________________
कण्डिका ७ 1
परिशिष्टम् ।
५२१
केत्युक्तेः । खल्वाः खलुकुलाश्चाप्रसिद्धाः । कोद्रवचणकौ वाच्यौ वा ग्राम्यत्वात् । दशेति ग्राससंख्या न हविष्यसंख्या । तथा च विष्णुः — तिलैत्रीहियवैर्माषैरद्भिर्मूलफलैः शाकैः श्यामाकैः प्रियनीवारैधूमैर्मासं प्रीयन्त इति । मसूरादिग्रहणाच्च । तथा मासं तृप्तिः पितॄणां तु हविष्यान्नेन जायते इति । क्षुद्रधान्यानि श्यामाकप्रियङ्गुतिलगोधूमरक्तसर्षपवर्ज सर्वाण्यश्राद्धार्हाणि । नीरस - त्वात् । तथा च वर्ज्या मर्कटयः श्राद्धे राजमाषास्तथाणवः । विपूपिका मसूराच श्राद्धकर्मणि गर्हिताः । भारद्वाजोऽपि - नीरसान्यपि सर्वाणि भक्ष्यभोज्यानि यानि च । तानि स्युनैव देयानि सर्वत्र श्राद्धकर्मणीति । अणवः क्षुद्रान्नानि । वृद्धयाज्ञवल्क्योऽपि - मकुष्ठा राजमाषाश्च मसूराश्च चणास्तथा । कोद्रवा मूलका राजसर्षपाः श्राद्धघातकाः । इति । राजसर्षपो राजिका । तथा च निघण्टुः --- आसुरी राजिका राजी कृष्णैका राजसर्षपाः । राजिका यव इत्यन्या राजिका कृष्णसर्पपा इति । चतुर्विंशतिमतेऽपि । कोद्रवान्राजमाषश्च कुलत्थांतुरकास्तथा । निष्पावांस्तु विशेपेण पंचैतान्वर्जयेत्सदा ॥ यावनालानपि तथा वर्जयन्ति विपश्चितः । इति । राजमाषाः पीतगौरवर्णमाषाः । लोविआ गौरवाश्चस इति मध्यदेशप्रसिद्धाः । निष्पावा मकुष्ठकाः । निष्पावा चेल्ला: शिम्बिसदृशा दक्षिणापथप्रसिद्धाः इति कश्चित् । चरका वनमुद्राः । यावनालो जोण्डरीति प्रसिद्धः । तथा च निघण्टुः -- यावनालो देवधान्यं सुंदलि जुन्नलोनलः । इति । अत्र निष्पावनिषेधः कृष्णविषयः कृष्णधान्यानि सर्वाणीति निषेधात् । यवत्रीही सगोधूमौ तिलमुद्राः ससर्षपाः । प्रियङ्गवः कोविदारा निष्पावाञ्चात्र शोभना इति मार्कण्डेयेन कृष्णेतरस्य विहितत्वात् । शोभनः कृष्णेतरः । स्मृत्यन्तरे — मुद्राढकी माषवर्जे विदलानि दद्यादिति । विलानि दलितुं योग्यानि । मुद्रः कृष्णः । हरितमुद्रकृष्णमाषश्यामाकेति ब्रह्मपुराणे हरितस्य विहितत्वात् । माषो राजमापः । तद्ग्रहणं कुलत्थाद्युपलक्षणम् । तथा च मरीचिः --- कुलत्थाश्चणकाः श्रद्धे न देयाश्चैव कोद्रवाः । कटुकानि च सर्वाणि विरसानि तथैव च । इति । आढकी तुवरीति प्रसिद्धा । एतान्वर्जयित्वा विलानि दद्यादित्यर्थः । नेत्यनुवृत्तौ विष्णुपुराणे--- मसूरक्षारवार्ताककुलत्थशणशिश्रवः इति । शणशिग्नादिशाका शाकप्रकरणे प्रपंचयिष्यन्ते । क्षारो यवक्षारादिः । शेषं स्मृतिभ्यो विज्ञेयम् । एतानि धान्यानि निस्तुषानि गव्यदुग्धादिसहितानि च मासं तृप्तिकराणि । तथा च वृद्धयाज्ञवल्क्यः मत्स्यपुराणे - उषहीनानि धान्यानि यान्ति सर्वाणि मेध्यताम् । वर्जयित्वा मसूरान्नं मकुष्ठात्राजमाषकान् ॥ मसुरादिधान्यत्रयं निस्तुषमप्यमेव्यमित्यर्थः । तथा अन्नं तु सदधिक्षीरगोघृतं शर्करान्वितम् । मासं प्रीणाति वै सर्वान्पितृनित्याह केशवः || कलायाः सर्वेऽपि श्राद्धे देयाः । कलायाः सर्व एव चेति वक्ष्यमाणत्वात् । तदभाव आरण्याभि: ग्राम्याभाव आरण्याभिरौषधीभिर्मासं तृप्तिः पितॄणामित्यर्थः । आरण्या अरण्ये भवाः श्यामाकप्रभृतयः । अरण्याण्णो वक्तव्य इति णप्रत्ययः । तथा च मार्कण्डेय: - 'राजश्यामा कश्यामाकौ तद्वचैव प्रसातिका । नीवाराः पौष्कलाश्चैव धान्यानि पितृतृप्तये ' इति । पौष्कला नीवारविशेपा: । विष्णुपुराणे - श्रीयश्च यवाश्चैव गोधूमाः कङ्कुसर्पपाः । माषा मुद्राः सप्तमाश्च अष्टमाच कुलत्थकाः । श्यामाकाश्चैव नीवारा जर्तिलाः सगवेधुकाः । कोविदारसमायुक्तास्तथा वेणुयवाश्च ये । प्राम्यारुण्याः स्मृता होता औपध्यश्च चतुर्दश । इति । आद्याः सप्त ग्राम्याः । अष्टमाचा आरण्याः । 'मूलफलरोषधीभिर्वा' अत्रानुपूर्व्या ओषधीशब्दः प्रथमं व्याख्येयः । तथा चोक्तम्- अतिरिक्तं पदं त्याज्यं हीनं वाक्ये निवेशयेत् । विप्रकृष्टं तु संदध्यादानुपूर्व्या च कल्पयेत् । इति । वाशब्दोऽभावे । ओषव्यभावे फलमूलादिना मासं तृप्तिरित्यर्थः । तथा च वृद्धयाज्ञवल्क्यः - अन्नाभावे तु कर्तव्यं शाकमूलफलादिना । इति । अय पुनरोषधिग्रहणम् अरण्योपध्यभावे विहितप्रतिषिद्धौषधिप्राप्त्यर्थम् । तथा च मार्कण्डेयः -- गोधूमैरिनुभिर्मुद्रैश्चीन कैश्चणकैरपि । श्राद्धेषु दत्तैः प्रीयन्ते मासमेकं पि
1
६६