________________
५२२
पारस्करगृह्यसूत्रम् ।
[ श्रद्धसूत्र
तामहाः । इति । मुद्रा वन्याः । चीनकस्तृणधान्येषु कडुभेदः । उशना अपि - तीवारमापमुद्राश्च गोधूमाः शालयस्तथा । यवाश्च चणकाश्चैव सर्वकडः प्रशस्यते । इति । ततश्च ग्राम्या आरण्या विहितप्रतिप
।
1
1
। फलानि मूलानि पूर्वपूर्वाभावे उत्तरोत्तराणि क्रमेण श्राह्माणीत्यर्थः । अथवा समुच्चयार्थमोपधिग्रहणम् । तेनौपधिसहितान्येव फलादीनि तृप्तिकराणीत्यर्थः । तथा ह्युत्तरं सूत्रं सहान्नेनेति । मनुरपि-भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च । हृद्यानि चैव मांसानि सर्व दद्यादमत्सरी | इति । मूलफलैरद्भिर्वेति वा पाठः । तथा च सूत्रान्तरम् -- मूलफलैरद्भिवेति । सर्वाभावेऽद्भिस्तृप्तिरित्यर्थः । तथा च -- पराधीनः प्रवासी च निर्धनो वापि मानवः । मनसा भावशुद्धेन श्राद्धं दद्यात्तिलोकम् | अनुकल्पोपलक्षणं चैतत् । तेनोपवासादिकमपि ज्ञेयम् । आपो निषिद्धातिरिक्ताः । तथा च भरद्वाजः -- नक्तोद्धृतं तु यत्तोयं पल्वलाम्वु तथैव च वर्जयेदिति शेषः । मार्कण्डेयोऽपि - दुर्गन्धि फेनिलं चाम्बु तथाल्पप्रदरोदकम् । यन्न सर्वार्थमुत्सृष्टं यच्चाभोज्यनियोजनम् । तद्वर्ण्य सलिलं तात सदैव पितृकर्मणि । इति । मूलग्रहणं दशविधशाकोपलक्षणम् । तथा च - मूलपत्रकरी रायफलकाण्डाधिरूढकम् । त्वक्पुष्पं कवकं चेति शाकं दशविधं स्मृतम् । इति । मूलं मूलकादि । पत्रं पालक्यनाडीवादि । करीरं वंशाङ्कुरादि । अग्र प्लक्षचेत्रादीनाम् । फलं कूष्माण्डादि । काण्डं सार्पपवास्तूका1. दि । अधिरूढकं तालास्थिमज्जादि । त्वमातुलुङ्गादि । पुष्पं तिन्तिडीककाञ्चनारादि । कवकं शि लीन्प्रादि । मार्कण्डेय: --- विदारीभिर्गुरुण्डैश्च विसैः शृङ्गाटकैस्तथा । केचुकैश्च तथा कन्दैः कर्कन्धूत्रदरैरपि । पालेवतैरा रुकैश्वाक्षोडैः पनसैस्तथा । काकोलैः क्षीरकाकोलैस्तथा पिण्डालकैः शुभैः । लाजाभिश्च शिलाभिश्च त्रपुसोर्वारुचिर्भटैः । सर्षपै राजशाकाभ्यामिदै राजतन्तुभिः । पियाला मल कैर्मुख्यैः फल्गुभिश्च तिलम्बकैः । वेत्राड् कुरैस्तालकन्दैश्चुक्काक्षीरिकावचैः । मोचैः समोचैर्लकुचैस्तथा वै चीजपुत्रकैः । मुञ्जातकैः पद्मफलैर्भक्ष्यभोज्यैस्तु संस्कृतैः । रागखाण्डवचोष्यैश्च त्रिजातकसमन्वितैः । दत्तेस्तु मासं प्रीयन्ते विधिवत्पितरो नृणाम् । इति । अस्यार्थः - विदारी कृष्णवर्णभूकूष्माण्डफलमिति । माधवीयेविदारीति प्रसिद्धा विदारी तस्याः कन्दमिति शेप इत्यन्यः । भुरुण्डो जलप्रभवः कन्दविशेष इति मञ्जरीकारः । केचुकः कचूराख्यशाकः । जलप्रभवः कन्दविशेष इत्यन्यः । विसं मृणालम् । शृङ्गा टकं जलजं त्रिकण्टकफलम् । सिधारा इति प्रसिद्धम् । कन्दः सूरणकन्दः । कर्कन्धूः स्वादु वदरीफलम् चदुरमन्यद्वदरफलम् | पालेवतं जम्बीराकारं फलं काश्मीरप्रसिद्धम् । आरुकं आरुकन्दः । आक्षोड: पार्वतीयपीलुफलम् । पनसैः कण्टकिफलैः कटहर इति प्रसिद्धैः । काकोलैर्मधुराफलैः । क्षीरका कोलस्तद्भेदः । पिण्डालुकैश्चतुर्भेदैः । तथा च मनुः - पिण्डालुकं कुगन्धं च मध्वालु स्यात्तु रोमगम् । शङ्खाशङ्खसंकाशं कष्टालु स्वल्पकामिति । लाजा भ्रष्टधानाः । तथा च शङ्खः -लाजान्मधुयुतान्दद्यात्सक्त छर्करया सह । इति । शिला शैलेयम् । त्रपु त्रपुसीफलम् । उर्वारु स्वादुकर्कटी | चिर्भटः कटुकर्कटी । सर्पपो गौरसर्षपशाकम् । राजशाकं शाकविशेषः । कृष्णसर्पपशाकविशेषमिति माधवीये । तन्न तस्य प्रतिषेधात् । इदस्तापसतरुः । राजतन्तुः प्रियालो राजादनम् । निघण्टुकेः । प्रियाला द्राक्षा वा । फल्गु काकोदुम्बरिकाफलम् । अतिलम्बकैः 'तालकन्दैस्तालमूलीकन्दैः । चुक्रिकाम्लिकाफलं तित्तिडीफलमित्यर्थः। नागरङ्गतित्तिङीति स्मृत्यन्तरवचनात् । क्षीरिका फलाध्यक्षम् । मोचा कदलीफलम् । लकुचैर्लिकुचफलैः । वीजपुत्रकैर्मुञ्जातकैः । पद्मफलैर्वेदर इति प्रसिद्धैः । भक्ष्यं कटुकमोदका दि भोज्यं भोजनमोदना दिसूपयुक्तम् । रागपाडवा: रसालादिपानविशेषाः । तथाच निघण्दुः-मार्जिता शिखरिण्युक्ता रसाला सुरभिस्तथा । औषधी पाडवाख्या च चतुर्जातकसंयुता । इति । चतुजीतकं वक्ष्यमाणम् । सुसंस्कृतैरिति मेलविशेपैः । तथा च सूपकारशास्त्रम् - अर्धाढकं सुचिरपर्युधितस्य दध्नः पण्डस्य पोडशपलानि अशिप्रभस्य । सर्पिः पलं मधु पलं मरिचं द्विक शुण्याः पला
I
F