेत् । इति । शेषमन्यतो ज्ञेयम् । ननु च फलमूलैरौषधीमित्यहिसाधर्मेण तृप्तिमुक्त्वानन्तरं छागोस्रमेषानालभ्येति हिंसां विधायेदानी क्रयलाभौ सूत्रयता वाशब्देन हिसा निषिद्धेति । तथा च-कन्दमूलफलाभावे मांसान्याहुर्मनीपिणः । पुण्यानि मुनिगीतानि लब्धानि च वधं विना ॥ इति चतुर्विंशतिमते । महाभारतेऽपि-क्रीत्वा स्वयं हनुत्पाद्य परोपहृतमेव वा । देवान्पितॄनर्चयित्वा खादन्मांसं न दुण्यति ॥ एप उक्तो विधिर्ब्रह्मन् सर्वकामफलप्रदः । इति । तस्माद्वाशब्देन हिंसां निषिध्य ऋयलाभावेव सूत्रकाराभिमताविति । अत्रोच्यतेयदुक्तं हिंसानन्तरं क्रयलाभौ सूत्रयता हिंसा निषिद्धेति तन्न, पशुवधासमवे ऋयलाभयोरक्तत्वात । तथा च स्कन्दसंवादे-मांसाभावे कृते श्राद्धे ध्यायन्ति पितृदेवताः । करिष्यति सुतो लब्ध्वा श्राद्धं पश्चात्तु सामिपम् ॥ ददाति लब्ध्वा मांसं न तं शान्ति रुपा मुहुः । इति । मांसाभावे पश्वसंभवे । यत्वभिहितं कन्दमूलफलाभाव इत्यनेन हिंसा निपिद्धेति । तदप्ययुक्तम् । कन्दमूलफलाद्यभावे वर्षे विनेत्यहिंसाधर्मेण प्रतिपादकत्वान्न हिंसा निपिद्धति । यच्चाभ्यधायि-क्रीत्वा स्वयं वाप्युत्पाद्येत्यादिना ब्राह्मविधिरिति । तदपि मन्दमिव । तस्यापि मांसभुग्दाक्षिणात्यपरत्वेन तद्वेगविषयत्वात् । दृश्यते च देशविपयो ह्याचारः । तथा च वृहस्पतिः-उद्यते दाक्षिणात्यैर्मातुलस्य सुता द्विजेः । मध्यदेशे चर्मकाराः शिल्पिनः खगवासिनः । मम्यादाश्च नराः सर्वे गम्या नणा रजग्वलाः । पत्रेत