________________
कण्डिका ७] परिशिष्टम् ।
५२३ मथवार्षपलं चतुर्णाम् ॥ लक्ष्णं पटे ललनया मृदुपाणिघृष्टा कर्पूरधूलिसुरभीकृतभाण्डसंस्था । एषा वृकोदरकृता सरसा रसाला या खादिता भगवता मधुसूदनेन ॥ इति । चोष्यैराम्रादिकैः फलैः । त्रिजातकं स्वगेलागन्धपत्रमेलनम् । तथा च निघण्टु:-त्वगेलापत्रकैस्तुल्यैत्रिसुगन्धि निजातकम् । नागकेसरसंयुक्तं चातुर्जातकमुच्यते । इत्यादि । वायुपुराणे-बिल्वामलकमृद्वीकापनसाम्रातदाडिमम् । चन्यं पालेवताक्षोटखजूराम्रफलानि च । कलेरुः कोविदारश्च तालकन्दं तथा बिसम् । तमालं शतकन्दं च गन्धालू शीतकन्दकम् । कालेयं कालशाकं च सुनिपण्णं सुवर्चला । मांसं शाकं दधि क्षीरं चेबु वेत्राङ्कुरस्तथा । कधूलः किङ्किणी द्राक्षा लकुचं मोचमेव च । कर्कन्धू ग्रीवकं वारं तिन्दुकं मधुसाह्वयम् । वैकङ्कतं नालिकेरं शृङ्गाटकपरूपकम् । पिप्पली मरिचं चैव पटोलं बृहतीफलम् । सुगन्धि मत्स्यमांसं च कलायाः सर्व एव हि । एवमादीनि चान्यानि स्वादूनि मधुराणि च । नागरं चात्र वै देयं दीर्घमूलकमेव च । इति । अस्यार्थः । मृद्वीका गोस्तनी द्राक्षा । पनसो व्याख्यातः। आम्रातकः कपीतनः। चव्यं चविका । पालेवतमुक्तम् । आक्षोटोऽप्युक्तः । कसेरुर्भद्रमुस्ता । तालकं तालीति प्रसिद्धम् । शतकन्दं शतावरी । गन्धालूः कर्चुरशाकम् । शीतकन्दं शालूकम् । कालेयक दारुहरिद्रा, करालाक्षं शाकमिति गोविन्दराजः । सुनिषण्णं वितुन्नशाकम् । सुरनुनीति ख्यातं जलभवं शाकमिति कश्चित् । सुनिषण्णं चाङ्गेरीसदृशशाकं वा । चाङ्गेरीसदृशैः पत्रैः सुनिषण्णकमुच्यते । शाकं जलाशये देशे चतुःपत्री निगद्यते । इति सुश्रुतोक्तेः। सुवर्चला ब्रह्मसुवर्चला । सूर्यावर्त इति गोविन्दराजः । कट्फलः श्रीकर्णिका । किङ्किणी द्राक्षा । लकुचो लिकुचः। मोचा कदलीफलम् । कर्कन्धूरुक्ता । ग्रीवकं वपुष्टा । वारं पियालविशेषः । तिन्दुकोऽसितसारः । शृङ्गाटकमुक्तम् । परूषकं फेरुस इति प्रसिद्धं फलम् । वृहती निदिग्धिकाफलम् । वरीकटाईति प्रसिद्धम् । दीर्घमूलं तुण्डिकेरीफलम् । मूलकमित्यन्यः । पटोलो दीर्घपटोलो राजीफलमित्यर्थः । चचेडा इति लोके । यत्तु-ान्धारिका पटोलानि श्राद्धकर्मणि वर्जयेत् । इति पटोलनिषेधः स क्षुद्रपटोलविषयः । तथा च निघण्टुः-पटोली स्थाहितीयान्या स्वादुपत्रफला च सा । इति । शेषं प्रसिद्धम् । कुमारेश्वरसंवादेऽपि-पालेवतकमृद्वीकाखजूराम्रकसेरुका । बिल्वामलकमाक्षोटपनसाम्रातकानि च । चेचुवेत्रा
कुराः शाकं "लमोचमेव च । शीतकन्दं बिसं नालिकेरं कटूफलकं तथा । इत्याद्यमेध्यमन्यच्च प्रदेयं श्राद्धकर्मणि । चेचुः शणभेदः । इतरस्य निषेधात् । चंचुर्मढाकं शाकमित्यन्यः । वय॑शाकान्याह विष्णुः-भूस्तृणशिग्रुसर्षपसुरसार्जककूष्माण्डालावुवार्ताकपालाक्यतण्डुलीयककुसुम्भादि वर्जयेदिति । भूस्तृणो रोहिषः । गन्धचणाख्यं शाकमित्यर्थः । शिघु सुहिजन इति प्रसिद्धः । सर्षपो राजसर्पपः । इतरत्य विहितत्वात् । सुरसा श्वेतनिर्गुण्डी । अर्कजः श्वेतार्कजः । कुहेर इति प्रसिद्धः । पालाक्यः पलकीति प्रसिद्धा । तण्डुलीयकं चौराई इति प्रसिद्धः । वार्ताकं श्वेतवृन्ताक्रम् । उशनाःनालिकाशणछत्राककुसुमानम्बुविद्भवान् । कुम्भीकम्बुकवृन्ताककोविदारांश्च वर्जयेत् । वर्जयेगञ्जनं श्राद्धे काञ्जिकं पिण्डमूलकम् । करखं येऽपि चान्ये वै रसगन्धोत्कटं तथा । नालिका प्रसिद्धा। दीर्घनालाप्रैलापल्लवेति माधवीये । छत्राकं शिलीन्ध्रः । कुम्भी श्रीपर्णिका । केवुकं वृत्तालावु । वृन्ताकं श्वेतम् । कोविदारश्चमरकम् । गृचनो हरिद्रवर्णः पलाण्डुविशेषः । काञ्जिकं प्रसिद्धम् । करखं चिरिविल्वफलम् । पुराणेऽपि-वांशं करीरं सुरसं सर्जकं भूस्तृणानि च । अवेदोक्ताश्च निर्यासा लवणान्यौपधानि च । भरद्वाजोऽपि-स्वल्पाम्बुकूष्माण्डफलं वज्रकन्दं च पिपली। शिविकानि करीराणि कोविदारगवेधुका । कुलत्थशणजम्बीरकरम्भाणि तथैव च । अब्जादन्यद्वक्तपुष्पं शिक्षारं तथैव च । एतानि नैव देयानि सर्वस्मिन् श्राद्धकर्मणि । इति । पैठीनसिः-वृन्ताकनालिकापोतकुसुम्भाश्मन्तकाश्चेति शाकानामभक्ष्या इति । स्मृत्यन्तरम्-पिण्डालुकं च शुण्डीरं