________________
कण्डिका ७ ]
परिशिष्टम् ।
मथितं चैव तथातिलवणं च यत् । सिद्धाः कृताश्च ये भक्ष्याः प्रत्यक्षलवणीकृताः । वाग्भावदुष्टाश्च तथा दुष्टैश्रोपद्रुतास्तथा । वाससा चावधूतानि वर्ज्यानि श्राद्धकर्मणि । इति । आसनारूढमासनोपरि धृतम् । पादोपहतं पदा स्पृष्टम् । अमेध्यादागतैश्चर्मकाराद्यपवित्रस्थानादागतैरशुद्धैः स्पृष्टम् । द्विःस्विन्नं द्विःपक्कम् । परिदग्धमतिदग्धम् । अग्रावलेहितं श्राद्धात्पूर्वमारवा - दितम् । पिण्याकं तिलकल्कः । मथितं करेण विलोलितं निर्जलं दधि । करेण मथितं दुधीति निषेधात् । मथितं तत्रमित्यन्यः । सिद्धा भक्ष्या आसलकादयः प्रत्यक्षलवणेन मिश्रिताः । तथा --- दधि शाकं तथाऽभक्ष्यं शुक्तं चौपधिवर्जितम् । वर्जयेत्तु तथान्यच्च सर्वानभिपवानपि । अभक्ष्यं दधि शाकं च वर्जयेदित्यन्वयः । अन्यन्निषिद्धमित्यर्थः । अभिषवाः संवानानि । शुक्तमनम्लवस्तु कालान्तरेण द्रव्यान्तरेण वा ह्यम्लं न स्वभावतोऽत्यम्लम् । तथा च वृहस्पतिः--अत्यम्लं शुक्तमाख्यातं निन्दितं ब्रह्मवादिभिः । इति । अत्रापवादः शङ्खनोक्तः । दधि भक्ष्यं च शुक्तेषु सर्वे च दधिसंभवम् । ऋचीसपक्कं भक्ष्यं स्यात्सर्पिर्युक्तमिति स्थितिरिति । अनग्निक ऊष्मा ऋचीसं तेन पकमाम्रादि घृतयुक्तं भक्ष्यमित्यर्थः । वायुपुराणेऽपि भक्ष्याण्येव करंभाच इष्टका घृतपूरिका । कृशरो मधुसर्पिश्च पयः पायसमेव च । दधि गव्यमसंस्पृष्टान्भक्ष्यान्नानाविधानपि । शर्कराक्षीरसंयुक्ताः पृथुका नित्यमक्षयाः । सक्तून् लाजांस्तथा पूपान् कुल्माषान्व्यञ्जनैः सह । सर्पिःस्निग्धानि सर्वाणि दना संस्कृत्य भोजयेत् । श्राद्धेष्वेतानि यो दद्यात्पितरः त्रीणयन्ति तम् । इति । करम्भो दृष्यक्ताः सक्तवः । इष्टकाः कासारखण्डानि । पृथुकश्चिपिटः । असंसृष्टभक्ष्याः स्वकीयभक्ष्याः । छाजा भ्रष्टव्रीहितण्डुलाः । अपूपा मण्डकाः । कुल्मापो यावकः । एतानि पर्युषितान्यपि घृतस्निग्धा नि दघ्नाम्बुना च संस्कृतानि भक्षयेदिति पर्युषितापवाद इत्यर्थः । यत्किंचिन्मधुना मिश्रं गोक्षीरघृतपायसैः । दत्तमक्षय्यमित्याहुः पितरः पूर्वदेवताः । इति मत्स्यपुराणवचनादित्यलं बहुना | शेषं स्मृति - भ्योऽनुसंधेयम् । अन्नाभावे फलमूलैस्तृप्तिरित्युक्तम् । तत्रोपायविधिमाह 'सहान्नेनेतरास्तर्पयन्ति' फलमूलैरन्नेन सहेतराः पितॄंस्तर्पयेयुर्न केवला इत्यर्थः । लटो लिडर्थत्वात् । अत्रान्नेनेति तृतीययैव सहार्थे लधे सहेति ग्रहणं विस्पष्टार्थे नान्नस्याप्राधान्यार्थम् । अथ सहयुक्तेऽप्रधान इति पाणिनिस्म - रणविरोधादन्नस्य कथमप्राधान्यं नेति । उच्यते । अविवक्षितत्वेनास्य दोषस्य परिहृतत्वात् । तथा चाविवक्षैव हि शब्दस्य प्रधानं कारणं न वस्तुसत्तेति । न चान्नमन्तरेण तृप्तौ मूलफलादेः सामर्थ्यातिशयः । प्रधानगुणभावसंभवोपपत्तेः । तस्माद्विस्पष्टार्थमेव सहेत्युक्तम् । सहान्तेनोत्तरास्तर्पयन्ति इति क्वचित्पाठस्तत्रोत्तरा मूलफलादयस्तेनैव सह तर्पयन्ति तृप्तान्कुर्वन्ति न केवला इत्यर्थः । एवं न हिंस्यात्सर्वभूतानीत्यहिंसा धर्मेण तृप्तिमभिधायेदानीं हिंसाधर्मेणाह ' छागोसमेपानालभ्य' छागो वर्क: । उस्रस्तूपरः । स च शृङ्गहीनश्छागादिः । तथा च श्रुतिः । तूपरो वा अविवाण इति । पोमेद्रः । एतापित्रुदेशेन हत्वा पचेदित्यर्थः । तथा चात्रिः - मधुपर्के च सोमे च दैवे पित्र्ये च कर्मणि । अत्रैव पशवो हिंस्या नान्यत्रेति कथंचन । स्कन्दसंवादेऽपि — अर्ये देवतां हि यो हिनस्ति पशून्द्विजः । स यज्ञफलमाप्नोति ते च यान्ति परां गतिम् । जावालोऽपि -- हिनस्ति यत्पशून्स्वार्थमुद्दिश्यैव स पापभाक् । श्रद्धापदेशतो हिंसन्नपि स्वार्थे न दुष्यति । इति । अनैक आहु:-- उत्रो बलीवर्दः । तथा च - महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेदिति । तदयुतमू, महोक्षशब्देन तूपरस्योक्तत्वात् । तथा च जावाल: - विषाणोद्भवकाले तु यो विपाणविवर्जित. । तं महोक्षं वदन्त्याद्यास्तूपरं चापि पावनम् । इति । महोक्षः पक्षी वा मनोक्ष इति प्रसिद्धः । तथा च जातूकर्ण्य :- किंचिल्लोहितवर्णो यो दीर्घपुच्छो गुरुस्वरः । ह्रस्वत्रोटिस्तु यः पक्षी स महोक्षोऽति पावनः । इति । किंच वृपस्याभक्ष्यत्वमुक्तम् । तथा चेश्वरः --- साक्षाद्धमों वृपः प्रोक्तो मन्मूर्तिमम
५२५