________________
५२४ पारस्करगृह्यसूत्रम्।
[श्राद्धसूत्र करमर्दै च नालिकम् । कूष्माण्डं बहुवीजानि श्राद्धे दत्वा जत्यधः। भविष्येऽपि-लशुनं गृखनं चैव पलाण्डु कवकानि च । वृन्ताकनालिकालावु जानीयानातिदूपिकाः । तानिति(?) । एषामर्थःवांशं करीरं वंशाङ्कुरः । सुरसं पर्णास इत्यन्यः । सर्जकं शालफलम् । पीतसार इत्यन्यः । अवेदोक्ता निषिद्धाः हिङ्ग्वादीनां विपयमेवाग्रे वक्ष्यामः । ऊपरणिकृतलवणानि वास्तिस्रमसूराश्च कोद्रवा लवणं कृतम् । इति वचनात् । सैन्धवसामुद्रादीनां विहितत्वात् । तथा च-लवणे सैन्धवसामुद्रे इति । अपि च सैन्धवं लवणं यच्च यच्च मानससंभवम् । पविन्ने परमे ह्येते प्रत्यक्ष अपि नित्यशः ।मानससंभवं सांभरीति प्रसिद्धमिति हलायुधः । करीरगूढपत्रं करील इति प्रसिद्धम् । कोविदार उक्तः वज्रकन्द वनोद्भवः सूरणः । गवेधुका" । शणं शणपत्राणि । जम्बीरो दन्तशठफलम् । करम्भाणि"। क्षारं यवक्षारम् । सौवर्चलं सौवर्चकादिलवणानि । पोतं पोतिकाशाकम् । अश्मन्तको महोलीवृक्ष इति प्रसिद्धस्तच्छाकम् । वृन्ताकं श्वेतम् । तथा च देवः-कण्डूरं श्वेतवृन्ताकं कुंभाण्डं च विवर्जयेत् । इति । उपमन्युरपि-नानीयाच्छेतवृन्ताकं मातुलानी तथाण्डकम् । अण्डकं छत्राकम् । मातुलानी भङ्केति । कण्डूरं कपिकच्छूः । तत्फलं खजूरफलमित्यर्थः । कुंभाण्डं वृत्तालाबुसहशफलम् । पिण्डालु पेण्डारु इति प्रसिद्धम् । शुण्डीरः"। करमर्दकः करवन्दाफलानि । वहुवीजानि वीजपूरकादीनि । पलाण्डुः श्वेतकन्दः पलाण्डुविशेपः । लशुनं दीर्घपत्रं च पिच्छगन्धो महौषधम् । करण्यश्च पलाण्डुश्च लतार्कश्च परालिका ! गृञ्जनं पतनेष्टश्च पलाण्डोर्दशजातयः इति सुश्रुतोक्तेः । कवला शिलीन्ध्रः । कुमारेश्वरसंवादेऽपि वास्तत्र मसूरास्तु कोद्रवा लवणं कृतम् । तन्दुलीयकमुद्दालं, भूस्तृणं सुरसां शिg पालक्या सुमकं तथा । पिण्डमूलं च वंशानं लोहितत्रश्चनानि च । पलाण्डं विवराहं च छत्राकं ग्रामकुकुटम् । लशुनं गृचनं जम्बूफलानि कवकानि च । तन्दुलीयकमुद्दालराजमापासु"रपि । कृष्णाजाज्योतसीतैलं पयश्वाजाविकम् । इति । सुमकं खादिरीसंज्ञकं जलभवं शाकम् । मुद्दाल: कोविदारः । आसुरी राजिका । कृष्णाजाजी कृष्णजीरकः करोंजीति प्रसिद्धश्च । अतसी क्षुमा । शेष प्रसिद्धम् । हारीतः न वटप्लक्षौदुम्बरदधित्थं नालमातुलुङ्गफलानि भक्षयेदिति । प्लक्षः पर्कटी। दधित्थः कपित्थः । मातुलको बीजपूरकः । अत्रैतञ्चिन्त्यते । किम् पिप्पलीमरिचहिड्गूनां निषेध उत विधिः । उभयथा वचनदर्शनात् । तथाहि विष्णुः-पिप्पलीसुमकभूस्तृणेत्यादिः । शङ्खोऽपिपिप्पली मरिचं चैव तथा वै पिण्डमूलकम् । कृतं च लवणं सर्व शायं च "विवर्जयेत् । व्यास:अश्राद्धयानि धान्यानि कोद्रवाः पुलकास्तथा । हिमुद्रव्येषु शाकेषु"लकाला शुभास्तथा । द्रव्येषु हिङ्गुः । शाकेपु कालानः शुभा च निषेद्वेत्यर्थः । पुलकाः पुलकाहश्च छन्दसः । कालानः कृष्णार्जकः कुहेर इति प्रसिद्धः । शुभा शुभाख्यः शाकविशेषः इत्यादिनिषेधः । विधिस्तु-पिप्पली मरिचं चैव पटोलं वृहतीफलम् । इति वायुपुराणे । कुमारेश्वरसंवादेऽपि-पिप्पली मरिचं हिङ्गु पटोलं वृहतीफलम् । इत्यादि । आदिपुराणेऽपि–मधूक रामठं चैव कर्पूर मरिचं गुडम् । इत्यादि । रामठं हिङ्गुः । एवं वचनविप्रतिपत्तौ केचिदाहुः-पिप्पलीमरिचहिणूनां संस्कारकत्वेन विधिः केवलानां प्रतिषेधः । अपरे तु संस्कारान्तराभावे विधिरन्यथा नेत्याहुः । षोडशिग्रहणवद्विकल्प इत्येके । एवं च संस्कारकत्वेन विधियुक्तः प्रतिभाति । वेसवारत्वेन स्वादूनि मधुराणि चेति स्वादुत्वविध्युपपत्तेः । तथा च-शुण्ठीमरिचपिप्पल्यो धान्यका वाहिकिङ्गुकम्। पिप्पलीमूलसंयुक्तं वेसवार इति स्मृतम् । इति । शङ्खः-कृष्णाजाजी विडं चैव सीतपाकी तथैव च । वर्जयेल्लवणं सर्व तथा जम्बूफलानि च । कृष्णाजाजी कृष्णजीरकः । विडं विडाख्यम् । लवणं सर्वसन्धवसमुद्रसांभरिव्यतिरित्तम् । ब्रह्माण्डपुराणे-आसनागूढमन्नाचं पादोपहतमेव च । अमेध्यादागतः स्पृष्टं शुक्तं पर्युपितं च यत् । द्विःस्विनं परिदग्धं च तथैवाग्रावलहितम् । शर्कराकीटपापाणैः केशैर्यञ्चाप्युपद्रुतम् । पिण्याकं